केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीय संवत्सरीयोपवेशनं समारब्धम्।
OUR YouTube Channel 1. SampratiVartah |
marquee
Friday, March 11, 2022
विधानसभानिर्वाचनानि - पञ्चसु चतुर्षु भाजपादलाय प्रशासनाधिकारः , एकस्मिन् 'आप्'दलाय।
नवदिल्ली> फेब्रुवरि १० तमादारभ्य मार्च् ७तमदिनाङ्कपर्यन्तं दीर्घितानां विधानसभानिर्वाचनानां फले समागते भा ज पा दलस्य उज्वलविजयः। उत्तरप्रदेशः, उत्तरखण्डः, मणिप्पुरं, गोवा इत्येतेषु राज्येषु भा ज पा दलेन प्रशासनपदं प्राप्तम्। पञ्चाबराज्ये तु इदंप्रथमतया अरविन्द केज्रिवालस्य आम् आद्मी पार्टी [आप्] इत्यनेन प्रशासनपदमारोहितम्।
उत्तरप्रदेशे योगि आदित्यनाथस्य शासनानुवर्तनं भवति। आहत्य ४०३ स्थानेषु २७३ स्थानेषु विजयीभूय एव भाजपादलं द्वितीयवारं राज्याधिकारं जग्राह। उत्तराखण्डे सप्ततिषु ४७ पदानि भाजपादलेन प्राप्तानि। मणिप्पुरे ६० स्थानेषु ३२ स्थानानि सम्प्राप्य भाजपादलेन शासनं पुनः दृढीकृतम्। गोवायां तु ४० तः २० स्थानानि प्राप्तानि। स्वतन्त्रसदस्यानां साहाय्येन तत्र प्रशासनानुवर्तनं करिष्यतीति निश्चितम्।
पञ्चाबे तु प्रशासनपदमुपस्थितं कोण्ग्रस् दलम् उन्मूलनं कृत्वा एव अरविन्द केज्रिवालस्य नेतृत्वे विद्यमानं आप् दलं प्रप्रथमतया शासनाधिकारं प्राप। तत्र मुख्यमन्त्रिपदे भगवन्त् मनु वर्यः भविष्यति।
Wednesday, March 9, 2022
युक्तैनतः पलायितानां संख्या २० लक्षम् ।
Tuesday, March 8, 2022
युक्रैन् - रष्ययोः मिथः तृतीयतल शान्तिचर्चा बेलारूसे समारब्धा।
कीव्> युक्रैने रष्यस्य आक्रमणम् अनुवर्तिते अस्मिन् सन्दर्भे उभयोः राष्ट्रयो: मिथ: तीयतलशान्तिचर्चा बेलारूसे समारब्धा। रष्यस्य महासंघेन सह अद्य समारप्स्यमाणे सति, चर्चार्थं आयोजिते प्रतिनिधिसंघे परिवर्तनानि नास्ति इति युक्रैनस्य राष्ट्रपतिना व्लादिमिर् सेलन्स्किवर्यस्य उपदेशकेन मिखायिलो पोडोलियाकेन ट्वीट्ट् कृतम्। अनस्यूतं द्वादशतमदिने परस्परं युद्धम् अनुवर्तमाने सन्दर्भे एव इयं चर्चा प्रचलति।
Monday, March 7, 2022
युक्रैन् - द्वितीयं युद्धरोधनमपि निष्फलम्।
कीव्> युक्रैने रविवासरे प्रख्यापितं युद्धरोधनमपि निष्फलं जातम्। रूससमयमनुसृत्य प्रभाते १० वादनतः रात्रौ ९ वादनपर्यन्तमासीत् मरियुपोल्, वोल्नोवाखः इत्येतयोः प्रदेशयोः युद्धविरामः प्रख्यापितः। किन्तु तत्रापि रूसेन अग्निशस्त्राक्रमणमनुवर्तितम्। तदा जनानामपसारणं स्थगितमिति युक्रेनसर्वकारेण निगदितम्।
द्विलक्षाधिकं जनाः मरियुपोले निबद्धाः सन्ति। शनिवासरेSपि अपसारणं नाभवत्।
Sunday, March 6, 2022
हैदरलि तङ्ङल् दिवंगतः।
