अद्य आभारतम् बालदिनं सामाचरति।
(चित्रं- सान्स् ग्रीट्)OUR YouTube Channel 1. SampratiVartah |
marquee
Monday, November 14, 2022
इन्द्रवज्रान् रोद्धुं भीमाकारः प्रकाशदण्डः।
विद्युल्लतां प्रतिरोद्धुं भीमाकारस्य प्रकाशदण्डस्य साहाय्येन अनुसन्धानं प्रचलति। जनीव विश्वविद्यालयस्य गवेषकाः एव अनुसन्धानं कृतवन्तः। अयं दण्डः आल्पस् पर्वतोपरि सान्टिस् गिरिश्रृङ्गे संस्थापितः अस्ति। २० संवत्सराणि यावत् विष्येऽस्मिन् गवेषणं कृतवन्तः भवन्ति एते। षोण् पियेर् वूल्फ् इति नामकः वैज्ञानिकः भवति अस्य अनुसन्धान-विषयस्य मुख्यः नियन्ता। परीक्षणानि अनुवर्तन्ते इति वूल्फ् महाभागेन उक्तम्।
Sunday, November 13, 2022
Saturday, November 12, 2022
हिमाचलप्रदेशे अद्य निर्वाचनम्।
सिम्ला> हिमाचलप्रदेशे विधानसभानिर्वाचनम् शनिवासरे सम्पद्यते। ६८ विधानसभामण्डलानाम् अधीशत्वाय शासनपक्षीयः भा ज पा दलः, विपक्षीयः कोण्ग्रसदलः, तृतीयः आम् आद्मी पार्टिदलश्च स्पर्धिष्यन्ते।
सघोषप्रचारणं गुरुवासरे समाप्तम्। शुक्रवासरस्य निश्शब्दप्रचरणे सामान्यरीतिं विना सामाजिकमाध्यमद्वारा शक्तं प्रचारणं च राजनैतिकदलैः विधत्तम्।
Friday, November 11, 2022
टि-विंशति विश्वचषकस्पर्धायाम् इङ्लण्ट् - पाकिस्तानयोः अन्तिमस्पर्धा।
अड्लैड्> टि-विंशति विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रे भारतस्य दुर्योगः। इङ्लण्ट्दलं प्रति स्पर्धायां भारतं दशानां कन्दुकताडकानां दयनीयपराजयं स्वीकृतवत्। रविवासरे मेल्बणे सम्पद्यमाने अन्त्यप्रतिद्वन्द्वे इङ्लण्टः पाकिस्थानेन सह स्पर्धिष्यते।
गिनिसमुद्रे पण्यमहानौका प्रतिरुद्धा - १६ भारतीयैः सह २६ सेवकाः साहाय्यमपेक्षन्ते।
कोच्ची> समुद्रसीमा उल्लंघनमकरोत् इत्यारोप्य गिनि नामकेन आफ्रिक्काराष्ट्रेण प्रतिरुद्धायां पण्यवस्तुयुक्तायां महानौकायां कर्म कुर्वन्तः २६ महानौकाकर्मकराः गतमङ्गलवासरादारभ्य कारागारवासलुल्यं जीवनमनुभवन्ति। कर्मकराणां मध्ये १६ भारतीयाः अपि अन्तर्भूताः सन्ति। एतान् नैजीरियां नेतुं तद्राष्ट्रस्य सेनया प्रयत्नः आरब्धः।
नोर्वे आस्थानभूतायाः 'ओ एस् एम्' नामकसंस्थायाः स्वामित्वे वर्तमानं हेरोयिक्
कुरियाक्कु मास्टर् स्मारक पुरस्कारसमर्पणम् नवम्बर् 18 तमे दिनाङ्के।
गुरुवायूपुरम्> कुरियाक्कु मास्टर् स्मारकपुरस्कार-समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत-महाविद्यालयपरिसरे भविता। केन्द्रीय -संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोः श्रीनिवास वरखेडी वर्यः पुरस्कारसमर्पणं करिष्यति। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागाध्यक्षपदवीतः विरतो डा. पि नारायणन् नम्पूतिरिः भवति पुरस्कारविजेता। 25000 रूप्यकाणि, फलकं, प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम्।
