विश्वचतुरङ्ग वीरतास्पर्धायाः अन्तिमप्रतिद्वन्द्वः श्वः आरभ्यते। 
जहोवीर सिन्द्रोवः डि गुकेषश्च वार्ताहरसम्मेलने।
कोलोण् [ स्विट्सर्लन्ट्] > विश्वचतुरङ्गवीरः कः इति निर्णेतुम् अन्तिमचरण स्पर्धाः मङ्गलवासरे आरभ्यते। भारतक्रीडकः डि गुकेष: किरीटसंस्थापनाय, उस्बकिस्थानस्य जावोहिर् सिन्द्रोव् नामकः प्रथमकिरीटप्राप्तये च स्पर्धिष्येते।
स्विट्सर्लान्ट् देशे जनीवासमीपे कोलोण् इत्यत्र वर्तमाने 'बोड्मर् फौण्डेषन्' नामकस्थाने एव अन्तिमचरणस्पर्धाः आयोज्यमानाः सन्ति।१४ श्रेष्ठक्रीडाः [Classical Games] अन्तिमचरणे भविष्यन्ति। यदि तदा प्राप्ताङ्कः ७-७ इति भविष्यति चेत् चतस्रः 'rapid tie break games' नामकक्षिप्रक्रीडाः सविशेषसमयाधिष्ठानेन विधास्यन्ते। तदा अपि समस्थितिः चेत् विशिष्टसमयाधिष्ठितं क्रीडाद्वयं विधास्यति। तत्रापि समस्थितिश्चेत् कस्यापि एकस्य विजयपर्यन्तं 'ब्लीट्' नामकक्रीडा अनुवर्तिष्यते। १४ क्रीडाः अपि भारतीयसमयानुसारं रात्रौ सप्तवादने सम्पत्स्यन्ते।