'रेल् यानात्' भारतस्य अग्निशस्त्र विक्षेपणपरीक्षणम्।
२००० कि मी दूरपरिधिः; राष्ट्रे प्रथमम्। ![]()
ओडीशयां रेल् अधिष्ठित जंगम विक्षेपिण्याः कृतस्य अग्निशस्त्र विक्षेपणस्य दृश्यानि।
'रेल् यानात्' भारतस्य अग्निशस्त्र विक्षेपणपरीक्षणम्।
२००० कि मी दूरपरिधिः; राष्ट्रे प्रथमम्। ![]()
ओडीशयां रेल् अधिष्ठित जंगम विक्षेपिण्याः कृतस्य अग्निशस्त्र विक्षेपणस्य दृश्यानि।
एष्या चषकान्तिमस्पर्धा
भारतस्य प्रतियोगी पाकिस्थानम्।
दुबाय्> एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे रविवासरे भारतं पाकिस्थानेन सह स्पर्धिष्यते। गतदिने सम्पन्ने पाकिस्थान-बङ्गलादेशयोः 'सूपर् फोर्' प्रतिद्वन्द्वे पाकिस्थानं बङ्गलादेशं ११ धावनाङ्कैः पराजित्य अन्तिमचक्रं प्राविशत्।
प्रथमं कन्दुकताडनं कृतवत् पाकिस्थानं २० क्षेपणचक्रेषु अष्ट ताडकानां विनष्टे १३५ धावनाङ्कानि सम्प्रापयामास। बङ्गलादेशस्य प्रत्युत्तरताडनं ९ ताडकानां विनष्टे १२४ धावनाङ्कान् सम्प्राप्य समाप्तम्।
सि बी एस् ई १०, १२ परीक्षाः फेब्रुवरि १७ तमदिनाङ्कतः।
नवदिल्ली> सि बी एस् ई संस्थायाः विद्यालयेषु १०, १२ कक्ष्ययोः वार्षिकपरीक्षाः २०२६ फेब्रुवरि १७ तमदिनाङ्कतः आरप्स्यन्ते। दशमिकक्ष्यापरीक्षायाः अंशद्वयं भविष्यति। प्रथमपरीक्षा फेब्रुवरि १७ तमदिनाङ्कतः मार्च् ६ पर्यन्तं, द्वितीया परीक्षा मेय् १५ तमतः जूण् प्रथमदिनाङ्कपर्यन्तं च विधास्यति इति परीक्षाचालकः सन्यं भरद्वाजः निगदितवान्। प्रथमतया एव दशमकक्ष्यापरीक्षा वारद्वयेन विधास्यते।
एष्या चषक क्रिकट्
भारतम् अन्तिमस्पर्धां प्राविशत्।
दुबाय्> बङ्गलादेशं ४१ धावनाङ्कैः पराजित्य भारतम् एष्या चषक टि - २० क्रिकट् स्पर्धापरम्परायाः अन्तिमचक्रं प्राविशत्। 'सूपर् फोर्' इति चतुष्कक्रीडायां स्पर्धाद्वयमपि भारतेन विजितम्। गुरुवासरे सम्पद्यमानस्य पाकिस्थान-बङ्गलादेशप्रतिद्वन्द्वस्य विजयिदलेन सह भारतस्य अन्तिमस्पर्धा सम्पत्स्यति।
'ले' इत्यत्र प्रक्षोभः अक्रमोपेतः।
४ मरणानि।
![]() |
| ले मध्ये संवृत्तस्य अक्रमस्य दृश्यम्। |
ले [लडाकः]> केन्द्रप्रशासनप्रदेशे लडाके राज्यपदं पुनःस्थापनीयम्, प्रदेशः शासनसंविधानस्य ६तमे विभागे [षेड्यूल्] अन्तर्भावयितव्यः इत्यादीनि आवश्यकानि उन्नीय राजधानीनगरे ले मध्ये विधत्तमानः प्रक्षोभः अक्रमपूर्णः अभवत्। संघर्षे चत्वारः जनाः हताः। रक्षिपुरुषान् अभिव्याप्य ४५ जनाः आहताः।
