OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 28, 2022

 'कोमण् वेल्त्' कायिकक्रीडास्पर्धाः अद्य आरभन्ते।

पतकशतकमालक्ष्य भारतम्। 

बर्मिङ्हाम्> २२ तमः 'कोमण् वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धाः अद्य यू के राष्ट्रे बर्मिङ्हामनगरे आरभन्ते।  ११ दिवसकालीनायम् अस्यां क्रीडास्पर्धायां ७२ राष्ट्रेभ्यः पञ्चसहस्रं कायिकक्रीडकाः भागं करिष्यन्ति। २८० संख्याकाः पतकाधिकरणाः सन्ति। 

   एषु प्रतिद्वन्द्वेषु १०० पतकानि भारतेन लक्ष्यीक्रियन्ते। २१५ क्रीडकाः भारतं प्रतिनिधीभूय स्पर्धिष्यन्ति। पिच्छकन्दुक-भारोद्वहन-मल्लयुद्धादिषु स्पर्धासु भारताय सुवर्णप्रतीक्षा अस्ति।

Wednesday, July 27, 2022

आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।


तिरुवनन्तपुरम्> 'पीच्ची' वन्यजीविनिकेतात् सूचीप्राचिकायाः नूतनविभेदः संदृष्टः। छायाप्राचिकाविभागे अन्तर्गता 'आनमला छायाप्राचिका' (Protosticta anamalaica) नाम नूतनप्राणिरेव शलभ-पक्षी- प्राचिकासर्वेक्षणमध्ये संदृष्टः। वन्यजीवि निकेतात् १००० मीटर् उपरि समुद्रतलात् उन्नतप्रदेशेषु एव एषा संदृश्यते।

Tuesday, July 26, 2022

 रोगः वर्धते । वानरज्वरः आविश्वसांक्रमिकव्याधिः इति ख्यापयित्वा विश्वस्वास्थ्यसंस्था।

जनीव> वानरज्वरः आविश्वसांक्रमिकव्याधिः इति विश्वस्वास्थ्यसंस्थया ख्यापितः। व्याधिरयं सर्वराष्ट्रेषु अपि बाधिते सन्दर्भे एव प्रक्रमोऽयम्। विश्वस्वास्थ्यसंस्थया आयोजिते आपत्कालीनमेलने एव निर्णयोऽयम् स्वीकृतः। वानरज्वरः आपत्कालीन - आविश्व - सामान्यजनस्वास्थ्य - आशङ्का भवति इति विश्वस्वास्थ्यसंस्थया प्रकाशिते वार्ताटिप्पण्यौ विशदयति ।

कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः विषादः च व्याप्यते।

कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः मानसिकरोगसमस्याः च वर्धन्ते इति भिषग्वराः। कोविड्रोगः बहुवारं बाधितेषु मानसिकसम्मर्दः, स्मृतिभ्रंशः, विषादः च वर्धन्ते इति भिषावराः सूचयन्ति। कोविड्रोग: रक्तनालिकायां स्वाभाविकरक्तप्रवाहस्य विघ्नकारणं भवति। बहुवारं कोविड्रोगः बाधते चेत् तत् मस्तिष्के स्वाभाविकरक्ततप्रवाहान् बाधते। न्यूनरक्तप्रवाहस्य मुख्यलक्षणानि भवन्ति स्मृतिभ्रंशः विषादः, अत्युत्कण्ठा, निद्राभङ्गः, उन्मेषनाशः च।

 राष्ट्रपतिः द्रौपदी मुर्मू महाभागायाः जीवितचरित्रं विरचितवती त्रयोदशवयस्का विख्याता अभवत्।

त्रयोदशवयस्का भाविका महेश्वरी भारतस्य पञ्चदशतमराष्ट्रपतेः द्रौपदी मुर्मू महा भागायाः जीविनकथां विरच्य अतितोषम् अनुभवन्ती विराजते। सूरट् स्वदेशीया भाविका अष्टमकक्ष्यायाः छात्रा भवति। प्रचोदकप्रभाषिका, ग्रन्थद्वयस्य रचयिता इत्येवं रूपेण निपुणेयं उतरभारतस्य सांस्कृतिकमण्डलेषु प्रसिद्धा भवति।

Sunday, July 24, 2022

चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश भारतीयकर्मकरेषु सप्तकर्मकराः भारतीयव्योमसेनया संदृष्टः।


चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश यानमार्गनिर्माणकर्मकरेषु सप्त कर्मकराः भारतीयव्योमसेनया संदृष्टः। आसां देशीयाः ते अरुणाचल्प्रदेशस्य नियन्त्रणरेखायाः समीपे कुरूंग् कुमेयिले नामकस्थानात् अप्रत्यक्षाः अभवन्। एते बक्रीत् पर्वणि गृहं गन्तुम् अनुज्ञायै प्रार्थितवन्तः। किन्तु कर्मस्वामी अनुज्ञा न दत्ता । अतः ते कर्मकराः ततः पलायितवन्तः आसन्। दामिन् मण्डले सीमायानमार्गसंस्थायाः निर्माणस्थलात् एवम् अप्रत्यक्षाणां कर्मकराणां संघात् सप्त जनाः शुक्रवासरे सेनया संदृष्टाः ते रक्षिताः च। ते भाषणं कर्तुमपि अशक्ताः अवशाः च आसन् इत्यस्ति प्रतिवेदनम्।

 शिक्षकनियुक्तौ भ्रष्टाचारः - वंगस्य मन्त्री मित्रं च निगृहीतौ।


कोल्कोत्ता> पश्चिमवंगराज्ये विद्यालयेषु शिक्षकाणां नियुक्तौ आर्थिकभ्रष्टाचारः कृतः इत्यपराधमालक्ष्य राज्यस्य उद्योगमन्त्री पार्थ चाटर्जी तस्य मित्रम् अर्पिता मुखर्जी नामिका अभिनेत्री च प्रवर्तननिदेशालयेन [ई डि]  निगृहीतौ। अर्पिता मुखर्जेः गृहात् २१. २ कोटि रूप्यकाणि, ५४ लक्षरूप्यकाणां विदेशमुद्राः, ७९ लक्षंरूप्यकमूल्ययुक्तानि सुवर्णाभरणानि च निगृहीतानि। 

   यदा पार्थ चाटर्जी शिक्षामन्त्री आसीत् तदा विद्यालयेषु अध्यापकनियुक्तये उद्योगार्थिजनेभ्यः महद्रूप्यकाणि उत्कोचरूपेण स्वीकृतानि इत्यारोपः। अर्पितायाः गृहे आसीत् तानि सम्भृतानीति ई डि संस्थया प्रमाणीकृतम्।

Saturday, July 23, 2022

 राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। कैरल्यै ८ पुरस्काराः।

नवदिल्ली> भारतस्य २०२० तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। तमिलभाषातः 'सूररै पोट्र्' नामकं चित्रं श्रेष्ठतमं चलच्चित्रमिति पुरस्काराय चितः। तस्मिन्नेव चलच्चित्रे अतुल्यमभिनयं प्रदर्शितवन्तौ नायिकानायकौ अपर्णा बालमुरलिः, सूर्यः च यथाक्रमं श्रेष्ठतमौ नटीनटौ अभवताम्। अजय देवगण् नामकः बोलिवुड् चलच्चित्रनटः अपि श्रेष्ठतमनटस्य पुरस्काराय सहभाजी जातः। 

  कैरल्यां बहवः प्रतिभाधनाः चलच्चित्रकलाकाराः  अस्मिन्  पुरस्कारनिर्णये बहुमानिताः। 'अय्यप्पनुं कोशियुम्' इति चित्रस्य निदेशकः सच्ची [सच्चिदानन्दः] अस्ति  श्रेष्ठतमः निदेशः। एषः पुरस्कारः तस्मै मरणानन्तर बहुमतिरभवत्। एतस्मिन्नेव चलच्चित्रे गानानि गीतवती नञ्चियम्मा नामिका वनवासिगायिका एव  श्रेष्ठतमा गायिका। कैरल्याः प्रतिभाधनः अभिनेता बिजुमेनोनः अय्यप्पनुं कोशियुम्' इति चित्रेण श्रेष्ठतमः सहाभिनेता जातः। वाणिज्यचलच्चित्रक्षेत्रे ८ पुरस्काराः मलयालभाषायै सम्मानिताः।

Friday, July 22, 2022

बालिका-बालक विद्यालयाः न आवश्यकाः इति बालधिकारसमितिः।

तिरुवनन्तपुरम्> राज्ये बालिकाविद्यालयाः बालकविद्यालयाः च स्थगयितुं बालाधिकारसमित्या निर्देशो दत्तः। विद्यालयेषु पुंस्त्रीभेदौ न आवश्यकौ। भेदोऽयं लिङ्गनीतिनिषेधः भवति इत्येव बालाधिकारसमित्याः निरीक्षणम्। अञ्चल् स्वदेशीयेन डो. ऐसक् पोल् नामकेन प्रदत्तं याचनापत्रं पुरस्कृत्यैव बालाधिकारसमित्या चरित्रप्रधाननिर्देशो दत्तः ।

