OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, April 2, 2017
Saturday, April 1, 2017
महाराष्ट्रराज्ये तापमानं पञ्चचत्वारिंशतादुपरि आगतम्। घोरातपेन राज्यं तपति।
कोचि >राष्ट्रे बहुत्र घोरातपेन जनाः विध्यन्ते। एवम् उष्णवायुना अपि जनाः आतपेन भृष्टीक्रियते। महाराष्ट्र-गुजरात-राजस्थान-उत्तरप्रदेश-उत्तराखण्डं-दिल्ली-पञ्जाब-आन्ध्राप्रदेशादि राजेषु उष्णता असह्या सञ्जाता। महाराष्ट्र-राज्ये उष्णवायुना पञ्चजनाः मृताः। केरले विविध क्षेत्रेषु अत्युष्णता प्रतीयते। पालक्काड् देशे उष्णः अष्टचत्वारिंशदागतम्। राज्यस्थान् राज्यस्य बाडमेर: हरियाणायाः नरनौल: पञ्जाबस्य लुधियाना उत्तरप्रदेशस्य च वाराणसी, अलहबाद, आगरा चेत्यादिक्षेत्रेषु अत्युष्णता प्रतीयते। आस्थाननगर्यां दिल्याम् अस्य संवत्सरस्य अत्युष्णः अभवत्। तमिलनाडु-राज्ये अत्युष्णेन त्रिशतं (३००) कृषकाः मृताः।
दक्षतानिदेशकः स्थानभ्रष्टः।
अनन्तपुरी > केरले आरक्षकसेनायाः दक्षतासंस्थायाः निदेशकः डो. जेक्कब् तोमसः स्थानभ्रष्टः अभवत्। समीपकाले अनुवर्तमानाः उच्चन्यायालयस्य प्रतिकूलपरामर्शाः तं त्यागपत्रसमर्पणाय अनयन्। डि जि पि लोकनाथ बह्रा तत्थानं वक्ष्यति। कतिपयमासेभ्यः पूर्वमेव उपरिष्ठानां शासनाधिकारिणां मध्ये जेक्कब् तोमसः अप्रियः आसीत्। ऐ ए एस्-ऐ पि एस् राजपुरूषाः तं विरुध्य सर्वकारं प्रति तथा मुख्यमन्त्रिणं पिणरायि विजयं प्रति च निवेदनानि समर्पितवन्तः। दक्षतानिदेशकस्थानम् उपयुज्य तान् विरुध्य व्याजव्यवहाराः क्रियन्ते इति आरोपितवन्तश्च। किन्तु मुख्यमन्त्रिणः अनुग्रहेण सः स्वस्थानं संरक्षितवान्। किन्तु वारं वारम् अनुवर्तिताः न्यायालयस्य प्रतिकूलपरामर्शैः जेक्कब् तोमसः स्थानत्यागाय प्रेरितः।
मृत्तैलानां मूल्येषु न्यूनता।
नवदिल्ली >मृत्तैलानां वर्धितानि मूल्यानि न्यूनीकर्तुं तैलशुद्धीकरणशालाभिः निश्चितम्। पट्रोल् तैलस्य त्रीणि रुप्यकाणि सप्तसप्तति पैसाः (३.७७) डीजल् तैलस्य द्वे रुप्यके एकनवति पैसाः (२.९१) रूप्यकाणि न्यूनीकृतानि। बहुकालानन्तरमेव एतादृशं न्यूनीकरणम्। राष्ट्रान्तर विपण्याम् असंस्कृत-मृत्तैलस्य मूल्ये जाता न्यूनता डोलर् पत्रं विरुध्य रुप्यकपत्रस्य मूल्यवर्धनं च अत्रत्यस्य मूल्यन्यूनीकरणस्य कारणम्। वारद्वयारनन्तरं मूल्यालोकनं भवतु इति पूर्व निश्चयानुसारमेव इयं प्रक्रिया। तथापि गाते जनवरिमासानन्तरं मृतैलानां मूल्येषु विशेषाः नासन्।Friday, March 31, 2017
वाट्सप् गणैः द्वारा भारतविरुद्ध कार्यक्रमेण पाकिस्थानः।
श्रीनगरम्>जम्मु काश्मीरस्थान् युवकान् आक्रमणाय प्रेरयितुं तथा सेनां विरुध्य प्रवर्तितुं पाकिस्थानः वाट्सप् सहित सामाजमाध्यमाध्यमानाम् उपयोगं करोति। काश्मीरस्य बुल्गां जिल्लायां सैन्येन कृतं आक्रमणं प्रतिषिद्ध्यसुरक्षाकर्यकर्तॄन् प्रति युवकाः पाषाण क्षेपणं अकुर्वन्। यत्र आक्रमणादिकं भवति कदा इत्यादि सर्वमपि वृत्तान्तं सामाजिकमाध्यम द्वारा युवकान् विज्ञापयति। एवं विविध क्षेत्रवासिनः युवकान् परस्परं ज्ञातुमपि भीकराः सामाजमाध्यमान् उपयुनक्ति।
Thursday, March 30, 2017
सुवर्णविक्रयकाणामुपरि दृढनियन्त्रणम् आयाति।
नवदिल्ली>सुवर्णविक्रयणे नियन्त्रणम्। एप्रिल् एकदिनाड्कादारभ्य सुवर्ण विक्रयणे दशसहस्र रुप्यकाणि एव रुप्यकपत्ररूपेण यच्छति। पूर्वं तत् विंशति सहस्रमासीत् । तत्सम्बन्धी नीतिः आगामिनि मासे प्रबली भवति। दशसहस्रधिकं धनं व्यक्तेः आर्थालये एव प्राप्स्यते। एवं न करोति चेत् तदनधिकृतमिति निकुति विभागः परामृशति। केन्द्रसर्वकारस्य एतत् निर्णयं मुख्यतया ग्रामीणक्षेत्रमेव बाधते। प्रायशः बहुत्र ग्रामेषु तादृशसौविध्यानि न सन्तीति तस्य हेतुः।
सीमासुरक्षायै स्त्रीशक्तिः च। सीमासुरक्षासेनायां प्रथमवनिताकार्यकर्त्री तनुश्री।
ग्वालियार् > सीमासुरक्षासेनायां एकपञ्चाशत् वर्षाणाम् इतिहासे प्रथमवनिताकार्यकर्त्री रूपेण पञ्चविंशति आयुयुक्ता तनुश्री परीख् नियुक्ता।तनुश्री परीख् राजस्थान राज्यस्य बिक्कानीर स्वदेशी अस्ति।२०१३ आरभ्य सेनायां स्त्रीणः सन्ति चेदपि उन्नतपदव्यां प्रथमतया एव स्रीणां प्रवेशः।
असिस्टण्ट् कमाण्डर पदे नियुक्ता तनुश्री परीख् पञ्जाबराज्ये पाक् सीमायां सेनागणम् नेष्यति।
Wednesday, March 29, 2017
स्त्रीणां रात्रौ उद्योगे निवेश: मास्तु इति ऐ टी स्थापनानि प्रति कर्णाटकसर्वकारा:।।
