OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 25, 2017

सिरियन् नगरे ऐ एस् भीकराः ११६ जनान् गणहत्यामकुर्वन्। 
        बय्रूत् > सिरियन् बलेन निश्चितपराजयाः 'इस्लामिक् स्टेट्' भीकराः मध्यसिरियस्थात् 'अल् खर्यातन्' नगरात् पलायनात् पूर्वं ११६ तद्देशवासिजनान् व्यापादितवन्तः। सैनिकानां कृते चारवृत्तिं कृत्वा सूचनाः दत्तवन्तः इत्यारोप्य आसीदयं प्रतीकारव्यवहारः इति सिरियन् मानवाधिकारनिरीक्षणसङ्घस्य नेता रमि अब्दल् रह्मानः अब्रवीत्। 
      विंशतिः दिनैः एव एतत्संख्याकाः जनाः व्यापादिताः। गोलिकाशस्त्रेण कण्ठच्छेदनेन च हननं कृतम्।