एष्या चषक क्रिकट्
भारतम् अन्तिमस्पर्धां प्राविशत्।
दुबाय्> बङ्गलादेशं ४१ धावनाङ्कनैः पराजित्य भारतम् एष्या चषक टि - २० क्रिकट् स्पर्धापरम्परायाः अन्तिमचक्रं प्राविशत्। 'सूपर् फोर्' इति चतुष्कक्रीडायां स्पर्धाद्वयमपि भारतेन विजितम्। गुरुवासरे सम्पद्यमानस्य पाकिस्थान-बङ्गलादेशप्रतिद्वन्द्वस्य विजयिदलेन सह भारतस्य अन्तिमस्पर्धा सम्पत्स्यति।