OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, November 25, 2025

 के एल् राहुलः नायकः।

मुम्बई> दक्षिणाफ्रिकया सह एकदिनक्रिकट् परम्परायां भारतदलस्य नायकरूपेण के एल् राहुलः नियुक्तः। इदानीन्तननायकः शुभ मान गिलः, उपनायकः श्रेयस् अय्यरश्च आहतौ सन्तौ बहिर्गतौ इत्यत एव राहुलस्य नियुक्तिः। मासस्यास्य ३० तमे दिनाङ्के राञ्चिमध्ये प्रथमस्पर्धा सम्पत्स्यति। १२ एकदिनस्पर्धासु इतःपूर्वं राहुलः भारतदलस्य नायकपदमूढवान्। अष्टसु विजयप्राप्तिरभवत् च।

Monday, November 24, 2025

 दर्शनपरिमितानां क्रिकट् विश्वचषकः भारतेन स्वायत्तीकृतः। 

कोलम्बो> दर्शनपरिमितानां महिलानां प्रथमः क्रिकेट् विश्वचषकः भारतेन स्वायत्तीकृतः। नेपालं सप्त द्वारकैः पराजयत। 

  अपराजितत्वेनैव भारतस्य किरीटप्राप्तिः। 'लीग्' नामके प्रथमचरणे श्रीलङ्का, आस्ट्रेलिया, नेपालं, यू एस्, पाकिस्थानदलानि भारतं पराजयत। पूर्वान्त्यचरणे आस्ट्रेलियां पराजयत।

 न्यायाधीशः सूर्यकान्तः भारतस्य मुख्यन्यायाधिपः अभवत्। 

न्याया. सूर्यकान्तः शपथवाचनं करोति। 

सप्त राष्ट्राणां मुख्यन्यायाधीशाः अतिथयः। 

नवदिल्ली> भारतसर्वोच्चन्यायालयस्य ५३ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः सूर्यकान्तः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। सेवानिवृत्तस्य  मुख्यन्यायाधिपस्य बि आर् गवायवर्यस्य  स्थाने अस्ति सूर्यकान्तस्य स्थानोपलब्धिः। 

  भूट्टानं,केनिया, मलेष्या, ब्रसील्, मौरीष्यस्, नेपालं, श्रीलङ्का इत्येतेषां राष्ट्राणां मुख्यन्यायाधिपाः कार्यक्रमे सन्निहिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथसिंहः इत्यादयः प्रमुखाः नेतारः भागमकुर्वन्।

Latest news

 मध्यप्रदेशे अनधिकृतम् आयुधनिर्माणम्। 

३६ जनाः निगृहीताः। 

मुम्बई>  मध्यप्रदेशस्थे बर्वानीजनपदे ग्रामे अन्तर्राज्य आयुधनिर्माणकेन्द्राणि मध्यप्रदेशारक्षकविभागस्य साह्येन पूनास्थेन आरक्षकसंघेन भग्नीकृतानि। ३६ जनाः निगृहीताः। महान् आयुधसञ्चयश्च गृहीतः।

  पूनास्थेषु आरक्षकस्थानेषु पञ्जीकृतानाम् अन्वेषणानां मध्ये आसीत्  मध्यप्रदेशस्थं भुषुण्डिनिर्माणकेन्द्रमधिकृत्य सूचना लब्धा। मध्यप्रदेशस्य आरक्षसेनया सह कृते मार्गणे विविधस्थानेषु ५० भुषुण्डिनिर्माणकेन्द्राणि भग्नीकृतानीति पूनाप्रान्तस्य आरक्षकविभागस्य कम्मीषणर् पदीयः रञ्जन् कुमारशर्मा अवोचत्।

 चण्डीगढस्य पूर्णनियन्त्रणं

केन्द्रप्रशासनं निवृत्तम्।

नवदिल्ली> विपक्षीयदलानां प्रतिषेधहेतुतया चण्डीगढनगरस्य पूर्णनियन्त्रणं केन्द्रप्रशासनस्य अधीने कर्तुमुद्दिश्य विधेयकात् सर्वकारः निवृत्तः। निर्दिष्टं विधेयकं संसदः शीतकालसम्मैलने आनेतुं नोद्दिश्यते इति गृहमन्त्रालयेन निगदितम्। 

  डिसम्बर् प्रथमदिनाङ्के आरप्स्यमाणे संसदीयसम्मेलने प्रस्तुतीकर्तुं लोकसभा-राज्यसभा सेक्रटेरियट् विभागेन बहिर्नीतेषु विधेयकेषु चण्डीगढं २४० तमे अनुच्छेदे अन्तर्भावयितुं विद्यमानं १३१तमं शासनसंविधानपरिवर्तविधेयकमपि आसीत्। 

