‘मनोगतम् [०२.१६]
‘मन की बात’प्रसारण-तिथि:-२७’सेप्टेम्बरः, २०२०
[भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
‘मनोगतम् [०२.१६]
‘मन की बात’प्रसारण-तिथि:-२७’सेप्टेम्बरः, २०२०
[भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
कोविड्युद्धे संयुक्तराष्ट्रसंघटनस्य स्थानं कुत्रेति नरेन्द्रमोदी।
नवदिल्ली> यू एन् संस्थायाः परिष्करणकालविलम्बं प्रति निराशतां प्रकटयन् कोविड्प्रतिरोधे संस्थायाः सहयोगं विमृशन् च भारतप्रधानमन्त्री नरेन्द्रमोदी। संयुक्तराष्ट्रसंघटनस्य ७५तमां सामान्यसभां दृश्यश्रव्यमाध्यमद्वारा अभिसम्बोधयन् आसीत् नरेन्द्रमोदी।
"यू एन् संस्थायाः स्थिराङ्गसमित्याः परिष्कारप्रक्रमणे सयुक्तिकं पदक्षेपमालक्ष्य भारतीयाः आशङ्काकुलाः वर्तन्ते"- समित्यां भारतस्य स्थिराङ्गत्वं पुरस्कृत्य मोदी अब्रवीत्। कोविड्युद्धमभिलक्ष्य प्रतिकरणेषु प्रक्रमेषु निर्णयेषु च संस्थायाः परिष्करणं कालखण्डस्य आवश्यकता अस्ति - मोदिना सूचितम्।
शान्तिसंरक्षणार्थं यू एन् प्रति नीतेषु सैनिकेषु अधिकतमं नष्टं सम्भूतं राष्ट्रं भवति भारतम्। अस्मिन् दुरितकाले अपि भारतस्य औषधनिर्माणशालाभ्यः १५० राष्ट्रेभ्यः अवश्यौषधानि नीतानि। भारतस्य योगदानं पुरस्कृत्य अधिकमुत्तरदायित्वं स्वीकर्तुमर्हतीति च प्रधानमन्त्रिणा उक्तम्।
बीहारे विधानसभानिर्वाचनम् उद्घुष्टम्।
नवदिल्ली> बिहारराज्यस्य विधानसभानिर्वाचनं ओक्टोबर २८, नवम्बर् ३, ७ दिनाङ्केषु विधातुं निर्णीतम्। मतगणना नवम्बर् १० तमे दिनाङ्के भविष्यति।
मुख्यनिर्वाचनाधिकारी सुनिल् अरोरा गतदिने निर्वाचनमार्गनिर्देशानां घोषणामकरोत्। कोविड्नियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते।
विश्वप्रसिद्धगायकः एस् पि बालसुब्रह्मण्यम् दिवंगतः।
कोविड्कालीनः बृहत्तमः नष्टः।
१६ भाषासु चत्वारिशत्सहस्रेभ्यः परं चलच्चित्रगीतानि गायन् 'गिन्नस् अत्युत्कृष्टतां' प्राप्तवान्। दिनेनैकेन कन्नडभाषायां २१ गानानि मुद्रीकुर्वन् अपूर्वलाभं स्वायत्तीकृतवान्।
भारतसर्वकारेण पद्मश्री पद्मभूषण पुरस्काराभ्यां समादृतः। षड्वारं श्रेष्ठगायकाय दीयमानः राष्ट्रियपुरस्कारः तेन लब्धः। तदतिरिच्य विविधराज्यानां २५ श्रेष्ठगायकपुरस्कारैश्च सः बहुमानितः आसीत्। २५ चलनचित्रेषु स्वस्य नटनप्रावीण्यमपि एस् पि बी महाशयेन प्रकाशितम्।
सौदीतः वन्देभारतसेवाः अनुवर्तिष्यन्ते।