रक्षिपुरुषैः कृतेन भुषुण्डिप्रयोगेणैव चतुर्णां प्राणहानिरिति प्रक्षोभकाः आरोपयन्ति। प्रदेशे निरोधाज्ञा उद्घोषिता। प्रकृतिसंरक्षणप्रवर्तकः सोनं वाङ् चुक् इत्यनेन आरब्धम् अनशनान्दोलनं स्थगितम्।
वर्षचतुष्टयं यावत् ले प्रदेशे आन्दोलनकार्यक्रमाः अनुवर्तमानाः आसन्। गतदिने तत् अक्रमोपेतमभूत्।
मोहन लालस्य संस्कृतप्रतिभां प्रकीर्त्य राष्ट्रपतिः।
![]() |
| कर्णभारं नाटके कर्णस्य वेषं धृत्वा मोहन लालः। |
नवदिल्ली> दादा साहेब फाल्के पुरस्कारप्राप्तस्य मोहन लालस्य संस्कृतभाषानुरागितां विज्ञाय राष्ट्रपतिः द्रौपदी मुर्मू अद्भुतमभिमानं च प्राकटयत्। पुरस्कारदानानन्तरं लालस्य चलच्चित्रयात्रां विशदीकुर्वत् षट् निमेषदीर्घयुक्तं वीडियोप्रदर्शनं कृतम्। तत्र 'कर्णभारम्' इति भासनाटके कावालं नारायणपणिक्कर् वर्यस्य निदेशकत्वे कर्णस्य अंशमभिनीतवान्। तद्दृष्ट्वा आसीत् मुर्मूवर्यायाः अभिनन्दनम्।
केरले मोहन लालस्य संस्कृतसम्बन्धप्रवर्तनानि भाषाभ्युदयकांङ्क्षिणाम् अभिमानास्पदं भवति। 'जनम्' इति कैरलीवार्ताप्रणाल्यां प्रतिदिनसंस्कृतवार्तासंप्रेषणं संस्कृतवार्तावाचनेन अनेन महानटेन समुद्घाटितम्। इदानीमपि १५ निमेषात्मकं 'वार्तासंस्कृतम्' जनं टि वि मध्ये प्रचलदस्ति। संस्कृतोत्कर्षपरासु अनेकासु परियोजनासु मोहनलालः भागं कृतवानस्ति।
कोल्कोत्तायाम् अतिवृष्टिः - नव मृताः।
कोल्कोत्ता> दिनद्वयेन पश्चिमवंगस्य बहुषु प्रदेशेषु अतिवृष्टिरनुवर्तते। कोल्कोत्तानगरे परिसरप्रदेशेषु च जनजीवनं स्तम्भायितम्। अतिवृष्टिदुष्प्रभावेण नव जनाः मृत्युमुपगताः। विद्युदाघातेन एव बहूनि मरणानि।
रेल् मार्गाः विमाननिलयः च जलनिमग्नाः अभवन्। नगरे बस् यान - रेल् यानगमनागनानि छिन्नभिन्नानि जातानि। वंगसमुद्रान्तराले जातः न्यूनमर्द एव कठिनवृष्टेः कारणम्।
"चलच्चित्रम् आत्मनः स्पन्दनम्" - मोहन लालः।
फाल्के पुरस्कारः मोहनलालेन स्वीकृतः।
मोहन लालः राष्ट्रपतेः पुरस्कारं स्वीकरोति।
नवदिल्ली> विज्ञानभवने सम्पन्ने प्रौढगम्भीरे कार्यक्रमे राष्ट्रस्य परमोन्नत चलनचित्रपुरस्कारः - दादा साहेब फाल्के पुरस्कारः - राष्ट्रपतिना द्रौपदी मुर्मू महाभागया कैरल्याः 'महानटाय' मोहनलालाय समर्पितः। ७१ तमः राष्ट्रिय चलच्चित्रपुरस्कारसमर्पणकार्यक्रमे आसीत् २३ तमं फाल्के पुरस्कारं मोहनलालः स्वीकृतवान्। "भवान् कश्चन सर्वोत्कृष्टः अभिनेता" इति वार्ताविनिमयवितरणमन्त्री अश्विनी वैष्णवः लालवर्यं अभिनन्दति स्म।
