भारतइस्रयेलस्य मध्ये सप्तसन्धयः
प्रधानमंत्रिणः नरेन्द्रमोदिनः इस्रजेल्यात्रायाः द्वितीये दिवसे देशद्वयस्य मिथः कृषि-विज्ञान-प्रौद्यौगिकी-अन्तरिक्ष-जलप्रबंधनं चेति विषयेषु सप्तसन्धयः हस्ताक्षरिताः, श्रीमोदिना तत्रत्यः प्रधानमन्त्री नेतान्याहूमहोदयः सपरिवारः भारतं प्रति त्मन्त्रितः, इस्रजेल्देशस्य राष्ट्रपतिना रुवेनरिवलिनेन अपि मोदिना सह सम्भाषणं विहितम्, उभयोर्मिथः द्विपक्षीय-सम्बन्धान् द्रढयितुं परिचर्चा जाता | प्रधानमंत्री नरेन्द्रमोदी अब्रवीत् यत् आतंकवादः उभाभ्यां देशाभ्यां चिन्तनीयः विषयः वर्तते, अपि चोक्तं यत् अातंकवादस्य निराकरणाय सम्भूय कार्याचरणस्य अावश्यकता वर्तते | इस्रजेल्देशस्य प्रधानमंत्री बेंजामिनः प्रोक्तवान् यत् देशद्वये महती प्रतिभा वर्तते |OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Thursday, July 6, 2017
अरुणाचल प्रदेशे अन्तर्धानं प्राप्तस्य एकाक्ष विमानस्य अवशिष्टानि दृष्टानि।
इट्टानगरम् > सविशदं कृते अन्वेषणे युपिया जनपदस्थे वन प्रदेशेषु एव एकाक्ष विमानस्य (Helicopter) अवशिष्टनि दृष्टानि। किन्तु तस्मिन् आसीनम् आरक्षकम् अधिकृत्य इतःपर्यन्तं किमपि न ज्ञायते। आरक्षकेन सह त्रयः जनाः तस्मिन् आसीत् इति अन्वेषण सङ्घेन उक्तम्। पापम्परे जनपदे सगली नाम प्रदेशे जातायां मृत्पाते बन्धितान् ततः विमोक्तुम् उद्दिश्य विमानेन गतवन्तः आसीत् ते। सोमवासरे सलीगातः उड्डयनानन्तरं बन्धं विनष्टमभवत् इति व्योम से नया उक्तम्॥
Wednesday, July 5, 2017
इस्रयेले मोदिने हृद्यं स्वीकरणम्।
टेल् अवीव् >भारतप्रधानमन्त्री नरेन्द्रमोदी इस्रयेल् देशं प्राप्तवान्। इस्रयेल् सन्दर्शनं कुर्वन् प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।ह्यः सायं राजधानीं टेल् अवीव् प्राप्ताय मोदिने आतिथ्याचारसंहिताम् [protocol] अतिक्रम्य इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुवर्यः टेल् अवीव् विमाननिलयं प्रत्यक्षं सम्प्रप्य हार्द्दिकं स्वीकरणं समर्पितवान्।
भारतस्य देशीयगानस्य अनुचरणेनैव स्वीकरणं कृतम्। "इस्रयेल् सन्दर्शनं कुर्वन् प्रथमप्रधानमन्त्री भवान् अस्माकं यथातथः सुहृत् भवति। वयं भारते स्निह्यामः" मोदिने स्वागतं व्याहरन् नेतन्याहुः उक्तवान्।अमेरिक्काराष्ट्रपतये मार्पापावर्याय च समानं स्वीकरणमेव मोदिने अपि दातुं सज्जीकृतमिति पूर्वमेव इस्रयेल् अधिकारिभिः स्पष्टीकृतमासीत्।
इन्डोनेष्यायां उदग्रयानं विशीर्य अष्ट मरणानि।
जक्कार्ता - इन्डोनेष्यादेशे विस्फोटिताग्निपर्वतस्य समीपम् अधिवसतां रक्षितुं यतमानम् उदग्रयानं विशीर्य अष्ट जनाः मृताः। मध्यजावाप्रविश्यायां तमाङ् गुङ् जनपदे बुट्टक् पर्वतस्य शिलाखण्डेन सह घट्टनेनैव उदग्रयानस्य भग्नः अभवत्
दियङ् प्लेटो नामके विनोदकेन्द्रे वर्तमानस्य अग्निपर्वतस्य विस्फोटनेन दश जनाः व्रणिताः आसन्। ततः जनान् अपाकर्तुं यतमानमासीत् उदग्रयानम्। चत्वारः नाविकाः चत्वारः रक्षाप्रवर्तकाश्च याने आसन्।
जक्कार्ता - इन्डोनेष्यादेशे विस्फोटिताग्निपर्वतस्य समीपम् अधिवसतां रक्षितुं यतमानम् उदग्रयानं विशीर्य अष्ट जनाः मृताः। मध्यजावाप्रविश्यायां तमाङ् गुङ् जनपदे बुट्टक् पर्वतस्य शिलाखण्डेन सह घट्टनेनैव उदग्रयानस्य भग्नः अभवत्
