जापानराष्ट्रे१५ कि.मी दूरं यावत् गतागतबन्धनम्।
टोकियो> जापानस्य कनेसु एक्स्प्रेस् हैवे मध्ये आपन्ने गतागतसम्मर्दे सहस्राधिकाः जनाः बन्धिताः। अतिरूक्ष-हिमपातेन १५ किलोमीट्टर् दूरं यावत् यानेषु बन्धिताः। भक्ष्यपेयादीन् अलब्ध्वा एव होराः यावत् जनाः उषिताः। 'टोक्यो-निगाट्ट' प्रविश्ययोः मध्ये वर्तमानः मार्गः भवति अयम्। बुधवासरात् आरब्धः भवति गतागतसम्मर्दः ४० होरापर्यन्तम् अभवत्। एकं कार् यानं हिमखण्डे घट्टयन् स्थगितम् इत्यनेन आसीत् गतागतसम्मर्दस्य कारणम्।OUR YouTube Channel 1. SampratiVartah |
marquee
Saturday, December 19, 2020
Friday, December 18, 2020
केरले विद्यालयाः उद्घाट्यन्ते ; SSLC परीक्षा मार्च् १७ तमे आरभ्यते।
अनन्तपुरी> केरलराज्ये विद्यालयाः जनवरि प्रथमेदिने उद्घाट्यन्ते। १०, १२ कक्ष्याणां कृते कोविड्मानदण्डान् अनुशील्य कक्ष्याः प्रचालयिष्यन्ते। प्रोक्तकक्ष्याछात्राः रक्षाकर्तॄणामनुज्ञया विद्यालयं प्राप्य सन्देहनिवारणाय शास्त्रविषयाणां प्रयोगपरिशीलनाय च अमुं कालमुपयोक्तव्याः इति सर्वकारस्य परिकल्पना।
SSLC,+2 कक्ष्याछात्राणां परीक्षाः मार्च् मासस्य १७ तमे दिनाङ्के आरप्स्यते। विद्यालय-उच्चविद्यालयस्तरीयाः ओण् लैन् कक्ष्याः अनुवर्तिष्यन्ते।
कलालयेष्वपि अन्तिमवर्षस्नातककक्ष्याः स्नातकोत्तरकक्ष्याश्च जनुवरि प्रथमदिने एव आरप्स्यन्ते। मुख्यमन्त्रिणः आध्यक्ष्ये प्रचलिते शिक्षा-स्वास्थ्य-उन्नतशिक्षामन्त्रिणाम् उद्योगस्थवृन्दस्य च उपवेशने आसीदिमे निर्णयाः कृताः।
रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य दशवादने समारभ्यते।
॥अत्र तुदतु स्वागतम् ॥
2020 December 18,19(10-12 AM) Zoom
Meeting ID: 851 7328 4439 Passcode 672229
प्रवेशसूत्रम् - https://us02web.zoom.us/j/85173284439?pwd=YnRoc2ZHdmZYazdBNnVWT2Q4NzNTZz09
Thursday, December 17, 2020
कोविडस्य स्रोतः अन्वेष्टुम् अन्ताराष्ट्रसंघः चीनां प्रति।
जनीव> कोविड् महामार्याः उत्पत्तिस्थानमन्वेष्टुम् अन्ताराष्ट्रविदग्धानां संघं चीनां प्रेषयितुं विश्वस्वास्थ्यसंघटनेन निश्चितम्। जनुवरिमासे सन्दर्शनं भवेदिति संघटनस्य वक्ता हेडिन् हाल्डोर्सण् नामकः वार्ताहरानवोचत्। प्रोक्ते संघे स्वास्थ्यप्रवर्तकाः गवेषकाः मृगसंरक्षणविदग्धाश्च अन्तर्भविष्यन्ति।
पूर्वं जूलाईमासे कश्चनसंघः बैजिङ् प्रति प्रेषित आसीत्। चीनायां वुहानस्थात् मांसविपणीतः एव कोविडस्य मानवसंक्रमणमिति गवेषकैः पूर्वं कल्पितमासीत्। किन्तु उत्भवः ततः न स्यादिति सम्प्रति अनुमीयते।
केरलस्य त्रितलपञ्चायत्तनिर्वाचनं - विजयरथे वामदलसख्यम्।