एषः पुरस्कारः मलयालचलच्चित्रमण्डलाय समर्प्यते इति कृतज्ञताप्रकाशने मोहन लालेन प्रोक्तम्। "चलच्चित्रमिति मम आत्मनः स्पन्दनं भवति।" लालस्य हृदान्तरालात् निर्गलितं वाक्यं श्रुत्वा प्रोक्षकाः श्रोतारश्च अभिमानपुलकिताः जाताः।
अमीबिकमस्तिष्कज्वरः
एकोSपि मृतः।
अनन्तपुरी> केरले इतरः ५९ वयस्कः अपि अमीबिकमस्तिष्कज्वरेण मृत्युमुपगतः। गते दिनद्वये ५ जनाः अपि विविधजनपदेषु अमीबिकमस्तिष्कज्वरबाधिताः जाताः।
मलप्पुरं जनपदस्थे वष़िक्कटव् , कोष़िक्कोट्स्थे ओमश्शेरी, इटुक्कीस्थे राजाक्काट्, कोल्लं जनपदस्थे चवरा इत्येतेभ्यः प्रदेशेभ्यः नूतनतया रोगग्रस्ताः इति प्रत्यभिज्ञाताः।
जि एस् टि परिष्करणम्
प्रयोजनं जनेभ्यः लब्धुं निरीक्षणं कर्कशं करोति।
अनन्तपुरी>केन्द्रप्रशासनेन विधत्तस्य जि एस् टि परिष्करणस्य प्रयोजनं जनेभ्यः लभते इति दृढीकर्तुं केन्द्र वित्तमन्त्रालयस्य निर्देशः। राज्येषु वर्तमानाः केन्द्रीय पण्यकरवस्तुकार्यालयाः एव एवंप्रकारेण निर्दिष्टाः।
औषधानि, नित्योपयोगवस्तूनि, इलेक्ट्रोनिकोत्पन्नानि चाभिव्याप्य ५४ प्रकरणानि सविशेषनिरीक्षणे सन्ति। एषां करन्यूनीकरणात् पूर्वं परं च मूल्यं विशकलनं कृत्वा आवेदनसमर्पणाय एव निर्देशः।
द्वौ मावोनेतारौ व्यापादितौ।
नारायणपुरं> प्रतिशीर्षं ४० रूप्यकाणि मूल्यं विज्ञापितौ द्वौ समुन्नतौ मावोवादिनेतारौ सुरक्षासेनया सह प्रतिद्वन्द्वे निहतौ। छत्तीसगढे नारायणपुरे महाराष्ट्रं स्पृशति अभुजमादवने सोमवासरे प्रभाते आसीत् प्रतिद्वन्द्वः। 'कम्युनिस्ट पार्टी ओफ् इन्डिया (मावोयिस्ट्) ' इत्यस्य केन्द्र समिति सदस्यौ नाम्ना राजुदादा इत्याह्वयमानः कट्ट रामचन्द्र रेड्डिः [६३], कोस दादा इति कथ्यमानः कदारि सत्यनारायण रेड्डिः [६७] इत्येतौ एव निहतौ।
पलस्तीनदेशस्य मान्यता त्रिभिर्राष्ट्रैरभ्युपगता।
कानडा ओस्ट्रेलियाराष्ट्रयोः पदवीमनुसृत्य संयुक्तराज्यमपि (UK) पलस्तीनदेशस्य औपचारिकमान्यताप्रदानस्य निर्णयम् अघोषयत्। एते त्रयो देशाः पश्चिम-एषियाखण्डे स्थायिशान्तिम् आनेतुम् इमम् पदक्षेपम् आवश्यकम् मन्यन्ते। इदम् राजतीतिकम् परिवर्तनम् अन्येषाम् ऐरोप्यराष्ट्राणां पूर्वनिर्णयानामनुसरणं करोति। तेषाम् सर्वेषाम् उद्देश्यम् इज्रेलपलस्तीनयोर्मध्ये विद्यमानस्य सङ्घर्षस्य समाधानाय द्विराष्ट्र व्यवस्थायाः सर्जनम् अनिवार्यम् अस्ति। युक्तराज्यस्य शासनेन सूचितम् यद् इयम् मान्यता योग्ये काले प्रदास्यते यदा सा शान्तिप्रक्रियायाम् अधिकतमं योगदानं कर्तुं शक्नुयात्। एतेन निर्णयेन अन्ताराष्ट्रिये स्तरे पलस्तीनस्य स्थितये नूतनं बलं संप्राप्तम्॥
धनार्जनोत्सवः समारब्धः - नरेन्द्रमोदी।
