भारतं प्रति ट्रम्पस्य दाहकक्रिया।
'एछ् १ बी विसा'पत्रस्य उपायनं ८८ लक्षरूप्यकरूपेण वर्धापितम्।
वाषिङ्टणः> यू एस् राष्ट्रे कार्यं कर्तुम् अभिलषताम् ऐ टी उद्योगिनः अभिव्याप्य सर्वेषां भारतीयानां मुख्याकर्षकरूपेण वर्तमानस्य 'एछ् १ बी विसा'पत्रस्य [प्रवेशानुमतिपत्रं] संवत्सरीयप्रतिफलं राष्ट्रपतिना डोनाल्ड ट्रम्पेन वर्धापितम्। वर्तमानीनकाले प्रस्तुतविसापत्राय १. ४९ लक्षंतः ४. ४ लक्षं रूप्यकाणि एव यू एस् राष्ट्रस्य कर्मदानसंस्थाभिः सांवत्सरीयः व्ययः। एतदेव ८८ लक्षं रूप्यकाणीति वर्धितम्।
कर्मकुशलान् विदेशीयकर्मकरान् यू एस् संस्थाभ्यः अल्पकालिकरूपेण नियोक्तुं अनुज्ञां दीयमानं पत्रमस्ति 'एछ् १ बी विसा'पत्रम्। ऐ टि, स्वास्थ्यपरिपालनं, तन्त्र विज्ञानमित्यादिषु क्षेत्रेषु अस्य पत्रस्य विनियोगः। वर्षत्रयमेव कालपरिधिः। षट्वर्षपर्यन्तं विसापत्रं नवीकर्तुमर्हति। कर्मकरेभ्यः कर्मप्रदातृसंस्थाभिः अपेक्षा करणीया।
प्रतिवर्षं अनुमोदितेषु विसापत्रेषु भूरिसंख्या भारतीयेभ्यः एव प्राप्यते। २०२४ तमे वर्षे ७१% भारतीयाः अमेरिकन् विसापत्राणि प्राप्तवन्तः। अतः ट्रम्पस्य एषः प्रक्षेपः भारतीयानां महान् प्रत्याघातः भवति।