  पञ्चाबस्य प्रशासनदलम् आम् आद्मी पार्टी, विपक्षदलं कोण्ग्रसः, अकालिदलम् इत्यादिभिः राजनैतिकदलैः महान् प्रतिषेधः आरब्धः। अतः केन्द्रप्रशासनं निवृत्तमभवत्। पञ्चाबस्य हरियानस्य च राजधानी नगरं चण्डीगढं केन्द्रप्रशासनस्याधीने कर्तुमासीत् उद्यमः। चण्डीगढः केन्द्रप्रशासनप्रदेशः भवत्यपि शासनसंविधाने नियमनिर्माणे च राज्ययोः नियन्त्रणे एव वर्तते।

Sunday, November 23, 2025

 केरले अतिवृष्टिः। 

अनन्तपुरी> दक्षिणमध्यकेरले बुधवासरपर्यन्तं महती वृष्टिरनुवर्तिष्यते। तिरुवनन्तपुरं, कोल्लं जनपदद्वये ओरञ्जजाग्रत्ता उद्घोषिता। 

  मलाका समुद्रान्तर्भागे अन्तमानसमुद्रस्य समीपे न्यूनमर्दः रूपीकृत इति पर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीय आरबसमुद्रे लक्षद्वीपसमीपे चक्रवातः च रूपीकृतः। अनयोः प्रभावेणैव केरले अतिवृष्टेः हेतुः। दक्षिणतः सप्तसु जनपदेषु बुधवासरपर्यन्तं वृष्टिसम्भावना वर्तते।

 जि-२० शिखरसम्मेलनं दक्षिणाफ्रिकायां समारब्धम्। 

मोदिना तिस्रः आयोजनाः निर्दिष्टाः। 

जि-२०सम्मेलनस्य वेदिका।

जोहनासबर्गः> अमेरिकायाः अपसरणम् अवगणय्य जि-२० राष्ट्राणां सम्मेलनं जोहनासबर्गस्थे 'सोवेटो नगरे' समारब्धम्।  भौगोलिकविकासाय मानदण्डनिर्णये गहनं पुनर्विचिन्तनमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी प्रस्तुतवान्। आगोलस्तरे उन्मादक-भीकरवादश्रृङ्खलाः प्रतिरोद्धुम् अभियोजना आरम्भणीया इति च मोदिवर्येण निर्दिष्टम्। तथा च स्वास्थ्यविषये शीघ्रप्रतिकरणाय 'Global Health care Response Team' , पर्यावरणसन्तुलितं सांस्कृतिकं च जीवनक्रमसंरक्षणाय 'Global Traditional knowledge Repository' इत्यादीनि आविष्करणीयानीति च तेन निर्दिष्टम्।

 धर्मभेदं विना मनुष्यत्वस्यमार्गे यामः - भारतं दुर्बलं कर्तुं येन केनापि न कदापि शक्यते - शाहरुख खानः 

समीपकाले दुरापन्नेषु भीकराक्रमणेषु पहल ग्राम आक्रमणेषु दिल्ली आक्रमणेषु च हतानां कृते आदरम् अर्पितवान् नटः शहरूख खानः। वीरमृत्युं प्राप्तवतेभ्यः सैनिकेभ्यः शिरोहस्तप्रणामं (salute) करोमीति तेन उक्तम्। शनिवासरे मुंबै मध्ये आयोजिते ग्लोबल् पीस् ओणेर्स् 2025 इति कार्यक्रमे भाषमाणः आसीत् सः।  

वयं मिलित्वा शान्तेः पदं अनुसरामः। जातिधर्म वैविध्यं विस्मृत्य पदविन्यासं किरिष्यामः इत्यपि महोदयेन उक्तम्। अस्माकं मध्ये शान्तिः सन्ति चेत् भारतं भाययतुं येन केनापि   न कदापि शक्यते ।

 दिल्ली स्फोटनं

जय्षेसम्बन्धीयः एकः गृहीतः। 

नवदिल्ली>  दिल्ल्यां रक्तदुर्गसमीपे सप्ताहात्पूर्वं आपन्ने स्फोटनप्रकरणे जय्षे मुहम्मद् इति भीकरसंघटनेन सम्बन्धी कश्चन अन्वेषणसंघेन गृहीतः। पुल्वामाप्रदेशे विद्युत्सम्बन्धकर्मकरः तुफैलनामक एव गृहीतः। गूढवृत्याम् अस्य भागभागित्वं प्रबलीक्रियमाणानि प्रमाणानि अन्वेषणसंघाय लब्धानीति सूच्यते। 