संस्कृत-प्रणयभाजनं पि टि कुरियाक्कु मास्टर् (पि टि कुर्याक्कोस्) पावर्टी संस्कृत-महा
Wednesday, November 9, 2022
६९ वयस्काया शुभाङ्गी आप्टे महाभागया १०२ विश्वाभिलेखाः सम्प्राप्ताः।
संस्कृतभाषायाः प्रथमवनितानिर्देशिकायाः चलनचित्रं काश्मीरेषु तथा मणालि प्रदेशेषु च छायाग्रहणं प्रचलति।
मणाली> केरले आलप्पुष़ा जिल्लायां तृक्कुन्नप्पुष़ा इत्यत्र स्थितस्य एम्. टि. यू पि विद्यालयस्य संस्कृताध्यापिका श्रीमती श्रुति सैमण् 'धर्मयोद्धा' नाम चलनचित्रस्य छायाग्रहणे इदानीं व्यापृता भवति। अस्य चलनचित्रस्य निर्देशिका भवति एषा। आविश्वं संस्कृतभाषायाः प्राधान्यं न्यवेदयितुं संस्कृतं सार्वजनिकं कर्तुं च भवति तस्याः प्रयत्नः।
'देशरक्षा परमो धर्मः' इति शीर्षकात् केरलसर्वकारस्य षष्टकक्ष्यायाः संस्कृतपाठात् प्रभाविता भवति अस्य चलनचित्रस्य उद्यमः इति श्रुति महाभागया उक्तम्।
विक्रं रजपुत् इति व्योमसैनिकः काश्मीर पाकिस्थानयोः सीमनि उदग्रयानदुर्घटनायाम् आपन्नः। ततः रक्षां प्राप्य गिरीन् अतिक्रम्य तस्य प्रत्यागमनं भवति कथातन्तुः। छात्रेभ्यः इष्टतमान् विषयान् स्वीकृत्य चलनचित्रं निर्मीयते चेत् संस्कृतभाषाम् अवगन्तुं ते उत्सुकाः भवेयुः इति श्रुति महाभागया उक्तम्।
एतस्यै अध्यापनाय लब्धम् प्रथमं निष्कृतिम् उपयुज्य कर्णाटकस्य मत्तूरु संस्कृतग्रामस्य कथां ह्रस्वचित्ररूपेण निर्मितवती। मात्तूर् ग्रामवासिनां संस्कृतानुबन्धि चलनचित्रम् अनेकेषां बहुवारं पुरस्कृतानां स्वीकतृ भवति।
अस्मिन् विक्रं रजपुतस्य कथापत्रम् आल्विन् जोसफ् पुतुश्शेरि वर्येण केन्द्रकथापत्रेभ्यः नट्यानुकरणं करोति। षिफिन् फात्तिमा, सजिता मनोज्, षफीख् रहिमान् च अन्ये केन्द्रकथापात्राणां नाट्यानुकरणं कुर्वन्ति।
चित्रस्य निर्देशिका - श्रुति सैमण्, छायाग्रहणं - चिञ्चु बालन्, कथा पटकथा च - इम्मानुवेल् एन् के, मुख्य सहकारिनिर्देशकः - अनूप् शान्तकुमारन्, सहकारिनिर्देशकः आल्ड्रिन् चेरियान्, सम्पादकः - विघ्नेष्, भाषिकानुवादः - सै जु ऐक्करक्कुटि, गीतनिर्माता - अय्यम्पुष़ हरिकुमारः, संस्कृतभाषासहायी - राजेष् कालटी, प्रसाधनम् - हमीर् खान्, आशयः - रामभद्रन् तम्पुरान्, निर्माणकार्यकर्ता - लिलु टि पोल्, नटनभूमिप्रबन्धकः - निसां मणालि, कथाफलकं - जोजि जोस्, विज्ञप्तिविधानं - सुजित् डिसैन् च भवन्ति।
Monday, November 7, 2022
टान्सानियायां विमानं भूस्पर्शनावसरे तटाकं पतितवत्।
दारुसलाम्> टान्सानियादेशे भूस्पर्शावसरे विमानं तटाकं पतितवत्। वैमानिकं ऋते आहत्य ४२ यात्रिकाः विमाने आसन्। तेषु २६ यात्रिकान् रक्षित्वा आतुरालये नीतवन्तः इति प्रतिवेदनमस्ति। रक्षाप्रवर्तनानि अनुवर्तन्ते। ह्यः प्रातःकाले एव दुर्घटनेयं दुरापन्ना। प्रतिकूलवातावरणमेव अपघातस्य कारणमिति निर्णीतमस्ति।