 द्रौपदी मुर्मू सामान्यजनविभागस्य प्रतीक्षा। प्रधानमन्त्री नरेन्द्रमोदी साक्षात् आगत्य अभिनन्दनानि आवेदितवान् । 


नवदिल्ली> प्रधानमन्त्री नरेन्द्रमोदी भारतस्य १५ तम राष्ट्रपतिपदे नियुक्तां द्रौपदि मुर्मुम् अभिनन्दनानि आशंसाः च अर्पितवान्। प्रधानमन्त्री नरेन्द्रमोदी तस्याः वसतिं स्वयं संदृर्श्य अभिनन्दनानि आवेदितवान्। सामान्यजनविभागस्य प्रतीक्षा भवति मुर्मू, पुरतः स्थित्वा राष्ट्रं नीत्वा शक्तियुक्तं करिष्यति इति प्रधानमन्त्रिणा प्रोक्तम्।

Thursday, July 21, 2022

 यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

भारतस्य पञ्चदशत्तमराष्ट्रपतिपदे माता द्रौपदी मुर्मू चिता॥

 ओस्ट्रेलियायां कोविड्रोगः वर्धते। 'गृहतः उद्योगनिर्वहणं पुनरानेतुं निर्देशो दत्तः।


कोविड् महामारी न अस्तंगता, जाग्रता पालनीया इति विश्वस्वास्थ्यसंघटनेन उक्तमासीत्। कोविड् महामारेः परिवर्तनमभवत् तथापि न अस्तंगता , १०१ राष्ट्रेषु रोगिणां संख्या वर्धमाना अस्ति इति विश्वस्वास्थ्य संघटनेन पूर्वसूचना दत्ता आसीत्। इदानीं कोविड् प्रकरणानि वर्धमाने सन्दर्भे अस्मिन् आस्ट्रेलियायां अतिनियन्त्रणानि ख्यापितानि।

 कूर्माय सेवाफलं विभज्य दत्तवान् वनमानुषः। चलनचित्रखण्डः सामूहिकमाध्यमे त्वरितप्रसरमभवत्।


कूर्मेण सह सेवाफलं विभज्य खादन्तं  नरवानरचित्रं (chimpanzee) त्वरित-प्रसरमभवत्। टिट्वर् माध्यमेन प्रसारितस्य तयोः अपूर्वसौहृदस्य चलनचित्रखण्डः अन्येषु सामूहिकमाध्यमेषु च प्रचलति। स्वयं एकं सेवाफलं चर्वयन्नवसरे समीपे स्थितस्य कूर्ममपि खादयन्तम् अपूर्वं स्नेहं प्रकटयन्तं निमेषः एव चलनचित्रखण्डे दृश्यते। इतःपर्यन्तं चलनचित्रखण्डमिदं ९० लक्षं जनैः संदृष्टम्।

 जम्मु मध्ये मेघविस्फोटनं - विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। 

भादैर्वा [जम्मू]> जम्मु मध्ये दोड जनपदे मेघविस्फोटनानन्तरं सञ्जाते वृष्टिजलप्रवाहे एकं विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। उपविंशति भवनानि भागिकतया विशीर्णानि। प्राणविनष्टाः न प्रस्तुताः। 

  दोडा जनपदस्थे टन्तप्रदेशे आसीदयं प्रकृतिकोपः दुरापन्नः। अल्लाम इक्बाल् स्मारक विद्यालयः, एकं वासगृहं, त्रयः आपणाः, अष्टसंख्याकाः इतरसंस्थाश्च प्रवाहिताः इति अधिकारिभिः निगदितम्।

 विश्वस्मिन् अष्टमम् अद्भुतम्। मसायिमारेषु पशूनां महादेशाटनं समारब्धम्।


मसायिमार> केनियादेशे मसायिमारेषु पशूनां महादेशाटनं समारब्धम्। सहस्रशः पशवः (wild beast ) संघीभूय टान्सानियात् मणल् नदीम् उत्तीर्य केनियादेशं प्रति संघपलायने निमग्नाः।विश्वस्य विविधप्रदेशात् सञ्चारिणः छायाग्राहकाः च मनोहरं दृश्यमिदं द्रष्टुं छायाचित्रं संग्रहीतुं च तद्देशं प्रति प्रवहन्ति। जूलाय् मासादारभ्य सेप्तम्बर् मासपर्यन्तमेव महादेशाटनकालः।