केरले मुस्लिंलीग् नामकस्य राजनैतिकदलस्य राज्याध्यक्षः पाणक्काट् हैदरलि शिहाब् तङ्ङल् वर्यः अद्य मध्याह्ने दिवंगतः। अर्बुदरोगबाधितः सः अङ्कमाल्यां कस्मिन्नपि निजीयातुरालये परिचर्यायां आसीत्। यू डि एफ् इति केरलस्य विपक्षदलसंघस्य नेतृषु प्रमुखः अयं मुस्लिमलीगस्य उन्नताधिकारसमित्यङ्गः राजनैतिककार्यसमित्याः अध्यक्षश्चासीत्।
सर्वदा धर्ममैत्र्यर्थं प्रवर्तमानः हैदरलिमहोदयः सर्वस्वीकार्यः आसीत्। मुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, भूतपूर्वमुख्यमन्त्रिणौ ए के आन्टणि, उम्मन् चाण्टिः कोण्ग्रस् दलस्य देशीयाध्यक्षा सोणियागान्धी ,राहुलगान्धी इत्यादयः बहवः राजनैतिकदलनेतारः तस्य निर्याणे श्रद्धाञ्जलिं प्रकाशितवन्तः। तस्य मृतदेहसंस्कारः प्रभाते ९ वादने पाणक्काटस्थे जुमा मस्जिदाराधनालये खबर्स्थाने विधत्तः।
Saturday, March 5, 2022
षेन् वोण् निर्यातः।
बाङ्कोक्> क्रिकट् इतिहासः इति विख्यातः आस्त्रिलियायाः 'स्पिन्' ऐन्द्रजालिकः षेन् वोण् [५२] शुक्रवासरे दिवंगतः। ताय्लान्ट् मध्ये हो समूयि प्रदेशस्थे स्वभवने मृतरूपेण दृष्ट आसीत्। हृदयस्तम्भनमेव कारणमिति प्राथमिकनिर्णयः।
क्रिक्कट् मण्डले सम्भूतेषु वरिष्ठतमेषु क्रीडकेषु अन्यतम षेन् वोणः निकषस्पर्धायां अधिकतमविक्कट् लब्धेषु द्वितीयस्थानमर्हति। १५ संवत्सराणां दीर्घिते तस्य क्रीडाजीवने ७०८ द्वारकाः [Wickets]तेन लब्धाः।
मणिप्पुरे द्वितीयचरणमतदानम् अद्य।
इम्फाल्> मणिप्पुरराज्यस्य विधानसभानिर्वाचनस्य द्वितीयचरणम् अद्य सम्पद्यते। ६ जनपदानां २२ मण्डलेषु द्वे महिले समेत्य ९२ स्थानाशिनः स्पर्धन्ते। ८.३ लक्षं मतदायकाः सन्ति।
भूूतपूर्वमुख्यमन्त्री तथा च वरिष्ठः कोण्ग्रस् नेता ओक्रम् इबोबी सिंहः, भूूतपूर्वः उपमुख्यमन्त्री गय्खान गामः, इदानीन्तनमन्त्रिणौ लेप्टावो हावोकिप्, लोसि डिखो इत्यादयः प्रतिद्वन्दिषु प्रमुखाः सन्ति।
Friday, March 4, 2022
चर्चा अनुवर्तते; युद्धं च।
कीव्> रूस-युक्रैनयोः युद्धे साप्ताहिके अतीते युद्धरोधनाय उभयोः राष्ट्रयोः द्वितीयचरणचर्चा समारब्धा। बलारस् राष्ट्रस्य ब्रस्ट् मण्डलस्थथे पुष्चा नामक स्थाने एव चर्चावेदिका।
किन्तु प्रतिद्वन्द्वे लाघवं न भविष्यतीति रूसस्य राष्ट्रपतिः व्लादिमिर् पुतिनेन निगदितम्। सैनिकसाहाय्यं न लभते चेत् युक्रैनस्य पतनमासन्नमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किना उक्तम्। रूसस्य ४९८ स्वकीयाः सैनिकाः आहवे मृता इति रूसेन दृढीकृतम्। १६०० भटाः व्रणिताः, २८९० युक्रेनीयसैनिकान् अमारयदिति च रूसस्य वक्ता अवदत्।
Thursday, March 3, 2022
मिसैल् पक्षी - वेगः ३०० कि.मि - षहीन् फालकन् रामक्कल्मेड् प्रदेशे।