Saturday, November 5, 2022
भारतम् अग्निशस्त्रपरीक्षणाय सज्जा; गुप्तचरमहानौकां प्रेषयन् चीनः।
२२०० कि मी सञ्चरितुं शक्तमग्निशस्त्रं ओडीषातीरस्थितात् अब्दुल् कलामद्वीपात् नवंबर् दशमे वा एकादशे दिनाङ्के विक्षिप्यते इति मन्यते। अग्निशस्त्रस्य मार्गः, वेगः, सूक्ष्मता इत्यादीनां सूचनाः चीनाय लभन्ते वा इत्याशङ्कायां भवति भारतम्।
Friday, November 4, 2022
गुजराले निर्वाचनम् उद्घुष्टम्।
चरणद्वयं; डिसम्बर् १, ५।
नवदिल्ली> गुजरातराज्ये विधानसभानिर्वाचनदिनाङ्कः केन्द्रनिर्वाचनायोगेन उद्घुष्टः। डिसम्बरमासस्य १, ५ दिनाङ्कयोः चरणद्वयमालम्ब्य मतदानं विहितम्। हिमाचलप्रदेशेन समं डिसम्बरमासस्य अष्टमे दिनाङ्के मतगणना भविष्यति।
राज्ये आदर्शव्यवहारनियमः प्राबल्यमागतः। डिसम्बर् १तमस्य प्रथमे चरणे ८९ मण्डलेषु पञ्चमे दिनाङ्के ९३ मण्डलेषु च निर्वाचनं विधास्यति।
Thursday, November 3, 2022
पाकिस्थानस्य पूर्वप्रधानमन्त्री इम्रान्खानः गोलिकया प्रहृतः। घटनेयं सामान्यकार्यक्रमे।
इस्लामाबाद्> पाकिस्थानस्य पूर्वप्रधानमन्त्री तथा पिटि ऐ नेता इम्रान्खानः गोलिकाप्रहारेण व्रणितः। वसीराबादे सफर्खान् चौके एव दुर्घटनेयं दुरापन्ना। दीर्घपदसञ्चलने भागे स्वीकृते सन्दर्भे एव गोलिकया प्रहारितः इति वार्तामाध्यमान् उद्धृत्य ए एन् ऐ इत्यनेन प्रतिवेदितम्। इम्रान्खानस्य पादे एव प्रहरः अभवत् इत्येव प्रतिवेदनम्। सः आतुरालयं प्रति नीतः। पञ्च जनाः व्रणिताः।
Wednesday, November 2, 2022
१४०० संवत्सरीयं पुरातनम् - सुवर्णपर्णानि विमुच्य पीतवर्णेन चित्रितम् आस्तरणं प्रसार्य गिङ्को वृक्षः।
चीनायां बेय्जिङ् देशस्थे बुद्धमन्दिरे एव सुवर्णपर्णानि मुञ्चती वृक्षपितामही वर्तते। वृक्षः एषः पीतपर्णानि यदा मुञ्चति तदा तदास्वादयितुं विनोदसञ्चारिणः तत्र प्रवहन्तः सन्ति। १४०० संवत्सरीयः पुरातनः च भवति एषः गिङ्कोवृक्षः। शाखासु सर्वेषु पीताम्बरं घृत्वा पीतपर्णानि अधः विमुज्य तिष्ठन्तः सुन्दरः वृक्षः२०१६ तमे संवत्सरे सामाजिकमाध्यमेषु प्रसृता आसीत्। ततः आरभ्य सन्दर्शकानां संख्या वर्धमाना अस्ति।
Tuesday, November 1, 2022
गुजराते दोलितसेतुः भग्नः - १३४ मरणानि।
गान्धिनगरं> गुजरातस्य मोर्बि जनपदे मच्चुनद्याः तीरान्तरं वर्तमानः दोलितसेतुः विच्छिद्य नदीं पतित्वा १३४ विनोदसञ्चारिणः मृताः। रविवासरे सायंसन्ध्यायामासीदियं दुर्घटना। धारणशक्तिमतिक्रम्य जनाः सेतुमरोहितवन्तः इत्येव कारणम्।
नदीं पतिताः बहवः द्रष्टव्याः वर्तन्ते। राष्ट्रियदुरन्तनिवारणसेनायाः नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः दुर्घटनायाम् अनुशोचितवन्तः।
Monday, October 31, 2022