नवदिल्ली> सौदीअरेबिया राष्ट्रात् भारतं प्रति 'वन्दे भारतं' विमानसेवाः अनुवर्तिष्यन्ते इति एयर् इन्डिया एक्स्प्रस् संस्थया निगदितम्। किन्तु भारतात् सौदीं प्रति यात्रिकाः न नेष्यन्ते। सौद्याः स्वदेशं प्राप्तुमुत्सुकेभ्य एव सेवाः विधास्यन्ते।
भारते कोविड्रोगिणां संख्यायां वर्धमानायां गतदिने 'सौदी जनरल् अतोरिटि आफ् सिविक् एवियेषन्' नामिकया संस्थया भारतमभिव्याप्य त्रिभ्यः राष्ट्रेभ्यः विमानसेवाः निरुद्धाः आसन्।
महाकवये अक्कित्ताय ज्ञानपीठपुरस्कारः समर्पितः।
पालक्काट्> ५५ तमज्ञानपीठपुरस्कारः केरलस्य महाकवये अक्कित्तम् अच्युतन् नम्पूतिरि वर्याय समर्पितः। अत्र कुमरनेल्लूरस्थे स्वभवने आयोजिते कार्यक्रमे प्रियजनपरिवेष्टितः महाकविः सांस्कृतिकमन्त्रिणः ए के बालस्य हस्तात् राष्ट्रस्य परमोन्नतं साहित्यपुरस्कारं स्वीकृतवान्। मुख्यमन्त्री पिणरायि विजयः समर्पणकार्यक्रमम् ओण्लैन् द्वारा उद्घाटनं कृतवान्।
भारतीयज्ञानपीठस्य चयनसमित्यध्यक्षा प्रतिभापाटीलः , केरलस्य अन्यतमः ज्ञानपीठजेता एम् टि वासुदेवन् नायर् , इ टि मुहम्मद बषीर् एम् पि , विधानसभासदस्यः वि टि बलरामः इत्यादयः महाकवये आशंसां समर्पितवन्तः।
चीन-भारतचर्चा - नेतृस्ततरीयसन्धीन् विधातुं निर्णयः।
नवदिल्ली> सीमायां सन्तुलितावस्थां सुस्थिरीकर्तुं उभयोरपि राष्ट्रयोः नेतृभिः विहितान् सन्धीन् विधातुं गतदिने सम्पन्नायां मुख्यकमान्डर् स्तरीयचर्चायां निर्णयः अभवत्। मोल्डो प्रदेशे सोमवासरे प्रातः नववादने समारब्धा चर्चा रात्रौ ११वादने एव समाप्ता। सैन्यस्य अधस्स्तरे आशयविमयं संवर्धयितुं कुवार्ताः अपाकर्तुं च निर्णीतम्।
भारते कोविड्मुक्तिप्रतिशतता ८० अतीता।
नवदिल्ली> भारते कोविड्रोगमुक्तानां संख्या अनुदिनं वर्धते। केन्द्रस्वास्थ्य-मन्त्रालयस्य आवेदनमनुसृत्य गतदिने १.०१लक्षं जनाः विरुजः अभवन्। रोगमुक्तेः प्रतिशतता ८०.८६ जाता।
अद्यावधि ४५ लक्षं रोगिणः स्वस्थीभूताः। तेषु ७९% जनाः महाराष्ट्रं कर्णाटकम् आन्ध्रप्रदेशः उत्तरप्रदेशः तमिलनाडु ओडीषा दिल्ली केरलं वङ्गः पञ्चाबः इत्येतेभ्यो राज्येभ्यो भवन्ति।
कोरोणा वैराणुव्यापन साहायकः संयुक्तः प्रत्यभिज्ञातः।