  तथा च राष्ट्रस्य विविधप्रदेशेषु स्फोटनं कर्तुं जेय्षे मुहम्मदेन सह सम्बन्धीयः फरीदाबादस्थःभीकरसंघः आसूत्रणमकरोदिति वृत्तान्तमस्ति। २०२३ तमादारभ्य एतदर्थं प्रवर्तनमारब्धमिति निगृहीतेन  डो मुहम्मिल् षक्कील् इत्यनेन उक्तमिति एन् ऐ ए अधिकारिभिः सूचितम्।

 के टी माधवः कटवल्लूर् वाचस्पतिपुरस्कारेण समादृतः।

कटवलूर् अन्योन्यपरिषदः २०२५ तमस्य संवत्सरस्य वाचस्पति पुरस्कारेण संस्कृतपण्डितः प्रोफ. के टी माधवः समादृतः॥

Saturday, November 22, 2025

 चतस्रः श्रमसंहिताः विज्ञापिताः। 

नवदिल्ली> राष्ट्रस्य श्रमनियमेषु सुप्रधानं परिष्कारं विधाय केन्द्रसर्वकारेण चतस्रः श्रमसंहिताः विज्ञापिताः। कर्ममण्डले नूतनपरिष्काराय हेतुः भविष्यति। 

  २०१९ तमवर्षस्य वेतनसंहिता [code of wages], २०२० तमवर्षस्य सामाजिक सुरक्षासंहिता [code on social security], श्रमसुरक्षा, स्वास्थ्य - कर्मावस्थासंहिता [code on occupational safety, health & working conditions], उद्योग बन्धसंहिता [industrial relations code] इत्येताः नूतनसंहिताः। वर्तमानानां २९ भिन्नभिन्नसंहितानां स्थाने अस्ति एकीकृतश्रमसंहिता। 

  नूतनश्रमसंहितां प्रस्तूयन् प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् श्रमिकानां शक्तीकरणाय समग्रं प्रगतिरूपं परिष्करणमेव क्रियावत्वं प्राप्तम्। आत्मनिर्भरभारताय परिष्करणमेवेतत् मोदिवर्यः उक्तवान्। परन्तु श्रमसंहिताः एकपक्षीयेन विज्ञापिताः इति प्रक्रमः अपलपनीयः इति विपक्षीयश्रमिकसंघटनैः उक्तम्।

 जि - २० शिखरसम्मेलनं - नरेन्द्रमोदी दक्षिणाफ्रिकां सम्प्राप्तवान्। 

जोहनासबर्गः> दक्षिणाफ्रिकायां संचाल्यमाने जि - २० राष्ट्राणां शिखरसम्मेलने भागं गृहीतुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे जोहनासबर्गं सम्प्राप्तवान्। परम्परागतरीत्या तस्मै स्वागतं लब्धम्। प्रथमतया एव दक्षिणाफ्रिकायां जि - २० शिखरसम्मेलनम् आयोजयति।

Friday, November 21, 2025

 तेजस् विमानं भग्नं, वैमानिकस्य वीरमृत्युः, अन्वेषणं समारब्धम्।

  दुबाय् मध्ये प्रचलिते न्योमाभ्यासप्रदर्शने विमानचालकः मृत्युं प्राप्तवान्। दुबाय् अल् मक्तुं विमाननिलयस्य समीपे आसीत् दुर्घटना ।

 गासायुद्धोपशमः तुलावस्थायाम्। 

इस्रयेलस्य आक्रमणे १२ होराभ्यन्तरे ३३ मरणानि। 

गासानगरं> ओक्टोबर् १० तमदिनाङ्कतः इस्रयेल-हमासयोः युद्धविरामः वर्तमाने गासाप्रान्ते पुनः इस्रयेलस्य घोरं व्योमाक्रमणम्। गुरुवासरस्य प्रत्युषसि विधत्ते आक्रमणे पञ्च जनाः मृताः इति गासायाः स्वास्थ्यमन्त्रालयेन निगदितम्। अनेन अत्र १२ होराभ्यन्तरे कृते आक्रमणे  ३३ जनाः मृत्युमुपगताः। 

  दक्षिणगासायां  खान् यूनिस् इत्यत्रस्थे अल् काबिरानगरे आसीत् गुरुवासरे आक्रमणं विधत्तम्। बुधवासरे गासानगरे भवनसमुच्चयं प्रति कृते अग्निशस्त्राक्रमणे १६ जनाः, खान् यूनिसे कृते आक्रमणे १२ जनाः च मृताः। 

  भीकरशिबिराणि लक्ष्यीकृत्य आसीदाक्रमणमिति इस्रयेलेन अभिमानितम्। इस्रयेलस्य आक्रमणे युद्धोपरमप्रक्रियायां मध्यवर्तिषु अन्यतमेन खतरराष्ट्रेण आशङ्का प्रकटिता।