कोच्ची> केरले चरणत्रयेण सम्पन्ने त्रितलप्रादेशिकशासनसमितिनिर्वाचने सि पि एम् नेतृत्वे विद्यमानस्य वामदलजनाधिपत्यसख्यस्य विजयप्राप्तिः। ९४१ पञ्चायत्तशासनसमितिषु ५१४ संख्याकं वामदलसख्येन प्राप्तम्। कोण्ग्रस्दलेन नेतृत्वमावहता यू डि एफ् सख्येन ३७५ समित्यः प्राप्ताः। २३ ग्रामपञ्चायत्तसमित्यः भाजपा दलनेतृत्वे एन् डि ए सख्येन प्रशासननं करिष्यन्ते। २९ ग्रामान् इतरे च प्रशासयिष्यन्ते।
१५२ ब्लोक् पञ्चायत्तसमितिषु १०८ समित्यः तथा १४ जिल्लापञ्चायत्तसमितिषु ११ च वामदलेन प्राप्ताः। किन्तु ८६ नगरसभासु ४५ संख्याकं प्राप्य यू डि एफ् सख्यः स्वशक्तिं प्रकटयामास।
Wednesday, December 16, 2020
प्रतिनिधिसभया अपि बैडनस्य राष्ट्रपतित्वम् अङ्गीकृतम्।
वाषिङ्टणः> यू एस् राष्ट्रे सोमवासरे सम्पन्ने प्रतिनिधिसभायाः निर्वाचने अपि राष्ट्रपतिरूपेण जो बैडनः उपराष्ट्रपतिरूपेण कमला हारिसश्च चितौ। अनेन आधिकारिकं राष्ट्रपतिनिर्वाचनं सम्पूर्णमभवत्।
बैडनैन ३०६ मतदानानि मुख्यप्रतियोगिना डोणाल्ड् ट्रम्पेन २३२ मतदानानि च प्राप्तानि। अलीकनिर्वाचनमारोप्य ट्रम्पेण उन्नीतानां वितर्काणामपि विराम अभवत्। 'जनाधिपत्यस्य विजय'मिति प्रतिनिधिसभानिर्वाचनं बैडनेन विशिष्टम्।
Tuesday, December 15, 2020
कृषकप्रक्षोभः तीव्रायते।
नेतारः अनशनमनुष्ठितवन्तः।
सीमाः उपरुद्धाः।
नवदिल्ली> दिल्लीसीम्नि वर्तिते आन्दोलनकेन्द्रे निराहारमनुष्ठीय, जिल्लाशासनकेन्द्राणि उपरुध्य च कृषकाः स्वकीयान्दोलनं तीव्रं कुर्वन्ति। आन्दोलनस्य १९ तमे दिने - सोमवासरे- राष्ट्रराजधान्याः चतस्रः सीमाः , दिल्ली-जयपुरराजमार्गः , आग्रा-दिल्ली अतिवेगमार्गः इत्यादयः पञ्च प्रमुखाः राजमार्गाः कृषकाणाम् उपरोधेन निश्चलाः जाताः।
प्रक्षोभम् इतःपरं कठिनीकर्तुं उत्तरप्रदेशः, राजस्थानं, पञ्चाबः, हरियाणा, उत्तराखण्डः इत्यादिभ्यः राज्येभ्यः असंख्याः कृषकाः दिल्लीं प्राप्नुवन्तीति कृषकसंघटननैतारः उक्तवन्तः।
जिद्दायाम् इन्धनयुतमहानौकायां स्फोटनं - भीकराक्रमणमिति सौदी।
जिद्दा> सौदि अरेबिया राष्ट्रे जिद्दा महानौकानिलये इन्धनपूरेणायां महानौकायां सोमवासरे महत्स्फोटनमभवत्। भीकराक्रमणमेव प्रचलितमिति सौदी अरेबियायाः ऊर्जमन्त्रालयेन निगदितम्। स्फोटकवस्तुपूरितं नौकायानमुपयुज्य आक्रमणं कृतम्। यस्यकस्यापि प्राणहानिः व्रणः वा नाभवदिति सूच्यते।
इन्धनावतारणाय महानौकायां यथास्थानं सज्जीकृतायां भीकराक्रमणमभवत्। झटित्येव अग्निशमन-सुरक्षासेनयोः नेतृत्वे अग्निशमनप्रक्रियाः समारब्धाः इति ऊर्जमन्त्रालयेन निगदितम्।
Monday, December 14, 2020
केरले कोविड्वाक्सिनं मूल्यं विना दास्यति।
कण्णूर्> केरलाराज्ये जनानां कृते कोविड्वाक्सिनं निर्मूल्यतया दास्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। यस्मात्कस्मादपि मूल्यं स्वीकर्तुं नोद्दिश्यते।
