OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, September 19, 2025

 चतुर्दशवर्षीयस्य बालस्य हृद्रोग-प्रत्यभिज्ञानकौशलम्।

   टेक्सस्-राज्यस्य फ्रिस्कोनगरनिवासी चतुर्दशवर्षीयो नन्द्यालसिद्धार्थः सर्केडियन्ए ए ऐ नामकम् एकं कृत्रिमप्रज्ञाधारितम् अनुप्रयोगं व्यरचयत्। अयं चानुप्रयोगः केवलं सप्तक्षणेषु ९८+% (षण्णवत्यधिकप्रतिशतम्)परिशुद्धतया हृद्रोगं प्रत्यभिज्ञातुं शक्नोति। अमेरिकाभारतदेशयोः पञ्चशताधिकाष्टादशसहस्र-रुग्णेषु अस्य परीक्षणं कृतम् अधुना च चिकित्सावृत्तिकैः (clinical professionals) प्रयुज्यते। सः पूर्वमेव एकं STEM उपक्रमं (startup) प्रारभत साम्प्रतं च ओस्टिन्नगरे टेक्सस्-विश्वविद्यालये सङ्गणकविज्ञानम् अधीयमानः श्वासकोश-रोगस्य शीघ्रप्रत्यभिज्ञानार्थं नूतनम् अनुसन्धानं करोति। अनेन प्रकारेण किशोरा एव स्वास्थ्यसंरक्षणस्य भविष्यं रचयन्ति॥