पराश्रयत्वमेव भारतस्य रिपुरिति नरेन्द्रमोदी।
आत्मनिर्भरता एव परिहारः।
भावनगरं> राष्ट्रस्य आवशयकताभ्यः इतरराष्ट्राणि आश्रयणीयानि इत्येव भारतस्य महान् रिपुः इति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। यावत् विदेशराष्ट्राणि आश्रयति तावत् भारतस्य पराजयः वर्धिष्यते इति गुजराते भावनगरे ३४,२०० कोटि रूप्यकाणां परियोजनानाम् उद्घाटनं शिलान्यासं च कुर्वन् भाषमाणः आसीत् मोदिवर्यः। आत्मनिर्भरता एव अस्य परिहारः इति तेनोक्तम्।
शुल्कयुद्धस्य अनुगमनेन एछ् १ बी विसापत्रस्य वार्षिकवेतनस्य वर्धापनं च पुरस्कृत्य आसीत् प्रधानमन्त्रिणः परामर्शः।