वाक्सिनवितरणाय राज्यं सज्जमभवत्। प्रथमस्तरे स्वास्थ्यप्रवर्तकेभ्यः दातुं प्रयतिष्यते। सर्वेषां स्वास्थ्यप्रवर्तकानां वृत्तान्ताः सम्गृह्यमाणाः सन्ति।
द्वितीयस्तरे तीव्रविपज्जनानां [High risk] कृते दातुमुद्दिश्यते। अपेक्षितानि वाक्सिनानि संरक्षितुं शीतीकृतसंभरणव्यवस्थां सज्जीकर्तुं निर्देशः कृतः।
पूणेस्थायां सिरम् इन्स्टिट्यूट् संस्थायां निर्मीयमाणम् 'ओक्स्फड् वाक्सिन'मेव वितरणाय प्राप्स्यते इति सूच्यते। ५०० - १००० रूप्यकाणि व्ययं प्रतीक्षते। तदेव निर्मूल्यतया दास्यति।
यू एस् मध्ये कोविड्संक्रमणमतितीव्रम् - बाधिताः १.६ कोटि अतीताः।
वाषिङ्टण्> यू एस् राष्ट्रे अधुनापि कोविड्महामार्याः संक्रमणम् अतितीव्रतया अनुवर्तते। अद्यावधि रोगबाधितानां संख्या १.६कोटिम् अतीता। जोण्स् होप्किन्स् विश्वविद्यालयेनैव नूतनः वृत्तान्तः बहिर्नीतः। ३० लक्षाधिकसंख्यया भारतं ब्रसीलश्च समीपं वर्तेते। आविश्वम् अद्यावधि ७.१कोटिपरिमितेषु जनेषु कोविड्संक्रमणमभवदिति निर्णीतम्।
केरले त्रितलपञ्चायत्तनिर्वाचनस्य अद्य परिसमाप्तिः।
कोच्ची> केरलराज्ये सम्पद्यमानस्य पञ्चायत्तनिर्वाचनस्य तृतीयम् अन्तिमञ्च चरणमद्य समाप्तिमेति। राज्यस्य चतुर्षूत्तरजनपदेषु अद्य सप्तवादनादारभ्य मतदानप्रक्रिया विधास्यति।
गतचरणद्वये अपि मतदानप्रक्रिया शान्तियुक्ता सम्पन्ना। कोविड्नियमान् अनुशील्य सम्पन्ने निर्वाचने ७८ प्रतिशतं जनाः स्वाधिकारं प्रयुक्तवन्तः। निर्वाचनफलन्तु १६ तमे दिनाङ्के ज्ञातुं शक्यते।
Sunday, December 13, 2020
रोजगारयोजना - कर्मकराणां इ पि एफ् अंशं पूरयितुं २२८१० कोटि दीयते।
नवदिल्ली> केन्द्रसर्वकारेण नूतनतया अवतारितायां कर्मयोजनायां आर्थिक-साहाय्यप्रदानाय २२८१० कोटि रूप्यकाणि प्रदातुं निश्चिता अस्ति इति मन्त्रिण्या निर्मलासीतारामेण उक्तम्। आत्मनिर्भरभारत- रोजगार योजनायाम् एव समाश्वासः लभते। बुधवासरे मेलिते मन्त्रिसभोपवेशने अंशदानाय निर्णीतः। इ पि ए फ् ओ मध्ये पञ्चीकृतासु संस्थासु नूतनतया कर्मलब्धानां कर्मकराणं इ पि एफ् अंशः वर्षद्वयं यावत् सर्वकारः पूरयिष्यति। २०२०ओक्टोबर् मासतः २०२१ जूण् ३० दिनाङ्कपर्यन्तं नूतनतया कर्मसु नियुक्तानां कृते सहाय्यं विधास्यति। कोविड् रोगकाले कर्मविनष्टेभ्यः तेषां पुनर्नियुक्तिः अपि नूतनत्वेन परिगण्य आनुकूल्यं लप्स्यते। कोविड्काल समस्या-परिहाराय सर्वकारेण अयोजिता नूतना योजना भवति इयम्।
केरले कोविड्वाक्सिनं मूल्यं विना दास्यति।
कण्णूर्> केरलाराज्ये जनानां कृते कोविड्वाक्सिनं निर्मूल्यतया दास्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। यस्मात्कस्मादपि मूल्यं स्वीकर्तुं नोद्दिश्यते।