रामक्कल्मेड्> विश्वस्मिन् अतिवेगेन डयमानः षहील् फाल्कन् नामकः पक्षी रामक्कल्मेट् प्रदेशे समागतः। होरायां ३०० कि.मि भवति अस्य वेगः। केरल-तमिल्नाट् सीमनि विद्यमाने रामकल्मेट् प्रदेशस्य पर्वतेषु अयं प्रत्यभिज्ञातः। मिसैल् पक्षी इत्यपि अस्य नामान्तरमस्ति। आकाशे डयमानवेलायामपि अन्यान् जन्तून् सङ्ग्रहीतुं समर्थः भवति एषः। साधारणतया एष्याभूखण्डे एव एनम् अधिकतया द्रष्टुं शक्यते।
Wednesday, March 2, 2022
रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलमभवत्।
युक्रैने अधिनिवेशस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भञ्जितमभवत्। घटनायाः अस्याः चलनचित्रखण्डदृश्यं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम् ।
अन्ताराष्ट्रिय-मनुष्याधिकारनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।
कोविडस्य चतुर्थतरङ्गः जूण्मासे इत्यनुशीलनफलम्।
नवदिल्ली> भारते जूण् मासादारभ्य कोविड्महामार्याः चतुर्थः तरङ्गः भविष्यतीति काण्पूरस्थायाः ऐ ऐ टि संस्थायाः अनुशीलनफलम्। तेषामावेदनमनुसृत्य ओक्टोबर् मासपर्यन्तं चतुर्थतरङ्गस्य कालः भवेत्।
वाक्सिनस्य लभ्यतां विषाणुप्रभेदस्य स्वभावं चानुसृत्य रोगतीव्रता कियतीति वक्तुं शक्येत। विविधानि राष्ट्राणि एतदाभ्यन्तरे चतुर्थतरङ्गस्य प्रभावमनुभवन्ति स्म।
युक्रैने कवचितस्फोटकाक्रमणेन भारतीयविद्यार्थी निहतः।
कीव्> युक्रेने कवचितस्फोटकाक्रमणेन (shell attack) भारतीयविद्यार्थी निहतः। कर्णाटकादेशीयः नवीन् एस् जि एव हतः। मरणवृत्तान्तः विदेशकार्यमन्त्रालयेन स्पष्टीकृतः च अस्ति। अद्य प्रभाते एव बार्कीवे आक्रमणं आपन्नम्। बार्किव् वैद्यकीयविश्वविद्यालये चतुर्थसंवत्सरीयः वैद्यकीयछात्रः आसीत् नवीनः। युक्रैन् सेनया निर्दिष्टे समये भक्ष्यवस्तूनि क्रेतुं पङ्क्त्यां स्थितः आसीत्। तस्मिन्नवसरे एव आक्रमणं समजनि इति प्रतिवेदनानि सन्ति।
Tuesday, March 1, 2022
रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलः अभवत्।
युक्रैने अधिनिवेशप्रयत्नस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भग्नमभवत्। दुर्धघटनायाः अस्याः दृश्यखण्डं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम्। अन्ताराष्ट्रिय-मानविक-व्यक्तिनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।
रूस - युक्रेणचर्चा अनुवर्तिष्यते - आविश्वम् आकांक्षायाम्।
गोमिल्> पञ्चदिनात्मकं यावत् अनुवर्तमानं युद्धं समापयितुं रूस - युक्रेणयोः मिथः संवृत्तायां चर्चायां अनन्तरचर्चां कर्तुं निर्णयोSभवत्। प्रकरणपरिहाराय काश्चन रूपरेखाः कृताः, तासां प्रवृत्तिपथप्राप्त्यर्थं पुनरपि चर्चाः भविष्यन्तीति युक्रेनस्य राष्ट्रपतेः व्लादिमिर् सेलन्स्कीवर्यस्य उपदेष्टा उक्तवान्।