बङ्गलूरु >रात्रिकालान्तरेषु स्त्रिय:उद्योगस्था: उद्योगकार्येषु न योजयेयुरिति ऐ टी बयोटेक् स्थापनानि प्रति कर्णाटकनियमसभासमित्या:निर्देश:। स्त्रीणां सुरक्षां स्वकार्यतां च संरक्षितुमेव अयं निर्देश: इति नियमसभासमित्या सूचितम् । ऐ टी बी टी स्थापनानि स्त्रिय:रात्रौ उद्योगेषु योजयन्ति इत्यत्र सहमति:नास्ति तथा च ता:यावच्छीघ्रं दैनिक मध्यन्दिनकालान्तरेषु योजयेयुरिति च सभासमित्या: निर्देश: । नियमसभायां वनिताशिशुक्षेमसमित्या समर्पिते आवेदनपत्रे एव निर्देशोयं वर्तते । एन् ए हारिसस्य नेतृत्वे वर्तमानसमित्या निर्देशोयं पुरस्कृत: सभायाम् । एतादृशसंस्थासु रात्रिकालान्तरे पुरुषोद्योगस्था: नियोजनीया:इत्यपि समित्या निर्दिश्यते । इनफोसिस् बयोकोण् संस्थासु सेवनरतैस्सह २०१६ सेप्टम्बर्मासे समित्या चर्चा कृता । तदाधारीकृत्यैव आवेदनपत्रं सज्जीकृतमपि । किन्तु गतवर्षे सर्वकारै:स्वीकृतचरित्रपरं निर्णयम् उल्लङ्घ्यते अयमावेदनम् । रात्रिकालोद्योगस्थानां स्त्रीणामुपरि विद्यमाननियन्त्रणं व्याक्षिप्तमासीत् गतवर्षे सर्वकारै: उद्योगमण्डलेषु स्त्रीपुरुषसमत्वं प्रदीयादिति उद्देश्येन एव तथा एकं पदं सर्वकारै: विन्यस्तमपि ।
मातुः सम्पत् असाधुरुप्यकपत्राणां विनिमयाय प्रधानमन्त्रिणे पुत्राणाम् आवेदनम्।
जयपुरम्>बन्धितात् गृहात् प्राप्तानि ९६,५०० रुप्यकस्य असाधुरुप्यकपत्राणां विनिमयाय साहाय्यम् अभ्यर्थ्य अनाथबालकानाम् आवेदनं प्रधानमन्त्रिणे प्रदत्तम्। कोट्टा जिल्लायां सरावाडा ग्रामे मृतायाः मातुः उपधानात् रुप्यकाणि प्राप्तानि।मातापित्रोः मरणानन्तरं बान्धवैः तिरस्कृतान् बालान् कोट्टायां सर्वकारस्य अनाथकेन्द्रे ग्रामीणाः अनयन्। अस्मिन् मासस्य सप्तमे दिने जेष्ठे बालके गृहस्य उद्घाटनं कृते सति रुप्यकाणि प्राप्तानि। पूर्णतया सहस्र पञ्चशतानां पत्राणि आसन्।
विनिमयाय रिसर्ववित्तकोशाय आवेदनं दत्तं चेदपि किमपि फलं नासीत् अत एव प्रधानमन्त्रिणः साहाय्याय पत्रं प्रेषितम्।
Tuesday, March 28, 2017
मलप्पुरम् उपनिर्वाचनव्यग्रतायाम् , स्थानाशिनः नव।
मलप्पुरम् > केरले मलप्पुरं लोकसभानियोजकक्षेत्रे उपनिर्वाचनव्यग्रता आरब्धा। ई. अहम्मदवर्यस्य निर्याणेन प्रख्यापिते उपनिर्वाचने नामनिर्देशपत्रिकाणां सूक्ष्मपरिशोधनायां समाप्तायां नवानां स्थानाशिनां पत्रिकाः अङ्गीकृताः।तत्र त्रयः प्रमुखाः वर्तन्ते। यू डि एफ् दलीयः मुस्लींलीग् दलप्रतिनिधिः पी के कुञ्ञालिक्कुट्टिः , एल् डि एफ् सख्यस्य सि पि एम् प्रतिनिधिः एम् बि फैसलः , एन् डि ए सख्यप्रतिनिधिः भाजपादलीयः एन् श्रीप्रकाशश्च परस्परं स्पर्धिष्यमाणाः प्रमुखाः।
एप्रिल् मासस्य द्वादशे दिनाङ्के एव निर्वाचनं भविष्यति।
सन्तोष् ट्रोफी वंगेन प्राप्तम्।
पनजी> एकसप्ततितमः सन्तोष् ट्रोफी नामकः पादकन्दुकक्रीडाविजयस्तम्भः वंगराज्येन प्राप्तः। प्रतियोगिनं गोवादलं प्रत्युत्तररहितेन एकेनैव कन्दुकलक्ष्येन पराजित्य विजयस्तम्भे वंगदलस्य द्वात्रिंशत्तमं चुम्बनार्पणम्! निश्चिते समये दलद्वयेनापि विना लक्ष्यकन्दुकं समस्थितौ जाते स्पर्धा अधिकसमयं समुपगता। मत्सरसमापनाय एकनिमिषे अवशिष्टे मन्वीरसिंहस्य लक्ष्यकन्दुकेन वंगराज्यं विजयतीरं संप्राप।Kanakadharayajnam
A chosen group of 32 Archakas representing 32 years of life of Sankara will be reciting the Kanaka Dhara Sthothram with due 'vruthasudhi' and 'thantric nistha'. Devotees could get the Kanaka Dhara Sthothram recited in their name and nakshatra before merciful Thrikaladyappan - Kula Deva of Adi Sankara. The Thanthri for the Yajnam would be Brahmasree Avanaparambu Pradeep Namboothiripad.
A talisman of Kanaka Dhara Yanthra or Elass will be delivered as prasadam marking your fortunate participation. Those who already participated in the Yajnam of 2005 were offered a Punarpooja of their Yanthra after two years and can get it done during this time. The Yanthra is made as per the Yanthra Vidhi instructions of Kanipayyoor Namboothiripad and as per Kerala thantric rituals. Keeping of the Yanthra in the pooja room / place of business with dhooma (agarbathi) and neyvilakku (ghee lamp) on Fridays are considered best for the enhancing of powers of the Yanthra.
This year Kanaka Dhara Yajnam is being concluded on the Akshaya Tridiya Day, the best time of the year to get blessed Gold. The Crystal charged with Kanaka Dhara Sthothram chants covered with Gold is called the Golden Amalka and is available for those blessed devotees. One could wear this as a locket in their chain or can keep in the pooja room.
Your presence and darshan of the unique holy event, hearing of the hymns and darshan of merciful Thrikaladyappan, Sri Krishna is the greatest of fortune and punyam. All are invited to have blessings of fortune of this Kanakadhara.