Wednesday, July 20, 2022

 रेनिन् विक्रम सिंगे श्रीलङ्कायाः राट्रपतिपदे नियुक्तः। प्रतिषेधं प्रकटितानां जनानाम् उपरि कठिनप्रक्रमाः भविष्यन्ति


कोलम्बो> आर्थिक - राजनैतिक समस्या अतिरूक्षतया अनुवर्तमानायां श्रीलङ्‌कायां नूतनराष्ट्रपतिरूपेण रेनिल् विक्रमसिंगे नियुक्तोऽभवत्। २२५ अङ्गैः सहितां विधानसभायां १३४ अङ्गानां सहकारेणैव विक्रमसिंगस्य अधिकारलब्धिः। पूर्वतनराष्ट्रपतेः गोतबाय रजपक्से इत्यस्य राज्यान्तरगमनानन्तरं राष्ट्रपतेः उत्तरदायित्वं वहन् आसीत् एषः।

परिस्थितिसमस्याः समुद्रान् तथा तीरदेशवासिनः च अधिकतया प्रबाधन्ते।

अनन्तपुरी> परिस्थितिसमस्यया समुद्राः तथा तीरदेशजनाः च अधिकतया दुरितमनुभवन्ति इति परिस्थितिसंरक्षणसमित्याः अखिलभारतसंयोजकेन गोपाल् जि आर्येण प्रोक्तम्। मत्स्यबन्धनकर्मकरान् जीवजालान् च संरक्षितुं सर्वे पुरतः आगन्तव्याः इति तेन निगदितम्। समुद्रतीरान् पलास्तिकात् मुक्तं कर्तुम् आविश्वं प्रचाल्यमानस्य समुद्रतीरशुचीकरणयज्ञस्य आयोजकमितिरूपीकरणम् उद्घाटयित्वा भाषमाणः आसीत् सः।

 वर्षत्रयाभ्यन्तरे भारतीयनागरिकत्वं परित्यक्तानां संख्या ३.९२ लक्षम्। अर्धाधिके अमेरिक्का राष्ट्रस्य नागरिकत्वं स्वीकृताः।


नवदिल्ली> विगते संवत्सरत्रयाभ्यन्तरे ३.५२ लक्षं भारतीयाः तेषां पौरत्वं परित्यक्ताः इति केन्द्रसर्वकारेण विधानसभायाम् आवेदितम्। तेषु भारतीयेषु सुस्थिरवासं कृतेषु १०३ राष्ट्रेषु अधिके जनाः अमेरिक्कादेशम् अचिन्वन्। २०२१ संवत्सरे १.६३ लक्षं जनाः भारतीयनागरिकत्वं परित्यक्ताः इति केन्द्र- आभ्यन्तर-मन्त्रालयेन प्रकाशिते प्रमाणे सूचयति। तस्मिन् वर्षे भारतीय नागरिकत्वं परित्यक्तेषु १.६३ लक्षं जनेषु ७८०० जनाः अमेरिक्काराष्ट्रस्य नागरिकत्वमेव अचिन्वन्।

संस्कृताध्येतृभ्यः संगणके ई-संसाधने च दक्षता अनिवार्या।

 संस्कृताध्येतारः संगणके ई-संसाधने च दक्षा भवन्तु, प्राचीनतमज्ञान-विज्ञानादीनाम् अद्यतनज्ञानविज्ञानैः सह सामञ्जस्यं स्यात्, संस्कृतसंवर्धने ई-संसाधनानां सम्यक्तया प्रयोगकर्तारः अधिकाधिकजनाः स्युः तदर्थम्  उत्तरप्रदेशसंस्कृतसंस्थानेन निःशुल्कं संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः कृतः अस्ति।  राट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेष्वपि संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता- विषयिणी सप्तदिवसीया कार्यशाला जुलै मासस्य १४ दिनाङ्कतः प्रवर्तमाना वर्तते। प्रथमदिने संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वविशिष्टसम्बोधनेन संस्कृतज्ञान् आहूतवन्तः। एकस्मिन् हस्ते संस्कृतम् अपरे संगणकं स्थाप्य स्वकीयबौद्धिकी यात्रा करणीया भविष्यति। अतः एतादृशी कार्यशाला अग्रेऽपि आवश्यकी भविष्यति।