सान्डियागो>गवेषकैः कोरोणा वैराणुव्यापन-साहायकः संयुक्तः प्रत्यभिज्ञातः। कोविड् रोगस्य कारणभूतेन कोरोणा वैराणुना मनुष्यशरीरे अधिरोहणाय उपयुज्यमानः संयुक्तः प्रत्यभिज्ञातः। हेपारन् सल्फेट् इति संयुक्तः भवति एष:। कोविड् चिकित्सायां तथा प्रतिरोध-चिकित्सायां च इदं प्रत्यभिज्ञानम् अत्यन्तम् उपकारकं भविष्यति इति वैज्ञानिकैः उच्चते। कालिफोर्णिय विश्वविद्यालयस्य महाचार्यस्य 'जेफ्रि एस्को' इत्यस्य नेतृत्वे कृते अध्ययने आसीत् नूतनमिदं प्रत्यभिज्ञानम् ।
समाजसेवकैरपि विदेशात् उपदास्वीकारः निषिद्धः।
विधिपरिवर्तनविधायकं लोकसभया अनुमोदितम्।
नवदिल्ली > व्यक्तयः , संघटनानि, संस्थाः इत्यादिभिः विदेशराष्ट्रेभ्यः उपायनस्वीकारे कर्कशं नियन्त्रणं विधास्यमानं विधेयकं - विदेशोपदानियमपरिवर्तनविधेयकं [नियन्त्रणं] - लोकसभया अनुमोदितम्। विदेशोपदास्वीकारे निषिद्धानां पट्टिकायां सर्वकारसेवकैः सह समाजसेवकाश्च समावेशिताः।
२०१० तमस्य विदेशोपायननियन्त्रणनियमं [एफ् सि आर् ए] परिवर्तनं कृत्वा एव नूतनं विधेयकमवतारितम्। नियमोल्लङ्घकानां पञ्जीकरणं ३६० दिनानि यावत् निष्कासितुमधिकारः नियमपरिवर्तनानुसारं केन्द्रसर्वकाराय लप्स्यते। उपदास्वीकारयोग्यतार्थं पञ्जीकरणं कर्तुम् आधारसंख्या अवश्यं विधेया।
वङ्गान्तरस्समुद्रे न्यूनमर्दः - दक्षिणभारते अतिवृष्टिः।
कोच्ची> दक्षिणचीनसमुद्रे रूपवत्कृता 'न्योल्' नामिका वात्या वङ्गसमुद्रे न्यूनमर्दरूपेण संवृत्ता इत्यतः दक्षिणभारते, विशिष्य केरले अतितीव्रवृष्टिः भवेदिति केन्द्रपर्यावरणविभागस्य जाग्रतासूचना। इटुक्की, मलप्पुरं, कण्णूर्, कासर्कोड् जनपदेषु रक्तातिजाग्रता प्रख्यापिता।
कोट्टयं, एरणाकुलं, तृश्शूर्, पालक्काट्, कोष़िक्कोट्, वयनाट् जनपदेषु ओरञ्ज् जाग्रता च प्रख्यापिता।
गतसप्ताहे केरले अरबसमुद्रोद्भूतन्यूनमर्दस्य कारणतः सामान्येन शक्ता वृष्टिरजायत। जलसम्भरण्यः पूरितप्रायाः वर्तन्ते। षोलयार् परम्पिक्कुलं जलाशयौ प्रपूरितौ इत्यतः जलनिर्गमनमार्गाः उद्घाटिताः च।
कोविड्मुक्तानां संख्यायां भारतं प्रथमम्।
नवदिल्ली> कोविड्रोगमुक्तानां संख्यायां आगोलस्तरे अमेरिक्कामुत्तीर्य भारतं प्रथमस्थानं प्राप्तमिति केन्द्रस्वास्थ्यमन्त्रालयः। मन्त्रालयस्य आवेदनमनुसृत्य राष्ट्रे अद्यावधि ४२,०८,४३१ रोगिणः स्वस्थीभूताः अभवन्। यू एसे एतत् ४१ लक्षमस्ति। ७९.२८ अस्ति भारतस्य रोगमुक्तिप्रतिशतता। विश्वस्य रोगमुक्तेषु १९% भारते वर्तते।
