OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 24, 2026

 नेपालाय भारतस्य १५,००० कोटि साहाय्यभाण्डः।

नवदिल्ली> प्रकृतिदुरन्तेन अतिक्लेशमनुभूयमानाय नेपालराष्ट्राय भारतस्य आर्थिकसाहाय्यम्। पुनरुद्धारण-विकसनप्रवर्तनेभ्यः १६२ कोटि डोलर् मितस्य [१५,०५०.४२ कोटि रूप्यकाणि] साहाय्यभाण्ड एव भारतेन उद्घोषितः। तथा च विभिन्नमण्डलेषु परस्परसहयोगाय अष्ट सन्धिपत्रेषु च उभाभ्यां राष्ट्राभ्यां हस्ताक्षरं कृतम्। 

  ह्यः नवदिल्ल्याम् आयोजिते कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी नेपालस्य प्रधानमन्त्रिणः बलेन्द्र षाहवर्यस्य सान्निध्ये  साहाय्यभाण्डस्य उद्घोषणं कृतवान्। अयोध्या राममन्दिरं नेपालस्थं जनकपुरं मन्दिरं इत्येददुभयं च सम्बन्ध्य नूतनीं प्रतिसप्ताहिकीं रेल् यान सेवाम् उभौ प्रधानमन्त्रिणौ मिलित्वा उद्घाटितवन्तौ।