वाक्सिनवितरणाय राज्यं सज्जमभवत्। प्रथमस्तरे स्वास्थ्यप्रवर्तकेभ्यः दातुं प्रयतिष्यते। सर्वेषां स्वास्थ्यप्रवर्तकानां वृत्तान्ताः सम्गृह्यमाणाः सन्ति।
द्वितीयस्तरे तीव्रविपज्जनकानां [High risk] कृते दातुमुद्दिश्यते। अपनेक्षितानि वाक्सिनानि संरक्षितुं शीतीकृतसंभरणव्यवस्थां सज्जीकर्तुं निर्देशः कृतः।
पूणेस्थायां सिरम् इन्स्टिट्यूट् संस्थायां निर्मीयमाणम् 'ओक्स्फड् वाक्सिन'मेव वितरणाय प्राप्स्यते इति सूच्यते। ५०० - १००० रूप्यकाणि व्ययं प्रतीक्षते। तदेव निर्मूल्यतया दास्यति।
Saturday, December 12, 2020
विश्वविख्यातः चलच्चित्रकारः किं कि डुकः दिवंगतः।
लात्विया> ऋतुभेदानां दर्शनसौन्दर्येण मानवजीवितं चलच्चित्रद्वारा आविष्कृतवान् दक्षिणकोरियीयः निदेशकः किं कि डुकः नामकः ह्यः कोविड्रोगबाधया मृतः।५९ वयस्कः सः लात्वियास्थे आतुरालये चिकित्सायामासीत्।
Spring Summer Fall Winter and Spring नामकं चलनचित्रं तस्य अन्ताराष्टप्रशस्तिं संवर्धयति स्म। Samaritan Girl, Three Iron, Arirang, ब्रत्, पियाषे इत्यादीनां २३ चलच्चित्राणां निदेशक आसीत् किं कि डुकः
Friday, December 11, 2020
हरियाणराज्ये विद्यालयाः डिसंबर् मासस्य १४ दिनाङ्के उद्घाटयिष्यति।
Thursday, December 10, 2020
चीनं विहाय अन्यान् पठितुम् इच्छानि ? भारतं पश्यतु। भारतं प्रशंस्य बिल्गेट्स् महोदयः।
Wednesday, December 9, 2020
एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ इति पुनर्निर्णीता।
Tuesday, December 8, 2020
केरले पञ्चायत्तुनिर्वाचनस्य प्रथमचरणमद्य।
अनन्तपुरी> केरलराज्ये त्रितलपञ्चायत्त् शासनसमित्यर्थं सामान्यनिर्वाचनम् अद्य समारभते। १४ जनपदेषु चरणत्रितयेनैव निर्वाचनं विधत्ते। तत्र प्रथमसोपाने तिरुवनन्तपुरं, कोल्लम, आलप्पुष़ा, पत्तनंतिट्टा, इटुक्की जनपदेषु अद्य निर्वाचनं विधास्यति।
कोविड्मानदण्डान् परिपाल्य मतदानं समर्पयितुं सर्वाणि सज्जीकरणानि विहितानि। प्रभाते सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं भविष्यति। कोविड्बाधितानामपि मतदानं कर्तुं व्यवस्था कल्पिता अस्ति।
Monday, December 7, 2020
जनाः मूर्च्छिताः। अज्ञातरोगः व्याप्यते।
Sunday, December 6, 2020
कोविड् वैराणुव्यापनं समापनकालं याति। WHO अध्यक्षः।
कृषकान्दोलनं कठिनतया अग्रे चरति; पञ्चमवारचर्चा अपि निष्फला।
नवदिल्ली> राष्ट्रराजधानिसीमाः स्तम्भयन् दशसहस्रमितैः कृषकैः सञ्चाल्यमाणं सप्ताहात् परमपि अनुवर्तमानं कृषकसंग्रामं समापयितुं सर्वकारेणायोजितः पञ्चमवारचर्चा अपि पराजिता। कर्षकद्रोहकरं विधेयकं प्रतिनिवर्तितव्यमिति निवेदने कार्षिकसंघटनासु स्थिरीभूतासु चर्चा निष्फला अभवत्।