नवदिल्ली> 'जि एस् टि २.०' इति पण्यसेवाकरपरिष्करणं राष्ट्रस्य आर्थिकमण्डलस्य समग्रपरिष्करणस्यापि प्रारम्भ अभवदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। गतदिने सायं राष्ट्रमभिसंबोधयन् भाषमाणः आसीदयम्। सोमवारे आरभ्यमाणस्य पण्यसेवाकरपरिष्करणस्य परिणामः भारतस्य आर्थिकाभिवृद्धिः अस्ति। नवरात्रुत्सवस्य प्रथमे दिने राष्ट्रम् आत्मनिर्भरभारतमिति दर्शनस्य नूतनपदक्षेपं करोति इति मोदिवर्यः अवोचत्।
जि एस् टि परिष्करणम् अद्य आरभ्य प्रवृत्तिपथमागच्छति।
१७५ वस्तूनां मूल्यं नयूनीकरोति।
नवदिल्ली> पण्य-सेवाकरे [जि एस् टि] केन्द्रप्रशासनेन विधत्तं बृहत्तमं परिष्करणं सोमवासरतः प्रबलं भवति। १२, २८ इति प्रतिशतश्रेणीकरणं अपहाय ५, १८ प्रतिशतश्रेणीद्वयं प्रतिष्ठापितम्। अनेन ९०% वस्तूनां मूल्यं न्यूनीभविष्यतीति केन्द्रप्रशासनेन निगदितम्।
मध्यस्तरीयवाहनानि, ३३ प्राण सुरक्षौषधानि इत्यादीनि अभिव्याप्य १७५ उत्पन्नानां मूल्यं न्यूनीभविष्यतीत्यतः सामान्यजनानां जीवनभारं लघूभविष्यति।
भीकरसंघटनानि निवेशस्थानं परिवर्तयन्ति।
श्रीनगरं> ओपरेषन् सिन्दूरात् परं पाकिस्थाने आस्थानं कुर्वन्ति जय्षे मुहम्मद्, हिस्बुल् मुजाहिदीन् इत्यादीनि भीकरसंघटनानि तेषां निवेशस्थानं परिवर्तयितुमारभन्त।पाकिस्थानधीनकाश्मीरतः खैबर् पख्तूण ख्व इत्यत्र एव भीकराः तेषां निवेशस्थानपरिवर्तनम्।
ओपरेषन् सिन्दूरं नामके सेनाप्रक्रमे भीकराणां नव आवासशिबिराणि भारतसेनया विनाशितानि। पुनः आक्रमणं भवेदिति भीतिः भीकरसंघटनेषु वर्तते।
पराश्रयत्वमेव भारतस्य रिपुरिति नरेन्द्रमोदी।
आत्मनिर्भरता एव परिहारः।
भावनगरं> राष्ट्रस्य आवशयकताभ्यः इतरराष्ट्राणि आश्रयणीयानि इत्येव भारतस्य महान् रिपुः इति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। यावत् विदेशराष्ट्राणि आश्रयति तावत् भारतस्य पराजयः वर्धिष्यते इति गुजराते भावनगरे ३४,२०० कोटि रूप्यकाणां परियोजनानाम् उद्घाटनं शिलान्यासं च कुर्वन् भाषमाणः आसीत् मोदिवर्यः। आत्मनिर्भरता एव अस्य परिहारः इति तेनोक्तम्।
शुल्कयुद्धस्य अनुगमनेन एछ् १ बी विसापत्रस्य वार्षिकवेतनस्य वर्धापनं च पुरस्कृत्य आसीत् प्रधानमन्त्रिणः परामर्शः।
भारतं प्रति ट्रम्पस्य दाहकक्रिया।
'एछ् १ बी विसा'पत्रस्य उपायनं ८८ लक्षरूप्यकरूपेण वर्धापितम्।