Monday, March 27, 2017
संस्कृताध्ययनेन वार्धाक्यं विस्मृत्य अनन्तपुरी।
अनन्तपुरी > केरळेषु अनन्तपुर्यां प्रचालिते संस्कृतभारत्याः जनपदस्तरीयवार्षिकमेलने प्रमाणपत्र वितरण सन्दर्भः आसीत् अयं मोदस्य निमेषः। संस्कृतभारत्याः पत्रालयशिक्षणे वृद्धजनाः बहवः सामोदं परीक्षां लिखितवन्तः। उत्तीर्णनां कृते केरलभाषा इन्स्टिट्यूट् संस्थायाः उप-निदेशकेन डॉ के एन् जयकृणन् महोदयेन प्रमाणपत्राणि वितीर्णानि। गृहिण्यः, कर्मकराः उद्योगिनः निवृत्ताः यून वृद्धभेदंविना बहवः जनाः इदानीं पत्रालयशिक्षणद्वारा संस्कृत-भाषाध्ययनं सम्पादयन्ति। कामपि भेदभावनां विना सर्वेषां संस्कृतपठनं सुसाध्यं इति एतत् प्रमाणीक्रियन्ते इति आमुखभाषाणे डॉ ई एन् ईश्वरन् अवदत्। संस्कृतभारत्याः शिक्षण प्रमुखः तथा सम्प्रतिवार्ता पत्रिकायाः सम्पादक-समित्यङ्गं च भवति एषः। Sunday, March 26, 2017
सुरक्षा भीषां प्रतिरोद्धुं भारत-अमेरिका सौहृदं दृढं जायते।
वाषिड्टण् > सुरक्षा क्षेत्रे भारत-अमेरिका सौहृदं दृढं जायते।भीकरकार्याणि तथा समुद्रेण आगताः भीषाः च प्रतिरोद्धुं द्वयोः राष्ट्रयोः मध्ये धारणा सञ्जाता। भारतस्य राष्ट्रीयसुरक्षा उपदेष्टा अजित् डोवेल् अमेरिकायाः उन्नतप्रतिरोध कार्यकर्तृभिः जातायां चर्चायाम् अस्ति निर्णयम्। चर्चां इयम् अतीव फलप्रदमासीदिति भारतस्य प्रतिनिधः अवदत्। राष्ट्रपतेः डोणाल्ट् ट्रंपस्य शासनकाले द्वतीयवारमस्ति डोवलस्य अमेरिका सन्दर्शनम्।भारतस्य आर्थिकपरिष्काराः तथा पद्धत्यः चर्चायाम् आगताः इति सूचना अस्ति। भारतस्य विकासशीलौ आर्थिकस्थितौ अमेरिकायाः रुचिः चर्चायाम् अस्यां व्यक्तीकृतम्।
छात्र आरक्षकशिक्षार्थीयोजना अधिकं विद्यालयेषु आयोक्ष्यते - केरलस्य मुख्यमन्त्री ।
अनन्तपुरी> केरलेषु विद्यालयेषु आयोजिता छात्रारक्षकशिक्षार्थीयोजना [Students Police Cadet project]आगामिनि संवत्सरे अधिकं विद्यालयेषु व्यापयिष्यते इति मुख्यमनत्रिणा पिणरायि विजयेन प्रोक्तम्। छात्रारक्षकाणां राज्यस्तरीयशिबिरस्य समापनसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् मुख्यमन्त्री।
अस्याः योजनायाः गुणफलानि यावच्छक्यं छात्रेषु प्रापयितुमेव लक्ष्यः। इदानीं ५७४ विद्यालयैः ५०,००० आरक्षकावरजाः अनया योजनया परिशीलनं प्राप्तवन्तः सन्ति। देशाय स्वास्थ्यसम्पूर्णा प्रवर्तनक्षमा च परम्परा आवश्यकी, तदेव एतादृशी योजना लक्ष्यीकरोति।
एस् एस् एल् सि -गणित परीक्षा निरस्ता , पुनः ३०तमे दिनाङ्के।
अनन्तपुरी > गते विंशद्दिनाङ्के संवृत्ता केरलस्य दशमकक्ष्यायाः गणितमूल्यनिर्णयः सर्वकारेण निरस्ता। न केवलं प्रश्नपत्रिकायाः प्रामाण्यराहित्यं किन्तु प्रश्नपत्रिकानिर्माणे संवृत्तः व्यतिक्रमश्च परीक्षानिरासस्य हेतुः भवति।प्रश्नपत्रिकानिर्माणाय उत्तरदायित्वं विहितः अध्यापकः स्वसुहृदः अध्यापकात् प्रश्नान् स्वीकृतवान्। स सुहृदपि मलबार् एज्यूक्केषन् एजन्सि इति संस्थया प्रसिद्धीकृतस्य मार्गदर्शकग्रन्थस्य कृते अपि एतान् प्रश्नान् दत्तवानासीत्। किञ्च एते प्रश्नाः कस्यांचित् वार्तापत्रिकायामपि दृष्टाः। अतः प्रश्नपरिस्रवणमभवदिति कारणेन कारिता परीक्षा निरस्ता।
सन्तोष् ट्रोफी - वंग-गोवा अन्तिमस्पर्धा अद्य।
पनजी >एकसप्ततितमायाः सन्तोष् ट्रोफि पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धायाम् अद्य वंगराज्यं गोवाराज्येन सह स्पर्धिष्यते। पनजिसमीपे जि एम् जि बोम्बालिन् क्रीडाङ्कणे सायं षड्वादने स्पर्धा भविष्यति।वंगः इतःपर्यन्तम् एकत्रिंशद्वारं विजेता अभवत्। द्वादशसु अन्तिमस्पर्धासु पराजितश्च। पञ्चवारं प्राप्तकिरीटं गोवादलं सप्तवारं द्वितीयस्थानम् अलङ्कृतवत्।
Saturday, March 25, 2017
सर्वकारकार्यकर्तॄणां समाजमाध्यमेषु हस्ताक्षेपे तीव्रं नियन्त्रणम्।
तिरुवनन्तपुरम्>समाजमाध्यमेषु हस्ताक्षेपे सर्वकारकार्यकरतॄणां नियन्त्रणम्। सर्वकार नीतिषु अनुमतिं विना अभिप्रायप्रकटनं न कुर्यात्। निर्देशस्सास्य लंघने वर्य कार्यकर्तारः दण्डनादिकं स्वीकुर्युः। नो चेत् तत् गुरुतरः प्रमादः भवेदिति शासनपरिष्करणविभागेन विज्ञापितम्।यु डी एफ् सर्वकारस्य शासनकाले अपि समाजमाध्यमेषु मतिप्रकटनाय रोधनं कृतमासीत्। साहित्यकृतयः अपि न कुर्यादिति निर्देशे बहु विमर्शाः आगताः आसन्।
लघुजीवन-व्ययेन भारते चत्वारि नगराणि।
![]() |
| नवदिल्यां सुप्रभातम्। |
Friday, March 24, 2017
ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।
प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्।
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
अव्यक्तादीनि भूतानि
व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव
तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।
क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या परमोन्नतनीतिपीठस्य पुरत:केस् समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् । Thursday, March 23, 2017