गत२४होरासु ९५,८८० जनाः विरुजः अभवन्। मृत्योः प्रतिशतता तु १.६१ इति न्यूनीभूतं वर्तितम्। एतत्तु विश्वे उत्कृष्टमानतां भजते। उचितकाले एव निरीक्षणानि उत्कृष्टश्रेणीं भजमानं वैद्यकीयपरिचरणं च अस्य लाभस्य हेतव इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्।
नव अल् ख्वयिदा आतङ्कवादिनः एन् ऐ ए संस्थया गृहीताः।
षट् बङ्गालतः त्रयः केरलतः।
कोच्ची> भारतस्य राष्ट्रियान्वीक्षणसंस्थया [एन् ऐ ए] देशस्य विविधस्थानेषु कृते अवस्कन्दे नव अल् ख्वयिदाभीकरप्रवर्तकाः गृहीताः। षट् भीकराः वंगराज्यात् त्रयः केरले एरणाकुलं जनपदाच्च निगृहीताः।
राष्ट्रस्य विविधेषु एकादशस्थानेषु आसीत् एन् ऐ ए संस्थायाः अवस्कन्दः संवृत्तः। निगृहीतेभ्यः देशविरुद्धलघुलेखनानि आयुधानि साङ्केतिकोपकरणानि च अभिदृष्टानि। विविधस्थानेषु भीकराक्रणमालक्ष्य परियोजनाः आविष्कृता इति एन् ऐ ए संस्थया निवेदितम्।
केरलतः निगृहीतः मुर्षिदाबादप्रदेशीयः अबु सुफियान् नामक एव संघनेता इति अन्वीक्षणसंस्थया सूचितम्। त्रयः भीकरौ केरले एरणाकुलं जनपदस्थे पेरुम्पावूर् नगरसमीपे कर्मकररूपेण वृत्तिं कुर्वन्तः सन्ति। केरलस्य आतङ्कवादविरुद्धसंघस्य साह्येन ते निगृहीताः।
केन्द्रसर्वकारस्य कार्षिकविधेयकानि विरुद्ध्य उत्तरभारते संग्रामान् संयोजयन्तः वर्तन्ते।
केन्द्रमन्त्रिणी स्थानं त्यक्तवती।
नवदिल्ली> कार्षिकमण्डलस्य परिष्करणं परिकल्प्य केन्द्रसर्वकारेण आनीतानि त्रीणि विधेयकानि विरुध्य एन् डि ए राजनैतिकदलयूथे तथा उत्तरभारते अपि अतृप्तिः वर्धते। संसदि अवतारितेषु विधायकेषु स्वप्रतिषेधं संसूच्य शिरोमणि अकालि दल् नामकराजनैतिकदलस्य [एस् ए डि] प्रतिनिधिः भक्ष्यसंस्करणमन्त्रिणी हर सिम्रत् कौल् स्थानमत्यजत्। किन्तु एन् डि ए सख्यसहयोगः अनुवर्तिष्यते इति एस् ए डि दलाध्यक्षः अब्रवीत्।
तथा च एस् ए डि दलमनुगम्य हरियानस्थेन जननायक जनता पार्टी [जे जे पि] नामकेन राजनैतिकदलेनापि प्रतिषेधः उन्नीतः।
पञ्चाबहरियानोत्तरप्रदेशराज्येषु विविधानि कार्षिकसंघटनानि प्रक्षोभान् संघटन्तः वर्तन्ते।
भारतसेनां प्रतिरोद्धुं केनापि न शक्यते- राजनाथसिंहः।
आयुर्वेदवरिष्ठः डो. पि आर् कृष्णकुमारः दिवंगतः।
परम्परया लब्धमायुर्वेदसरणिं स्वप्रयत्नेन विश्वसमक्षमानीय विजयश्रीलालितः अभवत्। आयुर्वेदाय दत्तं समग्रयोगदानं पुरस्कृत्य २००९ तमे पद्मश्रीपुरस्कारेण बहुमानितः। परम्परागतरीत्या सह आधुनिकतामपि समञ्सेन सम्मेल्य नूतनः अध्ययनस्मप्रदायः तेन आविष्कृतः। विश्वस्वास्थ्यसंघटनस्य तथा भारतीयवैद्यकगवेषणसंस्थायाः [ऐ सि एम् आर्] च सहयोगेन कृष्णकुमारस्य नेतृत्वे परम्परागतचिकित्सासरणीः अवलम्ब्य कृतमनुसन्धानं लोकश्रद्धामाचकर्ष।