वाषिङ्टणः> यू एस् राष्ट्रे कार्यं कर्तुम् अभिलषताम् ऐ टी उद्योगिनः अभिव्याप्य सर्वेषां भारतीयानां मुख्याकर्षकरूपेण वर्तमानस्य 'एछ् १ बी विसा'पत्रस्य [प्रवेशानुमतिपत्रं] संवत्सरीयप्रतिफलं राष्ट्रपतिना डोनाल्ड ट्रम्पेन वर्धापितम्। वर्तमानीनकाले प्रस्तुतविसापत्राय १. ४९ लक्षंतः ४. ४ लक्षं रूप्यकाणि एव यू एस् राष्ट्रस्य कर्मदानसंस्थाभिः सांवत्सरीयः व्ययः। एतदेव ८८ लक्षं रूप्यकाणीति वर्धितम्।
कर्मकुशलान् विदेशीयकर्मकरान् यू एस् संस्थाभ्यः अल्पकालिकरूपेण नियोक्तुं अनुज्ञां दीयमानं पत्रमस्ति 'एछ् १ बी विसा'पत्रम्। ऐ टि, स्वास्थ्यपरिपालनं, तन्त्र विज्ञानमित्यादिषु क्षेत्रेषु अस्य पत्रस्य विनियोगः। वर्षत्रयमेव कालपरिधिः। षट्वर्षपर्यन्तं विसापत्रं नवीकर्तुमर्हति। कर्मकरेभ्यः कर्मप्रदातृसंस्थाभिः अपेक्षा करणीया।
प्रतिवर्षं अनुमोदितेषु विसापत्रेषु भूरिसंख्या भारतीयेभ्यः एव प्राप्यते। २०२४ तमे वर्षे ७१% भारतीयाः अमेरिकन् विसापत्राणि प्राप्तवन्तः। अतः ट्रम्पस्य एषः प्रक्षेपः भारतीयानां महान् प्रत्याघातः भवति।
मोहन लालाय दादा साहेब फाल्के पुरस्कारः।
नवदिल्ली> २०२३ तमवर्षस्य दादा साहेब फाल्के पुरस्कारः कैरल्याः महते अभिनेत्रे मोहन लालाय दीयते। भारतीयचलनचित्रमण्डले दीयमानः सर्वश्रेष्ठपुरस्कारो भवति फाल्के पुरस्कारः।
अभिनयः, चलच्चित्रनिर्माणम्, इत्यादिषु क्षेत्रेषु मोहन लालेन कृतं समग्रं योगदानं पुरस्कृत्य एव पुरस्कारप्राप्तिरिति वार्तावितरणमन्त्रालयेन निगदितम्। नैकवारं भरतपुरस्कारेण समादृतः अस्ति मोहनलालः। सैप्टम्बर् २५ तमे दिनाङ्के आयोज्यमाने राष्ट्रियपुरस्कारप्रदानवेलायां एषः पुरस्कारः अपि प्रदास्यते।
असमस्य अर्धसेनिकवाहनं प्रति
मणिपुरे प्रच्छन्नाक्कमणम्।
द्वौ भटौ वीरमृत्युं प्रापतुः। .jpg)
व्रणिताः भटाःआतुरालयं नीयन्ते।
इम्फालः> असं रैफिल्स् इति अर्थसेनाविभागस्य वाहनं लक्ष्यीकृत्य मणिपुरे विधत्ते प्रछन्नाक्रमणे द्वौ सैनिकौ वीरमृत्युं प्रापतु। पञ्च भटाः व्रणिताः जाताः।
विष्णुपुरं जनपदे नम्बोल् सबाल् लय्का इत्यत्र शुक्रवासरे सायमासीत् आक्रमणम्। असं रैफिल्स् इत्यस्य ३३ तम एककस्य ट्रक् यानं प्रति अज्ञातसंघः निलीय भुषुण्डिप्रयोगं कृतवानासीत्। निरुद्धसायुधसंघः नाम्ना पीपिल्स् लिबरेषन् आर्मी [People Liberation Army] अस्ति आक्रमणस्य पृष्ठतः इति सूच्यते।
यू एस् दण्डशुल्कः
नवम्बरमासे परिहारो भवेत् - मुख्यार्थिकोपदेष्टा।
कोल्कोत्ता> आमेरिकया सह भारतस्य शुल्कसमस्यानां नवम्बरमासाभ्यन्तरे परिहारः भवेदिति भारतस्य मुख्यार्थिकोपदेष्टा वि अनन्तनागेश्वरः प्रतीक्षां प्राकटयत्।