बहिराकाशमण्डलेषु अवसराः उपयोक्तव्याः। स्टार्ट् आप् व्यवसायेभ्यः प्रधानमन्त्रिणः नरेन्द्रमोदिनः निर्देशः।
भारतीय-बाह्याकाशमण्डलेषु उद्भूताः अवसराः अधिकतया उपयोक्तव्याः इति प्रधानमन्त्री नरेन्द्रमोदी। व्यवसायाः नूतन स्टार्ट् अप् इत्यादयः च बह्याकाशमण्डलेषु नूतनाविष्काराः नूतनप्रौद्योगिकविद्याः च आनेतुं प्रयत्नं कुर्वन्तः सन्ति। इन्स्पेस् इत्यनेन सह सहकारित्वं मण्डलेऽस्मिन् बृहत् परिवर्तनम् आनेष्यति इति सः व्यजिज्ञपत्।
Sunday, October 30, 2022
सुस्मेरवदनस्य सूर्यस्य चित्रं संगृह्य नासा।
"सुस्मेरवदनः सूर्यः" - नासया संग्रहीतं सूर्यस्य नूतनं चित्रं एवं विशेषणमर्हति। नेत्रद्वयं तथा मन्दहसिताधरपल्लवम् इति द्योतमानं चित्रम् नासया बहिः प्रकाशितम्। नासायाः सोलार् डैनामिक् ओब्सर्वेट्टरि इत्यनेन एव चित्रं संग्रहीतम्। दर्शनमात्रे सूर्यः हसति इति प्रतीतिः भविष्यति तथापि तन्न इति संस्थया विशदीकृतम्। सूर्यस्य नेत्रे इव प्रतीयमानं दृश्यं यथार्थतः केरोनियल् द्वारे भवति।
Saturday, October 29, 2022
ओसोण् स्तरे छिद्रं सङ्कोचयति इति अध्ययनम्।
ओसोण् स्तरेषु छिद्रं सङ्कोचयति इति नूतनानि अध्ययनानि सूचयन्ति। दक्षिणध्रुवे एव एषा घटना। अन्टार्टिक्कायां स्ट्रोटोस्पियर् इत्यस्य उपरि एव छिद्रं दृष्टम्। प्रति संवत्सरं सेप्तंबर् मासे एव मण्डले परिवर्तनानि जायन्ते। गतद्विशताब्धाभ्यन्तरे छिद्रसङ्कोचः इति घटनायै इदं मण्डलं साक्षीभूतम्।
राष्ट्रे आरक्षकसमवस्त्रेषु एकीकरणमावश्यकम् - नरेन्द्रमोदी।
नवदिल्ली> राष्ट्रे सर्वत्र आरक्षकाणां समवस्त्रे एकीकरणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। हरियानस्य सूरजकुण्डे राज्यगृहमन्त्रिणां चिन्तनशिबिरं ओण्लैन् द्वारा अभिमुखीकुर्वन् भाषमाणः आसीत् मोदिवर्यः। पञ्च - पञ्चाशत् संवत्सराणामन्तरे संभाव्यः आशयः एव न तु बलादावश्यकमिति मोदिना उक्तम्।
राज्यानि परस्परसहयोगेन प्रचोदनं समार्ज्य राष्ट्रप्रगतये प्रवर्तमानानि भवेयुः। युवतायाः मार्गभ्रंशकारणस्य मावोवादस्य उन्मूलनाशः करणीयः इति मोदी उक्तवान्।
Friday, October 28, 2022
ऋषि सुनकः प्रधानमन्त्रिपदे अभिषिक्तः।
ब्रिट्टनस्य प्रथमो विदेशीयः प्रधानमन्त्री; भारतवंशजः।
![]() |
| ऋषिसुनकः |
लण्टनं> ब्रिट्टनस्य ५७ तम प्रधानमन्त्रिरूपेण भारतीयवंशजः ऋषि सुनकः कुजवासरे स्थानाभिषिक्तः अभवत्। सूर्यास्तरहितसाम्राज्यमिति प्रथितस्य ब्रिट्टनस्य अस्मिन् पदे प्राप्यमाणः प्रथमः विदेशीयः, प्रथमः एष्यावंशजः, प्रथमः हिन्दुधर्मविश्वासी, आधुनिकब्रिट्टनस्य अल्पतमवयसीयः प्रधानन्त्री इत्यादिभिः विशेषणैरेव ४२वयस्कस्य ऋषिसुनकस्य स्थानारोहणम्।
