सि बी एस् ई १०, १२ परीक्षाः फेब्रुवरि १७ तमदिनाङ्कतः।
नवदिल्ली> सि बी एस् ई संस्थायाः विद्यालयेषु १०, १२ कक्ष्ययोः वार्षिकपरीक्षाः २०२६ फेब्रुवरि १७ तमदिनाङ्कतः आरप्स्यन्ते। दशमिकक्ष्यापरीक्षायाः अंशद्वयं भविष्यति। प्रथमपरीक्षा फेब्रुवरि १७ तमदिनाङ्कतः मार्च् ६ पर्यन्तं, द्वितीया परीक्षा मेय् १५ तमतः जूण् प्रथमदिनाङ्कपर्यन्तं च विधास्यति इति परीक्षाचालकः सन्यं भरद्वाजः निगदितवान्। प्रथमतया एव दशमकक्ष्यापरीक्षा वारद्वयेन विधास्यते।