'अण्डर् - १७' पादकन्दुकम्।
भारतम् अन्तिमस्पर्धायाम्।
कोलम्बो> साफ् इत्यनेन आयोज्यमानायाः ऊनसप्तदशवयस्कानां [Under 17] पादकन्दुकस्पर्धामालिकायाः अन्तिमस्पर्धां भारतगणं प्राविशत्। पूर्वान्यप्रतिद्वन्द्वे नेपालगणं प्रत्युत्तररहितेन लक्ष्यकन्दुकत्रयेण पराजित्य एव भारतस्य अन्तिमस्पर्धाप्रवेशः।