OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 22, 2017

भारतीयस्य तिरोधानान्वेषणप्रसङ्गे  अपहृता पाक्-माध्यमप्रवर्तका अधिगता। 
                    लाहोर् > पञ्चसंवत्सरेभ्यः पूर्वं पाकिस्थाने अप्रत्यक्षं भारतीयमधिकृत्य अन्वेषणप्रसङ्गे अज्ञातैरपहृता पाकिस्थानीया वार्तामाध्यमप्रवर्तका सीनत् षह्सादिया नामिका वर्षद्वयानन्तरम् अधिगता । 'डय्ली नयी खबर्', 'मेट्रो न्यूस् टि वि' इत्येतयोः वार्तामाध्यमयोः लेखिका भूयमाना सीनत् वर्या, पाकिस्थान् अफ्गानिस्थान् सीमायां बन्धनस्था आसीदिति Enforced Disappearance Commission संस्थायाः अध्यक्षः जावेद् इक्बाल् निगदितवान्। कयाचित् देशविरुद्धसंस्थया एव सा अपहृतेति तेनोक्तम्। 
     २०१५ ओगस्ट् मासे स्वगृहात् कार्यालयं प्रति गमनमार्गे लाहोरतः आसीत् सीनत् षह्सादिया अपहृता। पाकिस्थाने तिरोभूतस्य भारतीययन्त्रकलाभिज्ञस्य हमीद् अन्सारि नामकस्य तिरोधानमधिकृत्य अन्वेषणमध्ये आसीदियं घटना। तिरोधानमन्वेष्व्यम् इति पाक् सर्वोच्चनीतिपीठस्य मानवाधिकारविभागे अन्सारिणः मात्रे फौसियायै सीनत् वर्यया अभियाचिका समर्पिता आसीत्। तदनन्तरमेव सा अपहृता।