जि एस् टि परिष्करणम्
प्रयोजनं जनेभ्यः लब्धुं निरीक्षणं कर्कशं करोति।
अनन्तपुरी>केन्द्रप्रशासनेन विधत्तस्य जि एस् टि परिष्करणस्य प्रयोजनं जनेभ्यः लभते इति दृढीकर्तुं केन्द्र वित्तमन्त्रालयस्य निर्देशः। राज्येषु वर्तमानाः केन्द्रीय पण्यकरवस्तुकार्यालयाः एव एवंप्रकारेण निर्दिष्टाः।
औषधानि, नित्योपयोगवस्तूनि, इलेक्ट्रोनिकोत्पन्नानि चाभिव्याप्य ५४ प्रकरणानि सविशेषनिरीक्षणे सन्ति। एषां करन्यूनीकरणात् पूर्वं परं च मूल्यं विशकलनं कृत्वा आवेदनसमर्पणाय एव निर्देशः।