नवल्निः श्वसनसाह्योपकरणात् विमुक्तः ; रूस् प्रतिनिवर्तते।
बर्लिन् > जर्मनिराष्ट्रे चिकित्सायां वर्तमानः रूसीयविपक्षनेता अलक्सि नवल्निः 'वेन्टिलेटर्' उपकरणात् विमुक्तः। 'इन्स्टग्राम'माध्यमेन नवल्निना एवेयं वार्ता बहिरागता। विषबाधितानन्तरं सः प्रथमतया अर्पिते इन्स्टग्रामवृत्तान्ते श्वसनसाह्योपकरणं विनैव श्वसितुं शक्यत इति तेन निवेदितम्।
नवल्निः रूस् राष्ट्रं प्रत्यागमिष्यति , तद्विना किमपि न परिगण्यते इति तस्य वक्ता किरा यार्मिष् नामकः उक्तवान्। ओगस्ट्मासस्य २० तमे सैबीरियातः मोस्कों प्रति आगमनवेलायां विमाने सः अस्तप्रज्ञः अभवत्। परीक्षणे नाडीसीदनकारणं नोविचोक् नामकं विषमेव नल्विने अदादिति स्पष्टम्। रूस् राष्ट्रपतेः व्लादिमिर् पुटिनस्य निर्देशानुसारमेव विषप्रयोगः इत्यारोपः नल्वनेः सहप्रवर्तकैः कृत आसीत्।
आयुर्वेदशास्त्रं विश्वस्मिन् सर्वत्र प्राप्तव्यम् - भारतस्य उपराष्ट्रपतिः।
कोच्ची> प्रतिसन्धीन् उत्तीर्य सर्वेषु राष्ट्रेषु आयुर्वेदशास्त्रस्य उत्कृष्टता प्राप्तव्या इति भारतस्य उपराष्ट्रपतिः एम्. वेङकय्यनायिडु उद्बोधितवान्। कोच्चीनगरे आयोजितम् आगोलायुर्वेदसम्मेलनम् ओणलैन् द्वारा उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आयुर्वेदोद्योगस्य आगोलविपणिं लक्ष्यीकृत्य आधुनिकसाङ्केतिकविद्यायाः साह्यः अपेक्षित इति तेन प्रपूरितम्।
२०२६ तमे वर्षे आयुर्वेदोद्योगः १,४००कोटि डोलर् मूल्ययुक्तेन प्रवर्धिष्यते इति Confederation of Indian Industry (CIA) नामकसंस्थायाः केरलविभागेन आयोजिते सम्मेलने निरीक्षितम्।
सैनिकेभ्यः जनसभायाः सहयोगः आवश्यकः - नरेद्रमोदी।
नवदिल्ली> दुर्घटेषु सीमाप्रदेशेषु सधीरं सीमासंरक्षणं कुर्वद्भ्यः सैनिकेभ्यः जनसंसदेः सभाद्वयेनापि सहयोगः प्रकाशयितव्य इति प्रधानमन्त्रिणा नरेद्रमोदिना निर्दिष्टम्। जनसभायाः वर्षाकालसम्मेलनस्य पीठिकारूपेण कृते सन्देशे आसीत् प्रधानमन्त्रिणः निर्देशः।
एकस्मिन् पार्श्वे कोरोणामहामारिं विरुध्य युद्धः; अपरस्मिन् तु अस्माकं सीमासंरक्षणार्थं सैनिकानां परमधर्मः। स्वधर्मपरिपालनव्यापृतान् सर्वान् अभिनन्दामीति मोदिना प्रस्तुतम्।
