OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 24, 2025

 मोहन लालस्य संस्कृतप्रतिभां प्रकीर्त्य राष्ट्रपतिः।

कर्णभारं नाटके कर्णस्य वेषं धृत्वा मोहन लालः।

नवदिल्ली> दादा साहेब फाल्के पुरस्कारप्राप्तस्य मोहन लालस्य संस्कृतभाषानुरागितां विज्ञाय राष्ट्रपतिः द्रौपदी मुर्मू अद्भुतमभिमानं च प्राकटयत्। पुरस्कारदानानन्तरं लालस्य चलच्चित्रयात्रां विशदीकुर्वत् षट् निमेषदीर्घयुक्तं वीडियोप्रदर्शनं कृतम्। तत्र 'कर्णभारम्' इति भासनाटके कावालं नारायणपणिक्कर् वर्यस्य निदेशकत्वे कर्णस्य अंशमभिनीतवान्। तद्दृष्ट्वा आसीत् मुर्मूवर्यायाः अभिनन्दनम्। 

  केरले मोहन लालस्य संस्कृतसम्बन्धप्रवर्तनानि भाषाभ्युदयकांङ्क्षिणाम् अभिमानास्पदं भवति। 'जनम्' इति कैरलीवार्ताप्रणाल्यां प्रतिदिनसंस्कृतवार्तासंप्रेषणं संस्कृतवार्तावाचनेन अनेन महानटेन समुद्घाटितम्। इदानीमपि १५ निमेषात्मकं 'वार्तासंस्कृतम्' जनं टि वि मध्ये प्रचलदस्ति। संस्कृतोत्कर्षपरासु अनेकासु  परियोजनासु मोहनलालः भागं कृतवानस्ति।

Latest News