'रेल् यानात्' भारतस्य अग्निशस्त्र विक्षेपणपरीक्षणम्।
२००० कि मी दूरपरिधिः; राष्ट्रे प्रथमम्। ओडीशयां रेल् अधिष्ठित जंगम विक्षेपिण्याः कृतस्य अग्निशस्त्र विक्षेपणस्य दृश्यानि।
बालसोर् [ओडीशा]> रेल् अधिष्ठित जङ्गमविक्षेपस्थात् 'अग्नि'श्रेण्यामन्तभूतम् आग्नेयास्त्रं [Missile] विक्षिप्य भारतस्य विजयकरं परीक्षणम्। २००० किलोमीटर् दूरपरिधियुक्तं नवपरम्परायाः अग्नि-प्रैम् इति आग्नेयास्त्रमेव राष्ट्रस्य प्रतिरोध गवेषण विकसनसंस्था डि आर् डि ओ इत्यनेन विक्षिप्तम्।
ओडीशायां बालसोर् इत्यत्र आसीत् विक्षेपप्रक्रिया सम्पन्ना। राष्ट्रिय रेल् वे श्रृङ्खलया सह संयोज्य सविशेषरीत्या सज्जीकृतवेदिकातः प्रथमविक्षेपणं भवतीति रक्षामन्त्रिणा राजनाथ सिंहेन निगदितम्।