भारतस्य नेतारः चीनेन निरीक्षन्ते।
प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।
आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय जीवनं प्रत्यानेतुं सैन्यैः यत्नः समारब्धः।
जनसभासम्मेलनाय अद्य शुभारम्भः।
मेलनं स्वास्थ्य-सुरक्षानियमान् परिपाल्य।
नवदिल्ली> भारतजनसभायाः वर्षाकालसम्मेलनम् अद्य प्रारभते। कोविड्रोगव्यापनकालं परिगणय्य कर्कशाः स्वास्थ्य सुरक्षानियमाः परिपाल्यन्ते। ओक्टोबरमासपर्यन्तमेव मेलनं निर्णीतम्।
१७तमलोकसभायाः चतुर्थं तथा राज्यसभायाः २५२तमं मेलनं च भवत्येतत्। प्रथमे दिने अस्मिन् लोकसभा प्रातः नववादनतः ११ पर्यन्तं , राज्यसभा मध्याह्नात्परं त्रिवादनतः सायं सप्तवादनपर्यन्तं च मेलिष्यति।
अप्रत्यक्षाः भारतीयाः युवकाः चीनेन प्रत्यर्पिताः।
इट्टानगरम्> अरुणाचलप्रदेशात् अस्य मासस्य द्वितीये दिनाङ्के अदृश्यं गतान् पञ्च युवकान् चीनसेना गतदिने भारतं प्रतिसमार्पयत्। मृगयाविनोदाभ्यन्तरे सीमामुल्लङ्घितवन्तः अरुणाचल-प्रदेशीयाः युवकाः चीनसैन्येन निगृहीताः आसन्। अरुणाचलप्रदेशस्थे अञ्चावु जनपदे दमा नामके स्थाने आसीत् प्रत्यर्पणकार्यक्रमः।
तालिबानफ्खानशान्तिचर्चा खत्तरे समारब्धा।
दोहा> अफ्खाने दशकैः संवत्सरैः यावत् अनुवर्तमानस्य संघर्षस्य परिसमाप्तये सर्वकारः तालिबानेन सह चर्चा खत्तरराष्ट्रे समारब्धा। फेब्रुवरिमासे कृतस्य यू एस् तालिबानयोः सुरक्षासन्धेः अनुबन्धतया मार्च्मासे आरम्भणीया शान्तिचर्चा एव कतिपयमासेभ्यः परं गतदिने आरब्धा।
तालिबानस्य अफ्खानिस्थानस्य च सर्वकारीयप्रतिनिधिभिः साक्षात्क्रियमाणः प्रथमः संवादः भवत्येषः। अफ्खानसर्वकारः अमेरिक्कायाः क्रीडनीयकमित्यारोप्य तालिबानः चर्चायै सन्नद्धो नासीत्। संवत्सरदशकात् परं दीर्घितस्य संघर्षस्य शान्तियुक्तः शाश्वतपरिहार एव लक्ष्यम्।
केरले कोविड्बाधिताः लक्षमतीताः।
द्वौ मन्त्रिणौ रोगबाधितौ।
अनन्तपुरी> केरले ह्यः २९८८ जनेषु कोविड्बाधितेषु रोगबाधितानामशेषसंख्या १,०२,२५४ जाता। ७२,५७४ जनाः रोगमुक्तिं प्राप्ताः। रोगमुक्तेः प्रतिशतता ७३.११ अस्ति। आहत्य ४१० मरणानि अभवन्।
केरलस्य द्वौ मन्त्रिणौ कोविड्बाधितौ अभवताम्। वित्तमन्त्री डो. तोमस् ऐसकः सप्ताहात्पूर्वं रोगबाधया चिकित्सायां वर्तते। उद्योगमन्त्री ई पि जयराजः अपि गतदिने कोविड्रोगयुक्तः अभवत्। द्वयोरपि स्वास्थ्यावस्था शुभोदर्का वर्तते।