सि बि एस् सि परीक्षासंविधानेषु एकीकृता व्यवस्था भविष्यति।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम् इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation) अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम् इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation) अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।
Wednesday, March 22, 2017
शास्त्रगणित-स्पर्धायां भारतवंशजा सम्मानिता ।
वाषिङ्टण्> अमेरिक्कायां सम्पन्नायां शास्त्रगणित स्पर्धायां भारतवंशजा बालिका सार्द्ध द्विलक्षं डोलर्धनेन [पञ्चषष्टिलक्षाधिकैककोटि रूप्यकैः ] पुरस्कृता। मस्तिष्काघातेन रोगबाधया वा न्यूरोण् इत्यस्य संभूतं मरणं निवारयितुं कृताय गवेषणाय एव न्यूजेष़्सीस्था इन्द्राणी दास्[१७ ] उन्नतपुरस्कारं प्राप्तवती । शास्त्रप्रतिभाणां चयनाय आयोजितेषु वार्षिकशास्त्रकौशलान्वेषणपरस्कारेषु आदिमेषु दशपुरस्कारेषु चतुरः पुरस्कारान् भारतीयवंशजा : छात्रा: एव स्वायत्तीकृतवन्त: I सङ्गणकयन्त्रप्रक्रमसम्बन्धिनः गणितग्राफ्सिद्धान्तस्य विकासाय एव इन्त्यानादेशस्थ: अर्जुन् रमणिः [१८] तृतीयस्थानेन सार्धलक्षडोलरमितेन पुरस्कारधनेन पुरस्कृतः । न्यूयोर्क् देशस्था अर्चना वर्मा [१७ ] सौरोर्जगवेषणविषये पञ्चमस्थानेन नवतिसहस्रं डोलर्मितेन धनेन पुरस्कृता। प्रतीक् नायिडुः [१७ ] अर्बुदं पारम्पर्यगुणघटकं च अधिकृत्य पठनसहायिने तंत्राम्शाय सप्तमस्थानेन सप्ततिसहस्रं डोलर्मितेन धनेन पुरस्कृतः । मलेरिया चिकित्सामधिकृत्य कृतपठना वृन्दा मदन् [१७ ] नवमस्थानेन पञ्चाशत् सहस्रं डोलर्मितेन धनेन पुरस्कृता। अमेरिक्कायां सप्तशताधिकसहस्रं वरिष्ठविद्यालयीयछात्रा: एव अस्यां स्पर्धायां भागभाञ्जः आसन् ।
असाधूनां सहस्र पञ्चशत रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं केन्द्रसर्वकारः अनुमतिः न अदात्। रुप्यकपत्राणां विनिमयाय मार्च् ३१ दिनाड्कपर्यन्तम् अवकाशः अस्तीति प्रधानसचिवेन पूर्वम् उक्तमासीत्।प्रधानसचिवेन उद्घोषिते प्रस्तावे ईदृशं व्यतिचलनं न समीचीनमिति न्यायालयः अवदत्।
मुख्यन्यायाधिपः जे एस् खेहार निवेदनोपरि निर्देशः अयच्छत्।
मेघालये अध्ययनविघ्निताः एकलक्षं बालकाः
षिल्लोङ् - मेघालयराज्ये अध्ययनविघ्निताः विद्यालयाप्रविष्टाश्च एकलक्षं बालकाः सन्तीति राज्य शिक्षामन्त्री डबोरा सि मनाक् उक्तवान्। गते संवत्सरचतुष्टये राज्यस्य एकादशेषु जनपदेषु बालकाः बालिकाश्च सहिताः ९७,०८९ छात्राः स्तम्भिताध्येताः वर्तन्ते। गार्हिकसम्पद्समस्याः सर्वकारविद्यालयेषु भौतिकसुविधाभावश्च अस्य कारणमिति सूच्यते।
वार्तामुक्तकानि।
राञ्ची - भारत-आस्त्रेलिययोः तृतीया निकषस्पर्धा समस्थितिं प्राप्ता। भारताय युगतशतकप्राप्तः चेतेश्वरपूजारा वरिष्ठक्रीडकः अभवत्।
गोवा - सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः गुरुवासरे प्रवर्तमाने द्वितीये उपान्त्यचक्रे केरलं गोवया सह स्पर्धिष्यते।
चेन्नै - तमिल्नाट् राज्ये कटलूर् प्रदेशे पुरुषरन्ध्रशुचीकरणाय. उद्युक्ताः त्रयः मलिनकुल्याशुचीकरणकर्मकराः मृताः। पञ्चदशपादपरिमिते गर्ते अवतीर्णाः एते त्रयः विषवायुश्वसनेन एव यमपुरिं प्राप्ताः ।
वाषिङ्टण्> अमेरिक्कायां सम्पन्नायां शास्त्रगणित स्पर्धायां भारतवंशजा बालिका सार्द्ध द्विलक्षं डोलर्धनेन [पञ्चषष्टिलक्षाधिकैककोटि रूप्यकैः ] पुरस्कृता। मस्तिष्काघातेन रोगबाधया वा न्यूरोण् इत्यस्य संभूतं मरणं निवारयितुं कृताय गवेषणाय एव न्यूजेष़्सीस्था इन्द्राणी दास्[१७ ] उन्नतपुरस्कारं प्राप्तवती । शास्त्रप्रतिभाणां चयनाय आयोजितेषु वार्षिकशास्त्रकौशलान्वेषणपरस्कारेषु आदिमेषु दशपुरस्कारेषु चतुरः पुरस्कारान् भारतीयवंशजा : छात्रा: एव स्वायत्तीकृतवन्त: I सङ्गणकयन्त्रप्रक्रमसम्बन्धिनः गणितग्राफ्सिद्धान्तस्य विकासाय एव इन्त्यानादेशस्थ: अर्जुन् रमणिः [१८] तृतीयस्थानेन सार्धलक्षडोलरमितेन पुरस्कारधनेन पुरस्कृतः । न्यूयोर्क् देशस्था अर्चना वर्मा [१७ ] सौरोर्जगवेषणविषये पञ्चमस्थानेन नवतिसहस्रं डोलर्मितेन धनेन पुरस्कृता। प्रतीक् नायिडुः [१७ ] अर्बुदं पारम्पर्यगुणघटकं च अधिकृत्य पठनसहायिने तंत्राम्शाय सप्तमस्थानेन सप्ततिसहस्रं डोलर्मितेन धनेन पुरस्कृतः । मलेरिया चिकित्सामधिकृत्य कृतपठना वृन्दा मदन् [१७ ] नवमस्थानेन पञ्चाशत् सहस्रं डोलर्मितेन धनेन पुरस्कृता। अमेरिक्कायां सप्तशताधिकसहस्रं वरिष्ठविद्यालयीयछात्रा: एव अस्यां स्पर्धायां भागभाञ्जः आसन् ।
निर्माणे स्थितः सेतुः पतितश्च। हन्त! कर्मकराः रक्षां प्राप्तवन्तः I
रणाकुलं जिल्लायां मुलवुकाट् प्रदेशे निर्माणे स्थितः सेतुः भग्न : अधः पतितश्च। पिष़ल - मूलंपिल्लिसम्बन्धिसेतुरयं । सायं पञ्चवादने एव निर्माणे स्थितस्य सेतोः एकः स्तंभ : अधः पतितः । सेतुनिर्मातृषु कर्मकरेषु चायपानार्थं गतेषु एव इयं दुर्घटना सम्पन्ना इत्यतः महती विपत्तिः न जाता। अस्मिन् समये सेतुस्थः वैद्युतिक: नद्यां कूर्दित्वा स्वयं रक्षति स्म। एतस्याः दुर्घटनायाः कारणं अव्यक्तमेव। निर्माणसभायाः आश्रयत्वेन षडशीतिकोटि रूप्यकाणां निर्णयेन च समाप्तप्रायः सेतु: एव पतितः आसीत् । कटमक्कटि द्वीपवासिनां चिरकालस्वप्नः आसीत् एषः सेतुः।