Tuesday, July 19, 2022

वानरवसूरिः> विदेशात् आगताः सर्वे स्वास्थ्यपरिशोधनाविधेयाः भवितव्याः इति केन्द्रसर्वकारः।

नवदिल्ली> राष्ट्रे द्वितीयं वानरवसूरिप्रकरणं केरलेऽपि प्रतिवेदिते सन्दर्भे पूर्वोपायप्रक्रमान् प्रबलं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। सर्वेषु विमानपत्तनेषु नौकाश्रयेषु च यात्रिकान् निर्बन्धितारोग्यपरिशोधनाविधेयं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। विमानपत्तन - नौकाश्रयविभागस्य कर्मकरैः साकं स्वास्थ्यविभागनिर्दैशकैः आयोजिते मेलने एव निर्देशाः दत्ताः।

 सिङ्गप्पुरं ओप्पण् पिच्छकन्दुकस्पर्धा - पि वि सिन्धू विजिता। 

सिङ्गप्पुरं> सिङ्गप्पुरं ओप्पण् सूपर् ५०० नामकपिच्छकन्दुकक्रीडापरम्परायाः अन्तिमे चक्रे भारतस्य पि वि सिन्धू विजयकिरीटं प्राप्तवती। अन्तिमक्रीडायां 'एष्यन् चाम्प्यन् षिप्' सुवर्णपदकप्राप्तां चीनस्य वाङ् षी नामिकां पराजितवती। 

   अस्मिन् क्रीडाकाले सिन्धुवर्यायाः तृतीयं किरीटप्राप्तिः एषः। सय्यिद् मोदी अन्ताराष्ट्रियक्रीडायां तथा स्विस् ओपण् क्रीडायामपि सिन्धुरेव श्रेष्ठत्वं प्राप्तवती।

Monday, July 18, 2022

 अमरनाथ तीर्थाटने ७ मरणान्यपि 

   श्रीनगरं> अमर्नाथतीर्थाटनवेलायां गतदिने षट् तीर्थाटकाः एकः अश्वचालकश्च मृताः। अनेन अस्मिन् वर्षे मृतानां तीर्थाटकानां संख्या ४९ अभवत्। जूलाय् अष्टमदिमाङ्के दुरापन्ने झटितिप्रलये १५ जनाः मृताः आसन्। 


 राजनैतिक -आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति।

राजनैतिक - आर्थिकसमस्यादिभिः  पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति। तदर्थं केन्द्रसर्वकारेण मङ्गलवासरे सर्वदलयोगम् आयोजितमस्ति। तमिल्नाडुदेशात् ए ऐ ए डि एम् के, डि एम् के इत्येतयोः राजनैतिकदलयोः अभ्यर्थनानुसारमेव अयं निश्चयः। वर्षाकालसम्मेलनम् आधारीकृत्य संसदसभायाम् आहूते सर्वदलयोगे भारतं समस्यापरिहाराय प्रयत्नः करणीयः इति तमिलनाडुराज्यस्थैः दलैः अभ्यर्थिम् आसीत्।

 बुन्देलखण्ड अतिशीघ्रवीथिः उद्घाटितः। 

जलोन् [उत्तरप्रदेशः]> मध्यप्रदेशस्थे चित्रकूटात् दिल्लीं प्राप्यमाणः बुन्देलखण्ड अतिशीघ्रवीथिः प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। २९६ कि मी दूरपरिमितेन अनेन मार्गेण चित्रकूट - दिल्ली यात्रासमयाय त्रिचतस्रहोराणां अपचितिः भविष्यति। सप्तसु जनपदेषु व्यावर्तमानस्यास्य नूतनमार्गस्य निर्माणाय १४,८५० कोटिरूप्यकाणां व्ययः अभवत्।

 राष्ट्रपतिनिर्वाचनम् अद्य।

नवदिल्ली> भारते राष्ट्रपतिनिर्वाचनम् अद्य सम्पद्यते। शासनपक्षस्थानाशिरूपेण द्रौपदी मुर्मू, विपक्षस्थानाशिरूपेण यश्वन्तसिंहश्च स्पर्धेते। द्रौपदी मुर्मू ६० प्रतिशतं मतदानेन विजयं प्राप्स्यतीति राजनैतिकनिरीक्षकै‌ः कल्प्यते।