OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 27, 2017

स्पेयिन् - इङ्लण्ट् अन्तिमस्पर्धा। 

                 मुम्बई/कोल्कत्ता > ऊनसप्तदशवयस्कानां [अण्डर् - १७] भुवनचषकपादकन्दुकस्पर्धायाः अन्तिमस्पर्धा स्पेयिन्-इङ्लण्ट् दलयोर्मध्ये भविष्यति। कोल्कत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे संवृत्ते एकस्मिन् उपान्त्यमत्सरे इङ्गण्ट् दलेन एकं प्रति त्रयः लक्ष्यकन्दुकक्रमेण ब्रसील् दलं पराजितम्। मुम्बय्यां डि वै पाटील् क्रीडाण्कणे प्रचलिते अन्यस्मिन् प्रतिद्वन्द्वे आफ्रिक्कन् पादकन्दुकस्य वीरतां प्रकटिवन्तं मलि दलं ३-१इति लक्ष्यकन्दुकक्रमेण पराजित्य स्पेयिन् दलं अन्त्यचक्रं प्रविष्टवत्।