रुप्यकपत्राणां विनिमयम्- सर्वकाराय रिसर्ववित्तकोशाय च उच्चतरन्यायालयस्यस्य पत्रिका।
नवदेहली- असाधूनां रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं अनुमतिनिषेधाय केन्द्रसर्वकारः तथा रिसर्ववित्तकोशश्च विशदीकरणं दातव्यमिति उच्चतरन्यायालयः।असाधूनां सहस्र पञ्चशत रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं केन्द्रसर्वकारः अनुमतिः न अदात्। रुप्यकपत्राणां विनिमयाय मार्च् ३१ दिनाड्कपर्यन्तम् अवकाशः अस्तीति प्रधानसचिवेन पूर्वम् उक्तमासीत्।प्रधानसचिवेन उद्घोषिते प्रस्तावे ईदृशं व्यतिचलनं न समीचीनमिति न्यायालयः अवदत्।
मुख्यन्यायाधिपः जे एस् खेहार निवेदनोपरि निर्देशः अयच्छत्।
मेघालये अध्ययनविघ्निताः एकलक्षं बालकाः
षिल्लोङ् - मेघालयराज्ये अध्ययनविघ्निताः विद्यालयाप्रविष्टाश्च एकलक्षं बालकाः सन्तीति राज्य शिक्षामन्त्री डबोरा सि मनाक् उक्तवान्। गते संवत्सरचतुष्टये राज्यस्य एकादशेषु जनपदेषु बालकाः बालिकाश्च सहिताः ९७,०८९ छात्राः स्तम्भिताध्येताः वर्तन्ते। गार्हिकसम्पद्समस्याः सर्वकारविद्यालयेषु भौतिकसुविधाभावश्च अस्य कारणमिति सूच्यते।
वार्तामुक्तकानि।
राञ्ची - भारत-आस्त्रेलिययोः तृतीया निकषस्पर्धा समस्थितिं प्राप्ता। भारताय युगतशतकप्राप्तः चेतेश्वरपूजारा वरिष्ठक्रीडकः अभवत्।
गोवा - सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः गुरुवासरे प्रवर्तमाने द्वितीये उपान्त्यचक्रे केरलं गोवया सह स्पर्धिष्यते।
चेन्नै - तमिल्नाट् राज्ये कटलूर् प्रदेशे पुरुषरन्ध्रशुचीकरणाय. उद्युक्ताः त्रयः मलिनकुल्याशुचीकरणकर्मकराः मृताः। पञ्चदशपादपरिमिते गर्ते अवतीर्णाः एते त्रयः विषवायुश्वसनेन एव यमपुरिं प्राप्ताः ।
Tuesday, March 21, 2017
कणिका परीक्षणशालायै अनुज्ञा निरस्ता।
चेनै >केरलसीमासमीपे तमिल् नाट् राज्ये तेनिप्रदेशे सिद्धतां प्राप्यमाणायाः कणिकापरीक्षणशालायाः कृते केन्द्रपरिस्थितिमन्त्रालयेन दत्ता प्रवर्तनानुमतिः राष्ट्रिय हरितन्यायासनस्य चेन्नैपीठेन निरस्ता।
परीक्षणाय पारिस्थितिकान्वीक्षणं कृतवतः नियोजितसंस्थायाः आवेदनानि न्यायासनेन नाङ्गीकृतानि। अङ्गीकारयुक्तया नूतनसंस्थया अन्वीक्षणं कारयितव्यमिति न्याया. पि ज्योतिमणि वर्यस्य अध्यक्षत्वेन नीतिपीठेन निर्दिष्टम्।
भारतीयमहिलाबैङ्कस्य विलयः
महिलाभ्यः सरलसुलभबैंक सौविध्यमुद्दिश्य प्रशासनेन भारतीयमहिलाबैंकस्य स्टेटबैंकआफइंडिया इत्यस्मिन् समावेशः अनुमतः । अनुमीयते यदनेन महिलाभ्यः बैंकसौविध्य प्रदानाय साहाय्यं भविष्यति।
मणिपुरे भाजपादलेन बहुमतं प्रामाणीकृतम्
मणिपुरविधानसभायां मुख्यमंत्रिणा बिरेनसिंहेन बहुमतं प्रामाणीकृतम् । भाजपासंयुत्या कांग्रेसदलस्येकं विधायकं समेत्य द्वात्रिंशत् विधायकानां समर्थनमधिगतम् । प्रधानमन्त्रिणः आर्थिकगतिरोधस्य समापनोद्देश्यं पूर्णतां गतम् । अपि च राज्यस्य विकासपथि नूतन पदक्षेपः समुत्थापितः |
उत्तरप्रदेशे सम्पत्तेः विवरणप्रकरणे योगिनः वक्तव्यम्
उत्तरप्रदेशस्य नूतनमुख्यमंत्रिणः योगी-आदित्यनाथस्य निर्देशानुसारेण मंत्रिभिः सह अधिकारिभिः अपि संपत्तेः विवरणं प्रदातव्यमस्ति । अधिकारिभिः सह संजातोपवेशने मुख्यमन्त्रिणा विधिव्यवस्थायाः सुदृढीकरणं प्राशासनिकनियुक्तिषु पारदर्शिता आरक्षि-प्रशासने राजनीतिकव्यवधानस्य समापनं शीर्ष-प्राथमिकतारूपेण प्रतिपादितम् |
उत्तराखण्डस्य मुख्यमन्त्रिणः प्राथमिकताः
उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्ररावतेन भणितं यत् पर्वतेभ्यः पलायनमवरोधयितुं पिहितोद्योगानाम् प्रारम्भः विधातव्यः| कुमाऊँगढ़वालयोर्मिथः सुदृढसम्पर्कस्यावश्यकता विद्यते तदर्थं च पूर्वस्थापितायां विधिव्यवस्थायाम् परिवर्तनमपि करणीयम् ।
महाराष्ट्रे चिकित्सकानां सामूहिकावकाशः
मुंबईं समेत्य महाराष्ट्रस्य विविधक्षेत्रेषु सोमवारे प्राशासनिकचिकित्सालयानां चिकित्सकैः स्वीय सहकर्मिणामुपरि दुराचारं विरुद्ध्य सामूहिकावकाशः कृतः, येन राज्ये रोगिणां समस्यायाः संवर्धिताः |
चेनै >केरलसीमासमीपे तमिल् नाट् राज्ये तेनिप्रदेशे सिद्धतां प्राप्यमाणायाः कणिकापरीक्षणशालायाः कृते केन्द्रपरिस्थितिमन्त्रालयेन दत्ता प्रवर्तनानुमतिः राष्ट्रिय हरितन्यायासनस्य चेन्नैपीठेन निरस्ता।
परीक्षणाय पारिस्थितिकान्वीक्षणं कृतवतः नियोजितसंस्थायाः आवेदनानि न्यायासनेन नाङ्गीकृतानि। अङ्गीकारयुक्तया नूतनसंस्थया अन्वीक्षणं कारयितव्यमिति न्याया. पि ज्योतिमणि वर्यस्य अध्यक्षत्वेन नीतिपीठेन निर्दिष्टम्।
भारतीयमहिलाबैङ्कस्य विलयः
महिलाभ्यः सरलसुलभबैंक सौविध्यमुद्दिश्य प्रशासनेन भारतीयमहिलाबैंकस्य स्टेटबैंकआफइंडिया इत्यस्मिन् समावेशः अनुमतः । अनुमीयते यदनेन महिलाभ्यः बैंकसौविध्य प्रदानाय साहाय्यं भविष्यति।
मणिपुरे भाजपादलेन बहुमतं प्रामाणीकृतम्
मणिपुरविधानसभायां मुख्यमंत्रिणा बिरेनसिंहेन बहुमतं प्रामाणीकृतम् । भाजपासंयुत्या कांग्रेसदलस्येकं विधायकं समेत्य द्वात्रिंशत् विधायकानां समर्थनमधिगतम् । प्रधानमन्त्रिणः आर्थिकगतिरोधस्य समापनोद्देश्यं पूर्णतां गतम् । अपि च राज्यस्य विकासपथि नूतन पदक्षेपः समुत्थापितः |
