एष्या चषकान्तिमस्पर्धा
भारतस्य प्रतियोगी पाकिस्थानम्।
दुबाय्> एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे रविवासरे भारतं पाकिस्थानेन सह स्पर्धिष्यते। गतदिने सम्पन्ने पाकिस्थान-बङ्गलादेशयोः 'सूपर् फोर्' प्रतिद्वन्द्वे पाकिस्थानं बङ्गलादेशं ११ धावनाङ्कैः पराजित्य अन्तिमचक्रं प्राविशत्।
प्रथमं कन्दुकताडनं कृतवत् पाकिस्थानं २० क्षेपणचक्रेषु अष्ट ताडकानां विनष्टे १३५ धावनाङ्कानि सम्प्रापयामास। बङ्गलादेशस्य प्रत्युत्तरताडनं ९ ताडकानां विनष्टे १२४ धावनाङ्कान् सम्प्राप्य समाप्तम्।