समीपकाले ब्रिट्टने सम्पन्ने निर्वाचने 'कण्सर्वेटीव् पार्टी' इत्यस्य राजनैतिकदलस्य नेतृरूपेण तथा प्रधानमन्त्रिपदेन च निर्वाचिता लिस् ट्रस् वर्या ४५तमे दिने अप्रायोगिकार्थिकनयहेतुना स्थानं त्यक्तवती इत्यस्मात् तस्याः प्रतियोगिरूपेण स्पर्धितवान् ऋषिसुनकः पूर्वोक्तदलस्य नेतृस्थाने अवरोधितः प्रधानमन्त्रिपदं लब्धवान् च।
अन्तरिक्षे हरितगृहवातकानां सान्निध्यं वर्धते।
अन्तरिक्षे हरितगृहवातकानां सान्निध्यं वर्धते इति अध्ययनफलम्। वेल्ट् मेट्टरियोलजिक्कल् संस्थायाः नूतनप्रतिवेदनानुसारं त्रयाणां हरितगृहवातकानां सान्निध्यमेव वर्धितम्। मीथैन्, कार्बण्डयोक्सैड्, नैट्रजन् डयोक्सैड् हरितगृहवातकानां सान्निध्यमेव अधिकतया वर्धितम्। मीथैनस्य परिमाणः अतिभीतिदः इति अध्ययनानि सूचयन्ति।
Thursday, October 27, 2022
अभिमाननिमेषः - द्वयोः भारतीय समुद्रतटयोः अपि ब्लू फ्लाग् प्रमाणपत्रलब्धिः।
राष्ट्रे द्वयोः भारतीयसमुद्रतटयोः अपि ब्लू फ्लाग् प्रमाणपत्रं लब्धम्। लक्षद्वीपे मिनिकोय् तुण्टि समुद्रतटस्य तथा कटमत्त् समुद्रनटस्य च अङ्गीकारः लब्धः। केन्द्रपर्यावरणविभागस्य मन्त्री भूपेन्दर् यादवेनैव विषयमिंदं सामाजिक माध्यमाय आवेदितम्। 'अभिमाननिमेषः एषः' इति भूपेन्द्रयादवेन सामाजिकमाध्यमद्वारा आवेदितम्।
Tuesday, October 25, 2022
विंशति-२० विश्वचषकस्पर्धा - कोलिकौशले भारतस्य विजयः।
मेल्बण्> विराट् कोलिनः अत्युज्वलेन कन्दुकताडनेन विंशति-२० विश्वचषकस्पर्धायाः भारत-पाकिस्थानप्रतिद्वन्द्वे भारतस्य विजयप्राप्तिः। पाकिस्थानं चतुर्णां द्वारकाणां विनष्टेन भारतेन १६० धावनाङ्काः इति विजयलक्ष्यं प्राप्तम्। ५३ कन्दुकेभ्यः ८२ धावनाङ्कान् प्राप्य अजय्यः संवृत्तः विराट् कोली एव भारतस्य विजयशिल्पी।
स्पर्धायाः प्रथमपादे पाकिस्थानं २० क्षेपणचक्रैः १५९ - ८ इति धावनाङ्कान् प्राप्तवत्। भारतं तु प्रतिस्पर्धायां ६ ताडकान् समर्प्य १६० धावनाङ्कान् प्राप्तवत्। अन्तिमे क्षेपणचक्रे आसीत् भारतस्य उत्साहभरितः विजयः।
Monday, October 24, 2022
षि जिन् पिङः सर्वाधिकारी। तृतीयवारं नेतृरूपेण चितः।
बीजिङ्> तृतीयवारमपि चीनीयकम्यूणिस्ट् राजनैतिकदलस्य मुख्यकार्यदर्शिरूपेण 'ऐककण्येन' निर्वाचितः षि जिन् पिङः चरित्रं रचितवान्। दलस्य स्थापकः मावो से तूङ् इत्यस्यानन्तरं दलाध्यक्षरूपेण तृतीयवारं निर्वाच्यमानः प्रथमनेता भवति षि वर्यः।
सायुधसेनानांं नियन्त्रकत्वेन वर्तमानः Central Military Commission [सि एम् सि] इत्यस्य अध्यक्षरूपेण च षि चितः। अनेन राष्टपतिः, दलाध्यक्षः, सि एम् सि अध्यक्षः इति स्थानत्रये अपि षि एव अनुवर्तिष्यते।
आक्रमणान् अस्मान् शक्तं कुर्वन्ति इति युक्रैन् जनाः।