 राष्ट्रपतेः सन्देहानां सर्वोच्चनीतिपीठस्य समाधानम्। 

राष्ट्रपतिं राज्यपालं च समयक्रमनिर्देशः न शक्यते। 


नवदिल्ली> विधानसभाभ्यः अनुमोदितानां विधायकानां विषये निर्णयं कर्तुं समयक्रमनिश्चयाय आदेष्टुं नीतिपीठः न शक्यते इति सर्वोच्चन्यायालयेन आदिष्टम्। राष्ट्रपतिः राज्यपालाश्च बहुकालं यावत् निर्णयं न कुर्वन्ति चेदपि विधेयकानि अनुमोदितानीति गणयितुं च न शक्यम्। विधेयकानाम् अनुज्ञाप्रकरणे पूर्वं सर्वोच्चन्यायालयस्य द्वयाङ्गनीतिपीठेन विज्ञापिते आदेशे राष्ट्रपतेः सन्देहानामुपरि मुख्यन्यायाधिपस्य बी आर् गवाय् वर्यस्य नेतृत्वे रूपीकृतं पञ्चाङ्गोपेतं नीतिपीठमेव स्पष्टं समाधानमकरोत्। 

  हेतुं न विशदीकृत्य राज्यपालाः दीर्घकालं यावत् प्रक्रमं न कुर्वन्ति तर्हि परिमितरीत्या व्यवहर्तुं सर्वोच्चन्यायालयेन शक्यमिति स्पष्टीकृतम्। नियन्त्रितरीत्या निर्देशान् दातुमपि शक्यते। किन्तु राज्यपालानां विवेचनाधिकारान् अधिकृत्य  निरीक्षणं न कार्यम्।

Thursday, November 20, 2025

 दिल्ली स्फोटनं - अल् फलाह्  विश्वविद्यालयीयाः दश जनाः  अप्रत्यक्षाः। 

नवदिल्ली> फरीदाबादस्थे अल् फलाह्  विश्वविद्यालये अध्ययनं कुर्वन्तः तत्र कर्म कुर्वन्तः वा दश जनाः गूढोद्देशेन निलीनाः  जाताः। दश जनानामपि चलदूरवाण्याः सम्पर्काशक्याः वर्तन्ते।एतेषां स्फोटनेन सह सम्बन्धः अस्तीति राष्ट्रियान्वेषणसंस्थया [एन् ऐ ए] निगम्यते। 

  आत्मघात्याक्रमणं धर्मस्य महत्त्वपूर्णकर्मेति वीडियोसन्देशं स्फोटनं कृतवतः उमर् नबी इत्यस्य दूरवाण्याम् अपश्यत्। तथा च एनं सन्देशं इतरेभ्यः ११ जनेभ्यः सम्प्रेषितवानिति निर्णीतमस्ति।

 युक्रैने रष्यायाः अग्निशस्त्राक्रमणम्।

२५ मरणानि। 

कीव्> टेर्णोपिल् नामके युक्रैनस्य पश्चिमभागस्थे नगरे कुजवासरे रात्रौ रष्यया कृते महति व्योमाक्रमणे २५ जनाः मृत्युमुपगताः। १६ बालकानभिव्याप्य ६६ जनाः आहताः। नवस्तरोपेतं भवनद्वयं च भग्नमभवत्। 

  रष्या-युक्रेनयुद्धे सार्धवर्षत्रये  अतीते अपि टेर्णोपिलनगरं आक्रमणात् विमुक्तमासीत्। पूर्वीययुक्रैनात् पलायितानां जनानाम् आलम्बनमासीत् इदं नगरम्। रष्यायाः इदमाक्रमणं यूक्रेनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किवर्येण अपलपितम्।

Wednesday, November 19, 2025

 षेक् हसीनावर्यां भारतं न प्रतिप्रेषयिष्यति।

षेक् हसीना

नवदिल्ली> बङ्गलादेशप्रशासनेन मृत्युदण्डाय विहितां बङ्गलादेशस्य  भूतपूर्वप्रधानमन्त्रिण्यां षेक् हसीनावर्यां भारतं तद्राष्ट्रं प्रति  न निवर्तयिष्यति इति सूच्यते। उभयपक्षव्यवस्थानुसारं राजनैतिकप्रकरणेषु अपराधिनां परस्परोपसंक्रमणं न करणीयमिति नयतन्त्रकोविदैः सूच्यते। 

  बङ्गलादेशात् स्थानभ्रष्टा षेक् हसीनावर्या कतिपयवर्षपर्यन्तं भारते अभयं लब्धवती अस्ति। मानवसमूहं विरुध्य हसीनायाः अपराधं प्रमाणीकृतमित्यारोप्य दिनद्वयात्पूर्वमेव तस्यै मृत्युद्ण्डं विहितम्।