प्रातिवेशिकराष्ट्रस्य बलूरसस्य सीमाप्रान्ते विद्यमानायाः प्रिप्यात् नद्याः तीरे आसीत् चर्चावेदिका। प्रथमा चर्चा ५ होरापर्यन्तं दीर्घिता।
भारतीयानां प्रतिनिवर्तनं - चत्वारः केन्द्रमन्त्रिणः यूक्रेनसीमासु।
नवदिल्ली> युक्रेनात् भारतीयान् प्रतिनिवर्तयितुमुद्दिष्टानां प्रवर्तनानां नेतृत्वं वोढुं चत्वारः केन्द्रमन्त्रिणः प्रधानमन्त्रिणा नरेन्द्रमोदिना नियुक्ताः। जनरल् वि के सिंहः, ज्योतिरादित्य सिन्ध्यः, हरदीपसिंहपुरी, किरण रिरिजुः इत्येते मन्त्रिणः 'ओपरेषन् गङ्गा' इति कृतनामधेयस्य रक्षादौत्यस्य प्रतिनिधिरूपेण युक्रेनेन सह सीमान्ते विद्यमानानि पञ्चराष्ट्राणि गन्तुं नियुक्ताः।
प्रवर्तनानां संयोजनं, एतदर्थं प्रादेशिकशासनैः सह चर्चा, केन्द्रसर्वकारेण सह सम्बन्ध्य प्रक्रियाः शीघ्रं कारयेयुः इत्येते अधिकाराः तेषु निक्षिप्ताः सन्ति।
८००० भारतीयाः एतदाभ्यन्तरे प्रतिनिवृत्ताः इति विदेशकार्यवक्ता अरिन्दं बाग्चीवर्यः अवोचत्। युक्रैने १२,००० भारतीयाः अपि अवशिष्यन्ते, तानपि स्वदेशमानेतुं सर्वकारः प्रतिज्ञाबद्ध इति तेनोक्तम्।
Monday, February 28, 2022
रष्येण युद्धं तीव्रं कृतम्। वातकनालिकाश्रृङ्खला भग्नायिता। धूमः व्याप्स्यति। खार्किविले जाग्रतानिर्देशः।
कीव्> रष्यस्य अग्निबाणप्रहरेण युक्रैने खार्किवि देशे वातकनालिकाश्रृङ्गला भग्नायिता। रविवासरे प्रातःकाले आसीत् युक्रैन् राष्ट्रे द्वितीयं वृहत्तमं नगरं इति ख्याते खार्किविदेशस्थस्य वातकनालिका-श्रृङ्खलायाः उपरि आक्रमणम् इति युक्रैन् राष्ट्रपतेः कार्यालयात् आवेदितम्। स्फोटनानन्तरं प्रदेशं सर्वत्र व्याप्तः धूमः पारिस्थितिकदुरन्तस्य कारणं भवेत् इति अधिकारिभिः पूर्वसूचना दत्ता।
युक्रैनात् ६७० भारतीयाः प्रतिनिवृत्ताः।
नवदिल्ली> आकाङ्क्षायाः आशङ्कायाश्च होराः अतीत्य युक्रैनात् ६७० भारतीयाः स्वदेशम् आनीतवन्तः। हंगरी, रुमानिया देशाभ्यां त्रीणि विमानानि रविवासरे दिल्लीं प्राप्तानि। सर्वे यात्रिकाः युक्रैने चिकित्साशास्त्रछात्राः सन्ति। उत्तरप्रदेशः, हरियानं, केरलं, तेलुङ्कानम् इत्यादिभ्यः विविधेभ्यः राज्येभ्यः अध्येतारः एव ह्यः आगतवन्तः।
Sunday, February 27, 2022
युक्रैने युद्धः तीव्रः - आत्मसमर्पणविमुखतया राजधानी ।
कीव्> दिनत्रयं यावत् युक्रैने रूसेन अनुवर्तमानः युद्धः तीव्रः अभवत्। रूससेनया कृते अग्निक्षेपण्याक्रमणे बहूनि भवनयूथानि विशीर्णानि। १९८ नागरिकाः हताः। ३३ बालकान् समेत्य १,११५ जनाः व्रणिताः।
कीव् नामिकां राजनगरीम् अभिभावयितुं रष्येण यावच्छक्यं प्रायतत तथापि स्वयं र ष्याधिपत्यम् अङ्गीकर्तुं युक्रैनः इतः एतावत्पर्यन्तं न सन्नद्धः भवति। ते यावच्छक्यं प्रतिरोधं कुर्वन्ति।
जनाः गुप्तिषु ('बङ्कर्') अन्तर्भौमस्थानेषु अभयं प्राप्ताः सन्ति। किन्तु कीव् नगरात् सपादलक्षं जनाः पलायिताः इति वार्ताहरैः सूचितम्।