उत्तरप्रदेशे सम्पत्तेः विवरणप्रकरणे योगिनः वक्तव्यम्
उत्तरप्रदेशस्य नूतनमुख्यमंत्रिणः योगी-आदित्यनाथस्य निर्देशानुसारेण मंत्रिभिः सह अधिकारिभिः अपि संपत्तेः विवरणं प्रदातव्यमस्ति । अधिकारिभिः सह संजातोपवेशने मुख्यमन्त्रिणा विधिव्यवस्थायाः सुदृढीकरणं प्राशासनिकनियुक्तिषु पारदर्शिता आरक्षि-प्रशासने राजनीतिकव्यवधानस्य समापनं शीर्ष-प्राथमिकतारूपेण प्रतिपादितम् |
उत्तराखण्डस्य मुख्यमन्त्रिणः प्राथमिकताः
उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्ररावतेन भणितं यत् पर्वतेभ्यः पलायनमवरोधयितुं पिहितोद्योगानाम् प्रारम्भः विधातव्यः| कुमाऊँगढ़वालयोर्मिथः सुदृढसम्पर्कस्यावश्यकता विद्यते तदर्थं च पूर्वस्थापितायां विधिव्यवस्थायाम् परिवर्तनमपि करणीयम् ।
महाराष्ट्रे चिकित्सकानां सामूहिकावकाशः
मुंबईं समेत्य महाराष्ट्रस्य विविधक्षेत्रेषु सोमवारे प्राशासनिकचिकित्सालयानां चिकित्सकैः स्वीय सहकर्मिणामुपरि दुराचारं विरुद्ध्य सामूहिकावकाशः कृतः, येन राज्ये रोगिणां समस्यायाः संवर्धिताः |
आभारतं अप्राप्तकार्यरताः अभियान्त्रिकज्ञाः षष्ठि प्रतिशतम्।
नवदेहली> राष्ट्रे प्रतिसंवत्सरं अभियान्त्रिक स्नातकोत्तीर्णेषु षष्टि प्रतिशतं अप्राप्तकर्यरताः सन्ति इति प्राविधिकशिक्षाविभागस्य सूचना। प्रति संवत्सरं अष्ट लक्षं छात्राः विविधेभ्यः प्राविधिकमहाविद्यालयेभ्यः बहिरागच्छन्ति। तेषु पञ्च लक्षं छात्राणां कार्यमेव न लभ्यते। एवं प्रति संवत्सरं विंशति लक्षं कर्यदिनानि राष्ट्रस्य नष्टं भवति।प्राविधिकमहाविद्यालयानां मूल्यच्युतिः परिहर्तुं केन्द्रसर्वकारः प्रयत्नम् आरभत।तानि-
*२००८ जनवरि आरभ्य आराष्ट्रम् एक एव प्रवेशनपरीक्षा।
* शिक्षकाणां कृते वार्षिकप्रशिक्षणम्। न करोति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।
*प्रतिसंवत्सरं पाठ्यक्रमस्य नवीकरणम्।
*छात्राणाम् अनिवार्यप्रशिक्षणम्।
*राष्ट्रीय परीक्षा सेवा द्वारा प्रवेशनपरीक्षा स्यात्। परीक्षायाः नाम स्यात् एन इ इ टी ऐ। नीट् परीक्षा अपि एषा संस्था एव करोति।
* प्रथमा परीक्षा २०१७ डिसंबर मासे अथवा २०१८ जनवरि मासे वा।
२०२२ तमेन प्राविधिकमहाविद्यालयेषु अर्धानां कृते राष्ट्रीय अड्गीकारपरिषदा अड्गीकारः दास्यति।
* छात्राणाम् स्तरोन्नतिः न भविष्यति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।
भारते विद्यमाना: २३ विश्वविद्यालयाः व्याजा:, अधिकाश्च प्रवर्तते देहल्याम् ।।
नवदेहली> भारते प्रवर्तमानासु तन्त्रयन्त्रसाड्केतिककलाशालासु अधिका: अपि व्याजा: । देहल्यामेव ६६ कलालयानाम् अनुमति: नास्ति । साड्केतिककलालयेषु २७९अपि व्याजा:। बिरुददानाय एतेषाम् अधिकार: न भवति । इत: स्वीक्रियमाणबिरुदस्यापि मूल्यं केवलं पत्रमात्रं स्यात् । इतोपि २३ व्याज-विश्वविद्यालयेषु ७ देहल्यामेव प्रवर्तते। गतमासे यु जी सी तथा ए ऐ सी टी च तासां व्याजानां तेषाम् नामानि अन्तर्जालशृड्खलासु प्रसिद्धीकृतवन्त:। तेषां विशदांशानि तत्तद्राज्याणि च सूचितानि इति अधिकारिभि: व्यक्तीकृतम् । तेलड्काना पश्चियबड्गाल: उत्तरप्रदेश: महाराष्ट्रा एतेष्वपि व्याजविश्वविद्यालयाः न विरला:। आगामिनी संवत्सरे एतेषु प्रवेशनं न दीयादिति एतेभ्य: ए ऐ सी टी ना निर्देशोपि दत्त:। प्रवेशनं एतेषु निषिद्धमिति संसूच्य पत्रमाध्यमेषु च वार्ता: दत्ता:। व्याजविश्वविद्यालयानां प्रवर्तनानि आधारीकृत्य अन्वेषणं कृत्वा विधिनिर्णयाय राज्याणां कृते निर्देश: दत्त: इति मानवशेषिविकसनमन्त्रालयेन राज्यसभायां व्यक्तीकृतम् ।Monday, March 20, 2017
उत्तरप्रदेशमन्त्रिमण्डलस्य शपथग्रहणसमारोहः
भाजपादलस्य योगी आदित्यनाथ: लखनऊ नगरे कांशीरामस्मृत्युवने समायोजिते शपथग्रहणसमारोहे उत्तरप्रदेशस्य मुख्यमंत्री पदस्य गोपनीयतायै प्रतिज्ञापितः । राज्यपालेन रामनाईकेन तस्मै पदगोपनीयतायाः शपथं प्रतिज्ञापितम् । दलस्य प्रदेशाध्यक्षः केशवप्रसादमौर्यः राष्ट्रीयोपाध्यक्षः दिनेशशर्मा च उपमुख्यमन्त्रित्वेन शपथवचनं स्वीकृतवन्तौ । स्रोतोभिः विज्ञापितं यत् अनेन सहैव द्वाविंशतिः मन्त्रिमण्डलस्तरीय नवस्वतन्त्र त्रयोदशराज्यमन्त्रिभिश्च शपथवचनमभिस्वीकृतम् ।
पञ्चाबे सर्वकारवृत्तिषु महिलाभ्यः आरक्षणम्।
चण्डिगड्> पञ्चाबराज्ये अमरीन्दर् सिंहस्य नूतनसर्वकारस्य प्रथममन्त्रिमण्डलोपवेशने परिवर्तनात्मकाः निर्णयाः कृताः। तदनुसृत्य राज्ये सर्वकारवृत्तिषु महिलानां कृते प्रतिशतं त्रयस्त्रिंशत् आरक्षणम् आयोज्यते।
तद्देशस्थापनेषु अपि वनिताप्रातिनिध्यम् इदानींतमात् प्रतिशतं त्रयस्त्रिंशत् इत्यस्मात् प्रतिशतं पञ्चाशत् करिष्यति। स्वातन्त्र्यान्दोलनसेनानिनां कृते एकैकं गृहं तथा त्रिशतं यूणिट् परिमितं विद्युदपि दास्यति।
उद्घाटनं, शिलास्थापनम् इत्यादिषु कार्यक्रमेषु मन्त्रिणां भागभागित्वं न भविष्यति। अपि च योजनासु स्थाप्यमानासु शिलासु मुख्यमन्त्रिणः इतरमन्त्रिणां वा नामानि न योक्ष्यन्ते , प्रत्युत शुल्कधनमुपयुज्य आयोजिता योजना इति अङ्कनीयमस्ति।
मेधा यात्राम् आरभते !