दियङ् प्लेटो नामके विनोदकेन्द्रे वर्तमानस्य अग्निपर्वतस्य विस्फोटनेन दश जनाः व्रणिताः आसन्। ततः जनान् अपाकर्तुं यतमानमासीत् उदग्रयानम्। चत्वारः नाविकाः चत्वारः रक्षाप्रवर्तकाश्च याने आसन्।
तमिल्नाटुराज्ये चलच्चित्रशालाः पिहिताः।
चेन्नै > पण्य-सेवनकरव्यवस्थामतिरिच्य ३०% प्रादेशिकशुल्कस्यापि निवेशनं प्रतिषिध्य ह्यः आरभ्य तमिल् नाट् राज्यस्थाः सहस्राधिकाः चलनचित्रशालाः पिहिताः। किन्तु अयं प्रतिषेधः न सर्वकारं लक्ष्यीकृत्य परं करद्वयसमर्पणाय आयाभावादिति चलच्चित्रनिर्माण-वितरणसंस्थायाः नेतारः उक्तवन्तः।
एष्याभूखण्डस्य कायिकस्पर्धा अद्य समारभ्यते।
भुवनेश्वरम्>एष्यायाः कायिकमेला [एष्यन् अत्लटिक् चाम्प्यन्षिप्] अद्य ओडीषाराज्ये भुवनेश्वरे समारभ्यते। मेलायाः औपचारिकम् उद्घाटनं कलिङ्गा क्रीडाङ्कणे अद्य सायं पञ्चवादने सम्पद्यते। स्पर्धाः श्वः आरप्स्यन्ते। पञ्चचत्वारिंशत् राष्ट्रेभ्यः उपाष्टशतं कायिकताराः मेलायामस्यां स्पर्धिष्यन्ते। पुरुष-वनिताविभागेभ्यः ४२ विषयेषु स्पर्धाः सन्ति। प्रथमतया एव ओडीषा मेलायाः आतिथ्यं स्वीकरोति।
निर्झरीम् प्रति प्रकृतिस्नेहिभि: क्षिप्ता: द्वे दशांशम् पञ्च टण् मद्यकूप्य:।।
मुम्बै> मुम्बै मध्ये एकस्यां निर्झर्याम् मालिन्यनिर्मार्जनाय आगता: छात्रा: प्रदेशवासिनश्च स्तब्धा: अभवन्। निर्झरीत: एते द्वे दशांशम् पञ्च टण् मद्यकूपी: समाहृतवन्त:। सर्वाश्च सन्दर्शकै: क्षिप्ताश्च। प्रकृतिस्नेहिन: कथम् प्रकृतिं दूषयन्ति इत्यस्य उत्तमोदाहरणम् एषा घटना। पारिस्थितिकजीवनम् (एन्वयोण्मेन्ट् लैफ्) इति सन्नद्धसंस्थाया: नेतृत्वे एव अषाने ग्रामे भीवपुरीनिर्झरीस्थानम् केन्द्रीकृत्य अष्ट निर्झर्य: शुचीकृता:। किन्तु निर्झर्यां विद्यमानानाम् मालिन्यानां केवलं दश प्रतिशतमेव समाहर्तुं शक्तवन्त: इति सन्नद्धसंस्थाया: प्रवर्तक: धरमेशबराई वदति।Tuesday, July 4, 2017
आधारकेन्द्राणि सर्वकार कर्यालयेषु नेतव्यानि।
नवदेहली>आधारकेन्द्राणि सप्तम्बर एकदिनाड्कादारभ्य सर्वकार कर्यालयेषु प्रवर्तनीयानि। आधारपत्रस्य प्रदानं नवीकरणं च अधिकारिणां साक्षात् निरीक्षणे भवितुं उद्दिश्य अस्ति एतत् निर्णयम्। आराष्ट्रं पञ्चविंशति सहस्रं आधारकेन्द्राणि सन्ति। आगस्त ३१ पूर्वं प्रक्रियाः यमाप्तव्याः इत्युक्त्वा यूणिक् ऐडण्टिफिक्केषन् अतोरिटि आफ् इण्डिया द्वारा राज्यसर्वकारान् पत्रं प्रेषितम्।जिल्ला कलक्ट्रेट् , जिल्ला पञ्चायत् कार्यालयः , राष्ट्रिय-शासनसंस्थानां कार्यालयः , आर्थिकालयाः इत्यादि राज्यसर्वकारस्य अधीने यस्मिन् कस्मिन्नपि कार्यालये प्रारब्धुं शक्यते इति पत्रे वदति। आधारकेन्दराणि अवगन्तुं जनाः बहु क्लेशं अनुभवन्ति। अमितं शुल्कं स्वीक्रियतेति आवेदनमपि आगतम्। सर्वकारेतर संस्थाः नियन्त्रणं निबन्धनानां अलंघनाय साह्हाय्यं भवति। कार्यकरणं कृत्यतया निरीक्षतुं शक्यते। जनानां उपकाराय भवति । अधिकारिणः अवदन्।
सर्वकारकार्यालयानां परिधौ राज्यैः केन्द्राणि आरभ्भणीयानि। तत्र सर्वकारकर्मकरान् नियोक्तुं शक्यते। नो चेत् यु ऐ डी एफ् ऐ संस्थया सह मिलित्वा प्रवर्तितुं शक्यते। ब्लोक् तालूक् क्षेत्रेषु प्रारंभे केन्द्रत्रयस्य स्थापना करणीया। आवश्यकतां अनुसृत्य अनन्तरं अधिकानां स्थापना शक्यते। पान्पत्रस्य तथा विविधानां सर्वकारीय सेवानां कृते इदानीं आधारपत्रस्य अनिवार्यता वर्तते।
Subscribe to:
Comments (Atom)