यू एस् - भारतयोर्मध्ये चर्चाः प्रचलन्ति। कोल्कोत्तायां 'भारत् चेम्बर् ओफ् कोमेर्से' इत्यनेन आयोजिते कार्यक्रमे भाषमाण आसीत् अनन्तनागेश्वरः।
चतुर्दशवर्षीयस्य बालस्य हृद्रोग-प्रत्यभिज्ञानकौशलम्।
टेक्सस्-राज्यस्य फ्रिस्कोनगरनिवासी चतुर्दशवर्षीयो नन्द्यालसिद्धार्थः सर्केडियन्ए ए ऐ नामकम् एकं कृत्रिमप्रज्ञाधारितम् अनुप्रयोगं व्यरचयत्। अयं चानुप्रयोगः केवलं सप्तक्षणेषु ९८+% (षण्णवत्यधिकप्रतिशतम्) परिशुद्धतया हृद्रोगं प्रत्यभिज्ञातुं प्रभवो भविष्यति। अमेरिकाभारतदेशयोः पञ्चशताधिकाष्टादशसहस्र-रुग्णेषु अस्य परीक्षणं कृतम् अधुना च चिकित्सावृत्तिकैः (clinical professionals) प्रयुज्यते। सः पूर्वमेव एकं STEM उपक्रमं (startup) प्रारभत साम्प्रतं च ओस्टिन्नगरे टेक्सस्-विश्वविद्यालये सङ्गणकविज्ञानम् अधीयमानः श्वासकोश-रोगस्य शीघ्रप्रत्यभिज्ञानार्थं नूतनम् अनुसन्धानं करोति। अनेन प्रकारेण किशोरा एव स्वास्थ्यसंरक्षणस्य भविष्यं रचयन्ति॥
गासा सिट्यां द्वितीयदिनेSपि कठोरमाक्रमणम्।
बुधवासरे ३५ मरणानि।
गासा सिटी> गासां मृत्युक्षेत्रं कुर्वन् गासा सिट्याम् इस्रयेलस्य स्थल-व्योमाक्रमणं कठोररीत्या अनुवर्तते। स्थाक्रमणस्य द्वितीयदिने ३५ जनाः मृत्युमुपगताः। रन्तीसी इत्यत्रस्थं शिशूनामातुरालयं लक्ष्यीकृत्य त्रिवारं तीव्रमाक्रमणमभवदिति गासायां स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। दिनद्वये मृत्युसंख्या सप्ततिरतीता।
नरेन्द्रमोदी @ ७५!
नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्र दामोदर्दास मोदी [नरेन्द्रमोदी] अद्य पञ्चसप्तत्यायुः भवति। १९५० सेप्टम्बर् १७ तमे दिनाङ्के गुजरातराज्ये लब्धजन्मा अयं भारतस्य प्रधानमन्त्रिपदे १२तमं वर्षं प्रविशति च। राष्ट्रं प्रगतिं प्रोन्नतिं च नीयमानः तथा च विश्वराष्ट्रैः दत्तकर्णः राष्ट्रनायकः इति ख्यातिं सः प्राप्तवान्। २४ होराः प्रवर्तननिरतः कर्मयोगी मोदिवर्यः आराधकानां समादरणीयः राजनैतिकमूर्तिः अस्ति। किन्तु तीव्रहिन्दुत्वदेशीयतां एकाधिपत्यप्रवणतां च राष्ट्रस्य परिवर्तनं मोदिप्रशासने भवन्निति राजनैतिकप्रतिद्वन्द्विनः विमृशन्ति। लोकतन्त्रं राष्ट्रसंविधानं च दुर्दशामाप्नोतीति ते तर्कयन्ति।
परन्तु राष्ट्रं विश्वस्य अग्रतां प्रापयितुं कृतनिश्चयः मोदिवर्यः अद्य सप्ताहद्वयं दीर्घमानस्य राष्ट्रव्यापक स्वास्थ्य-पोषकभोज्यप्रचरणस्य मध्यप्रदेशे समारम्भं करिष्यति।
डोनाल्ड ट्रम्पमभिव्याप्य बहवः राष्ट्रनेतारः नरेन्द्रमोदिने जन्मदिनाशंसाः समर्पितवन्तः।