मुम्बै> परिपूर्णरूपेण भारतेन निर्म्मितं मेधा नामिका रेल् यानं प्रथमतया यात्रार्धां सिद्धं जातम् मेक् इन् इण्डिया पद्धथिद्वारा निर्म्मितं यानं मुम्बय्याम् सबर्बन् पथे चर्च रेल् निस्थानतः यात्रां आरभत। रेल् मन्त्री सुरेश् प्रभुना उद्घाटनमकरोत्हैदराबाद्तः "मेधा सेर्वो डैव्'' इतिसंस्थया एव यानं निर्मितम्।
अस्मिन् बहवः विशेषणानि अपि विद्यते। यानस्य परिपूर्ण नियन्त्रणं रिमोट् मोणिट्टर् द्वारा भवति। यात्रावसरे एव अनेन समस्यायाः समाधानं कर्तुं शक्यते। पूर्ण समये निरीक्षणे एव वर्तते अयम्। मैक्रोफोण् उपयुज्य आशयविनिमयं चालकाय सरलतां प्रददाति। यानेsस्मिन् ११६८ आसन्तानि सज्जीकृतानि सन्ति। ६०३० जनेभ्यः यात्रां कर्तुं शक्यते। उच्चतर शीघ्रता ११० किलोमीट्टर् अस्ति। अस्मिन् १२ कक्षाः सन्ति। निर्माण व्ययं तु ४३.१३ कोटि रुप्यकाणि भवन्ति।
मासत्रयं यावत् सौदी अरेबियायां सार्वजनीनक्षमापणम् ।
श्यामपट्टिकायां नामपतनं विना रक्षामार्ग:।
रियाद:> सौदी अरेबियायां मासत्रयं यावत् सार्वजनीनक्षमापणं प्रख्यापितम् । मार्च् २९ एतत् प्राबल्ये आगच्छति । हज्ज् उंरा विदेशचिटिकासु सन्दर्शकचिटिकासु वा सौदीं प्राप्य चिटिकाकालावधेरनन्तरं अनधिकृततया तत्रैव वासं कुर्वतां विमानपत्तनेषु महानौकास्थानेषु स्थलसीमाकवाटेषु वा जवासात् (तरणपत्रं पास्पोर्ट्) केन्द्रेभ्य:अन्तिममुक्ति: लभेत् । किरीटावकाशिन: आभ्यन्तरमन्त्रिण:बिन साइफ राजकुमारस्य निर्देशानुसरणमेव एतत् प्रख्यापितम् । इक्कामा उद्योगनियमलड्घका: उंरा चिटिकावन्त: दायित्वमध्यस्था:हुरूबाकिन: एतेषामनेन नियमेन आनुकूल्यं लभते ।दण्डनं शुल्कं कारागारवासादिकं विहाय एते स्वदेशं प्रतिगन्तुं शक्नुवन्ति ।प्रख्यापनात् ९० दिनाभ्यन्तरे स्वमेधया राष्ट्रं त्यक्त्वा ये गच्छन्ति तानेव दण्डनेभ्य: मुक्तान् कुर्वन्ति । Sunday, March 19, 2017
रेल् यानेषु वनितायात्रिकाणां सुरक्षा दृढीकरिष्यति- केन्द्रसर्वकारः।
नवदिल्ली> रेल् यानेषु वनितायात्रिकाणां सुरक्षां दृढीकर्तुं क्रियासोपानानि स्वीकृतानीति केन्द्र रेल् यानसहमन्त्री राज्यसभायाम् उक्तवान्। यात्रिकक्लेशानां परिहाराय १८२ इति सुरक्षासाहाय्यसंख्या प्रवर्तनमारब्धा। रेल्याननिस्थानेषु सि सि टि वि व्यवस्था, महिलानां कृते वर्तमानेषु यानेषु रेल्वे सुरक्षाबलस्य [आर् पि एफ्] वनिताभटानां नियुक्तिः, मार्गसुरक्षायै श्वानसङ्घ इत्यादयः आयोजिताः।
सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठतामहोत्सवस्य परिसमाप्तिः।
लोके इदंप्रथमतया फ्लूरसेन्ट् मण्डूकः आमसोण् देशे दृष्टः।
अन्धकारेsपि प्रकाशमानानि फ्लूरसेन्ट् वर्ण- फलकानि वयम् अपश्याम खलु! फ्लूरसेन्द् दीपानामपि उपयोगं वयं कुर्मः।
एवं प्रकाशमानाः मण्डूकाः इदंप्रथमतया गवेषकैः दृष्टाः। अर्जन्टीनायाम्
आमसोण् वर्षकानने एव बर्णाडिनो रिवाडविय नाचुरल् सयन्स् संस्थायाः
गवेषकैः एते मण्डूका: दृष्टाः। अस्मिन् प्रदेशे सामान्यभूतानां
पृषन्मण्डूकानां विशेषवर्णघटकमधिकृत्य कृते गवेषणे यादृच्छिकतया एव
अन्धकारे राजमानस्य विशेषतामपश्यन्। प्रकाशं वा अन्यवैद्युतकान्तिकतरंगान्
वा आगीर्य अधिकतरंगदैर्घ्यप्रकाशस्य बहिर्निस्सरणप्रतिभासः एव फ्लूरसेन्स्
इत्युच्यते। स्थल जीविषु एषा विशेषता विरलातया एव दृश्यते। सामान्यप्रकाशे
अभास्वरकपिशवर्णेन रक्तपृषदा च युक्तत्वचः एते मण्डूकाः अल्ट्रावयलट्
प्रकाशे भास्वरहरितवर्णैः दृश्यन्ते। एतेषां मण्डूकानां
बहिर्निस्सरितस्रवाः एव फ्लूरसेन्ट् प्रतिभासकारणमिति गवेषकै: दृष्टम्।
Proceeding of Natural national academy of science इति मासिक्याः नूतनपुटे
एव एतद्विषयपठनं प्रसिद्धीकृतं दृश्यते।Saturday, March 18, 2017
मधुमेहरोगिभ्यः छात्रेभ्यः परीक्षामण्डपे भोज्यानुमतिः।
नवदिल्ली> वार्षिकमूल्यनिर्णयार्थं प्रविष्टमानेभ्यः प्रथमप्रकारमधुमेहरोगिभ्यः छात्रेभ्यः [टैप् १] दशमी तथा द्वादशीकक्ष्या छात्रेभ्यः परीक्षामण्डपं लघुभोज्यवस्तूनि जलं च आनेतुम् अनुज्ञा दीयते। राज्यसभायां गतदिने मानवविभवसहमन्त्रिणा उपेन्द्रकुश् वाहेन विज्ञापितमेतत्। मधुमेहौषधम् चाकलेहउत्पन्नानि फलानि अर्धलिटर् परिमितं जलञ्च प्रवेशयितुं शक्यते। मधुमेहचिकित्साविदग्दस्य भिषग्वरस्य प्रमाणपत्रं रोगमधिकृत्य विशदीकरणं च प्रथमाध्यापकाय समर्पयितव्यम्।