उत्तरप्रदेशे अद्य पञ्चमचरणं निर्वाचनम्।
लख्नौ> उत्तरप्रदेशे विधानसभानिर्वाचनस्य पञ्चमसोपानम् आरब्धम्। १२ जनपदानां ६१ विधानसभा स्थानेभ्यः ६९२ स्थानाशिनः स्पर्धन्ते। २. २४ मतदायकाः सन्ति।
कौशाम्बी जनपदस्थे सिरात्तुमण्डले उपमुख्यमन्त्री केशवप्रसादमौर्यः, अलहबादे सिद्धार्थनाथसिंहः, प्रतापगढे राजेन्द्रसिंहः, मङ्कापुरे रमापतिशास्त्री इत्येते चरणेSस्मिन् जनहिताकांक्षिणः प्रमुखाः भवन्ति।
परं सोपानद्वयमवशिष्यते। तत् मार्च् ३, ७ दिनाङ्कयोः विधास्यति।
Saturday, February 26, 2022
युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान् अपलपितुं प्रकाशितं यु एन् अभिमतपत्रं रष्येण निरोधाधिकारेण निराकृतम्। भारतं चीनः च अभिमतपत्रस्य प्रकाशनात् निस्सङ्गतया प्रतिनिवृत्तौ।
युनैट्टड् नेषन्स्> युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान् अपलपितुं तथा युद्धस्थगनं प्रवर्तयितुं यु एन् रक्षासमित्यां प्रकाशितम् अभिमतपत्रं रष्येण निरोधाधिकारेण (veto) निराकृतम्। भारतेन चीनेन च निसङ्गता अवलम्बिता। युक्रैन् राष्ट्रस्य आक्रमणान् शक्तियुक्तम् अपलपितुं तथा रष्यस्य सेनाम् आपत्कालीनतया प्रतिनिवर्तयितुं च आह्वानमेव अभिमतपत्रे उद्घोषितम्।
वर्षासमेतं करकवर्षः। नवदिल्ल्यां जनमनासु कौतुकमावहत् मनोहरदृश्यम्।
नवदिल्ली> दिल्लीनगरे सर्वत्र वर्षासमेतं करकपातः कौतुकमजनयत्। शुक्रवासरे रात्रौ एव नगरे सर्वत्र अतिवृष्ट्या सह बृहद्रूपेण करकपातः अपि सञ्जातः। वातावरणमन्त्रालयस्य प्रतिवेदनमनुसृत्य नवदिल्ल्यां शुक्रवासरे उन्नततापमानम्२७.९°c आसीत्। न्यूनतापमानं१२.५°c इति रेखाङ्कितम्।
संयुक्तराष्ट्रसभायां भारतस्य आश्रयं प्रतीक्षते इति रष्यः। सैनिकप्रक्रमाः चीनेन अनुकूलिताः।
युक्रैन्> रष्यस्य सैनिकप्रक्रमेषु संयुक्तराष्ट्रसभायां निर्णायकम् अभिमतपत्रम् अवतारयितुम् भारतेन सन्नद्धे सति रक्षासमित्यां भारतस्य सहकारित्वं प्रतिक्षते इति रष्येण निगदितम्। युक्रैने अधुनातनासु अवस्थासु नीतान् कारणान् अधिकृत्य भारतस्य अतिदृढा धारणा अस्ति तथा राष्ट्रद्वयोः मध्ये प्रत्येकं नयतन्त्रपरं बन्धं पुरस्कृत्य भारतस्य पूर्णसहकारित्वं प्रतीक्षते इति रष्यस्य प्रतिनिधिस्थाने वर्तमानेन रोमन् बाबुष्कीनेन प्रोक्तम्।
Thursday, February 24, 2022
युक्रैने रूसस्य आक्रमणमारब्धम्; शताधिकाः हताः।
गुरुवासरस्य प्रभाते एव युद्धः आरब्धः। इतःपर्यन्तं शताधिकाः जनाः हताः। तेषु ४० युक्रेनसैनिकाः उपविंशति नागरिकाश्च अन्तर्भवन्ति। ५० रूस् सैनिकाः अपि व्यापादिताः इति युक्रनेन च निगदितम्। २०३ आक्रमणानि स्वेन कृतानीति रूसेन निगदितम्।