यू एस् दण्डशुल्कः
नवम्बरमासे परिहारो भवेत् - मुख्यार्कोपदेष्टा।
कोल्कोत्ता> आमेरिकया सह भारतस्य शुल्कसमस्यानां नवम्बरमासाभ्यन्तरे परिहारः भवेदिति भारतस्य मुख्यार्कोपदेष्टा वि अनन्तनागेश्वरः प्रतीक्षां प्राकटयत्।
यू एस् - भारतयोर्मध्ये चर्चाः प्रचलन्ति। कोल्कोत्तायां 'भारत् चेम्बर् ओफ् कोमेर्से' इत्यनेन आयोजिते कार्यक्रमे भाषमाण आसीत् अनन्तनागेश्वरः।