उत्तराखण्डे त्रिवेन्द्र सिंहः।
नवदिल्ली> उत्तराखण्डराज्यस्य भाजपा सर्वकारस्य नेता त्रिवेन्द्रसिंहरावत्तः भविष्यति। शनिवासरे तस्य नेतृत्वे मन्त्रिमण्डलं शपथग्रहणं करिष्यति। राजनगर्यां दरादूण् मध्ये आयोज्यमाने शपथग्रहणसमारोहे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्यं भविष्यति।
सुख-भोगवस्तूनां मूल्यवर्धनम्।
नवदिल्ली>सुख-भोगवस्तूनां शीतलपानीयानां च १५/सेस् योजनाय जी एस् टी समितियोगे निर्णयः। करस्योपरि भवति सेस् । अनेन सुख-भोगवस्तूनि उन्मादकवस्तूनि, सोडा, कोला आदीनां मूल्यवर्धनस्य निर्णयः अभवत्। धूमपान 'बीडी' विषये केरलस्य अवगणनाम् अधिकृत्य धारणा न कृता। सेस्वाह्यमानेषु वस्तुषु बीडी त्याज्या यत: अनेकेषां कर्मकराणां जीवनोपाधि: सा इति धनमन्त्रिणा तोमस् ऐसकेन केन्द्रधनमन्त्रिण: अरुणजयट्ले: कृते पत्रं प्रेषितवान्। गुरुवारे प्रवृत्तसम्मेलने कर-विभाग-कार्यदर्शिना पी मारापाण्ड्येन केरलस्य अभिप्राया: विशदीकृता:। सुख-भोगवस्तूनां सेस् अधिकतया निश्चिता चेदपि एकैकस्य कियदिति न निश्चितम्। जी एस् टी प्रावर्त्यमाने राष्ट्राणाम् आयनष्टं परिहर्तुं सेस् द्वारा धनार्जनमेव निर्णय: ।
कोच्चि विमाननिलयस्य सुरक्षाबलं वर्धयते।
कोच्ची>कोच्चि अन्ताराष्ट्रविमाननिलयस्य टि-३ इति कार्यनिर्वहणालयस्य प्रवर्तनक्षमतां पुरस्कृत्य केन्द्र उद्योग संरक्षणसेनायाः [सिऐएस्एफ्] अङ्गबलं वर्धयितुमुद्दिश्यते। विमाननिलयस्य सुरक्षायै सि .ऐ .एस् .एफ् .संस्था एव नियुक्ता अस्ति। एतदनुसृत्य ३६० सैनिकानपि नियोक्तुं केन्द्रगृहमन्त्रालयेन आदेशः कृतः। अनेन कोच्ची विमाननिलयस्य सि ऐ एस् एफ् सैनिकसंख्या आहत्य ८५४ भविष्यति।
Friday, March 17, 2017
परीक्करः अङ्गीकारः प्राप्तः।
पनजी> मनोहरपरीक्कर् सर्वकारः गोवा विधानसभायां मतदानाङ्गीकारः प्राप्तः। चत्वारिंशदङ्गयुक्तायां सभायां द्वाविंशति सामाजिकाः परीक्कर् सर्वकाराय सहयोगं कृतवन्तः। विपक्षदलाय कोण्ग्रस् दलाय केवलं षोडश सामाजिकानां सहयोगः प्राप्तः। केन्द्रसर्वकारस्य राष्ट्रक्षामन्त्रिस्थानं त्यक्त्वा परीक्करः मुख्यमन्त्रिरूपेण सत्यशपथं कृतवान्।
ताज्महल् लक्ष्यीकृत्य ऐ एस् अनुकूल संघटना।
नवदेहली>भीकरसंघटना इस्लामिक स्टेट् भारतस्य ऐतिहासिकस्थानान् लक्ष्यीकरोतीति रहस्यान्वेषणविभागस्य सूचना। ऐ एस् अनुकूल संघटना अहवाल् उम्मत्त मीडिया सेण्टर ताज्महलं लक्ष्यीकरोतीति वार्ता। वार्तावलम्बीनिः चित्राणि तथा अन्यानि अभिज्ञानानि च प्राप्तानि। प्राप्ते चित्रे कृष्णवस्त्रं धृत्वा सायुधः एकः ताज्महलं प्रति तिष्ठति , एवं तस्य अधः नवीनं लक्ष्यमिति लिखितं वर्तते।सप्तत्यधिक भारतीयाः ऐ एस् मध्ये भागं स्वीचक्रुः इति सुरक्षा कर्मकराणां मतम्। केरलम् कर्णाटका महाराष्ट्रा इत्येभ्यः राज्येभ्यः अधिकाः ऐ एस् भागं स्वीकृतवन्तः। अन्तर्जालद्वारा टेलिग्राम द्वारा च जनैः सह ते संपर्कं कुर्वन्ति।
एप्रिल् 1दिनाङ्गत: वाहनानां बी एस् ४
नवदिल्ली>मलिनीकरणमानदण्डस्य निर्बन्धतया वाहनानां बी एस् ४ पद्धति: इति आशयस्य प्रबलीकरणवेलायां आशड्का: अव्यक्तताश्च शिष्टा:। भारतस्टेज् बी एस् पाल्यमानानि वाहनानि एव आगामिमासादारभ्य निर्मातुं शक्यानि। निर्मातृणाम् एतेन सहमतिश्च वर्तते। किन्तु निर्मितपूर्वाणि बी एस् ३ यानानां का गति: इत्यत्रैव आशड्का: शिष्टा:।
जियोः जेतुं बि एस् एन् एल् - प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तम्।
कोच्चि> प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तेन सह बी एस् एन् एल्।३३९ रुप्यकाणां पुनः पूरणेन अष्टविंशति दिनानां कृते सेवनमिदं लभ्यते। एवं एप्रिल् मासे आगतस्य रिलयन्स् संस्थायाः जियोः ३०१ रुप्यकाणां एकं जीबी इति वाग्दत्तं प्रति शक्तं पेरतिरोधं करोति बी एस् एन् एल्।एतदतिरिच्य आभारते बी एस् एन् एल् जालक्षेत्रेषु निश्शुल्कतया भाषणं कर्तुं शक्यते। अनेषु जालक्षेत्रेषु पञ्चविंशति निमेषाः निश्शुल्कतया वक्तुं शक्यते।अष्टादशदिनाड्कादारभ्य नवमिदं वाग्दत्तं प्रवृत्तिपथे आगच्छति।
Subscribe to:
Comments (Atom)