प्रधानमन्त्री नरेन्द्रमोदी अपि समालोचनायाः कस्मिंश्चिदवसरे मन्त्रिभिः सह चर्चां कृतवानासीत्। प्रधानमन्त्रिणः पदक्षेपः कृषकसंघैः स्वागतीकृतः अपि तस्य निर्देशाः निराकृताः। आलम्बमूल्यनिर्णये स्पष्टतां करिष्यति, विधायकसम्बद्धाः कृषकाणामाशङ्काः परिहरिष्यन्तीति मन्त्रिमण्डलेन स्पष्टीकृतं तथापि विधायकानि उपसंहरिष्यन्ति वा न वा इत्येकस्मिन् प्रश्ने कृषकसंघाः स्थिरीभूताः।
शनिवासरे अपि चर्चा अनुवर्तते इति सर्वकारेणोक्तम्। तथा च मङ्गलवासरे आराष्ट्रं कर्षकबन्द् नामकमान्दोलनं संयोजयितुं निश्चितम्। अधिकेभ्यः राज्येभ्यः अपि कृषकाः दिल्लीं प्राप्तुमारब्धाः च।
Saturday, December 5, 2020
कोविड्वाक्सिनं अचिरादेव लप्स्यते - प्रधानमन्त्री।
नवदिल्ली> कोविड् - १९ विरुध्य प्रत्यौषधं [वाक्सिनं] कतिपयसप्ताहाभ्यन्तरे भारतेषु अनधिकमूल्येन वितरणाय सज्जं भविष्यतीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। कोविड्प्रतिरोधं तथा वाक्सिनवितरणं चाधिकृत्य सर्वदलसम्मेलने भाषमाणः आसीत् सः।
प्रत्यौषधस्य शीतीकृत सुरक्षायै ८५,६३४ उपकरणानि, तदर्थं २८,९४७ स्थानानि च सज्जानि। प्रथमचरणे आराष्ट्रं २.३९ लक्षं जनानां कृते सूचीप्रयोगः करिष्यते। एषु १.५४ लक्षं कोविड्भटाः भविष्यन्ति।
रजनीकान्तः जनवरिमासे राजनैतिकदलं रूपीकरिष्यति।
चेन्नै> राजनैतिकप्रवेशमधिकृत्य अभ्यूहानां विरामं कुर्वन् दक्षिणभारतस्य अतुल्यनटः रजनीकान्तः। जनुवरिमासे स्वकीयं राजनैतिकदलं रूपीकृत्य तमिल्नाट् राज्यस्य विधानसभानिर्वाचने स्पर्धिष्यते इति सः गतदिने पत्रकारसम्मेलनद्वारा निगदितवान्। सुतार्यं भ्रष्टाचारहीनं धर्मनिरपेक्षं च आत्मीयराजनैतिकस्य याथार्थ्यमेव दलरूपीकरणस्य लक्ष्यमिति तेनोक्तम्।
संवत्सरत्रयात्पूर्वमेव स्वकीयं दलं रूपीकृत्य समाजसेवां करिष्यामीति प्रख्यपितमासीत्। गतमेय्मासे प्रख्यापनाय सज्जः आसीच्च। किन्तु कोविड्कारणेन विघातो जातः। प्रख्यपनानन्तरं तमिल्नाटे रजनीकान्तस्य आराधकाः उत्साहप्रकर्षमनुभवन्ति।
Friday, December 4, 2020
कोविड् प्रतिरोधौषधं प्रथमं स्वास्थ्यप्रवर्तकेभ्यः लभते।
नवदिल्ली> राष्ट्रे कोविड् प्रतिरोधौषधं प्रथमं सर्वकार-निजीय-मण्डलयोः स्वास्थ्यप्रवर्तकेभ्यः लभते। कोटिमिताः स्वास्थ्यप्रवर्तकाः सन्ति भारते। द्वितीय श्रेण्यां कोविड् प्रतिरोध-प्रवर्तनरतेभ्यः सामान्य-जनेभ्यः औषधं लप्स्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये आयोज्यमाने सर्वदलोपवेशने स्वास्थ्यमन्त्रालयेन इदम् आवेदितम्। कतिपय-वाराभ्यन्तरे प्रतिरोधौषधं वितरणाय सज्जं भविष्यति इति प्रधानमन्त्रिणा उक्तम्। औषधस्य मूल्यम् अधिकृत्य राज्यसर्वकारयोः मिथः चर्चा प्रचलति इत्यपि सर्वदलमेलने प्रधान मन्त्रिणा उक्तम्।