कीव्> रष्यस्य व्योमाक्रमणेन विद्युत्बन्धः अपि विनष्टाः चेदपि क्लमं विना ऊर्जस्वलतया तिष्टन्ति युक्रेनस्य जनाः। एते रात्रौ सिग्धवर्तिकायाः साहायेन रात्रि भोजनं कुर्वन्ति। "भोजनालये रात्रौ सिग्धवर्तिकायाः प्रकाशे सुहृद्जनैः साकं वयं मिलामः भोजनं कुर्मः। अस्माकं शिशवः तस्याः प्रकाशे क्रीडन्तः सन्ति। प्रौढाः मिथः विलक्षणम् उक्त्वा हसन्ति। कस्यापि युद्धस्य अस्मान् पराजयतुं न शक्यते'' इति वदन्ति जनाः।
Sunday, October 23, 2022
एल् वि एम् -३ विक्षेपणं विजयप्रदम्। ३६ उपग्रहाः भ्रमणपथेषु। चरित्रमारच्य ऐ एस् आर् ओ।
Saturday, October 22, 2022
अरुणाचलप्रदेशे स्थलसेनायाः उदग्रयानं भग्नम्। चत्वारः सैनिकाः वीरमृत्युं प्राप्ताः।
गुहावति> अरुणाचलप्रदेशे सियाङ्जिल्लायां स्थलसेनायाः उदग्रयानं प्रभज्य चत्वारः सैनिकाः वीरमृत्युमुपगताः। मिग्गिङ् इति प्रदेशे ह्यः प्रभाते १०.४ ३ वादने एव अपघातः दुरापन्नः। चतुर्णां सैनिकानां मृतशरीराणि प्रत्याहृतानि। पञ्च सैनिकाः उदग्रयाने आसीत्। रक्षाप्रवर्तनानि अनुवर्तते।
अहितम् आर्थिकनयः - ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् स्थानं त्यक्तवती। 
लिस् ट्रस्
लण्टनं> अहितं आर्थिकनयं स्वीकृत्य राष्ट्रम् आर्थिकप्रतिसन्धिमानीता इति दुष्कीर्त्या ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् वर्या स्वस्थानात् त्यागपत्रं समर्पितवती। स्थानारोहणानन्तरं ४५ तमे दिने भवति तस्याः स्थानत्यागः।
स्थानारोहणे कृते एव विविधानां कराणां मानं अधिकतया न्यूनीकृतम्। अतः 'पौण्ट्' इत्यस्य मूल्यमपि अपचितम्। राष्ट्रे आर्थिकप्रतिसन्धिः तीव्र अभवच्च। किन्तु वित्तमन्त्रिणं क्वासि क्वार्टङ् इत्येनं निष्कास्य विवादशमनाय प्रयत्तवती तथापि निष्प्रयोजनमभवत्। अस्याः स्थानत्यागः अनिवार्यः जातः।
राष्ट्रे नूतनं प्रधानमन्त्रिणं अधिगन्तुं प्रक्रमाः आरब्धाः।
Friday, October 21, 2022
आविश्वं प्रबाधमानःआगामि सांक्रमिकरोगः द्रवीभूयमानात् हिमात् इति अध्ययनफलम्।
वार्ताहरा - रमा टि के
आगमि सांक्रमिकरोगः खगात् तथा जतुकात् न भवति द्रवीभूतहिमात् इति अध्ययनानि सूचयन्ति। आर्टिक् मण्डलस्थे शुद्धजलतडाकात् स्वीकृतस्य मृदस्य जनितकविवेचनम् आधारीकृत्य कृतमध्ययनप्रतिवेदनं एव बहिरागतः। हिमानि यत्र द्रवति तत्समीपे नूतन सांक्रमिकरोगाः प्रादुर्भविष्यन्ति। एषु मण्डलेषु वैराणूनां सान्निध्यम् अधिकतया संदृष्टः अस्ति।
Thursday, October 20, 2022
अर्थनाः अङ्गीकृताः; दयाबायी निराहारसत्यग्रहं समापितवती।
अनन्तपुरी> एन्डोसल्फान् क्लेशबाधितेभ्यः उन्नीताः अर्थनाः अङ्गीकर्तुं केरलसर्वकारः सन्नद्धतां प्राकटयत् इत्यतः दयाबायिवर्यया १८ दिनैः अनुवर्तमानः निराहारसत्यग्रहः परिसमाप्तिं प्राप। अर्थनानाम् अङ्गीकारनिर्णयस्य प्रमाणपत्रं मन्त्रिण्यौ वीणाजोर्जः आर् बिन्दुश्च आतुरालयं समागत्य दयाबाय्यै दत्तवत्यौ। अनेन विधानसभायाः पुरतः १८ दिवसात्मकेन अनुवर्तमानः आन्दोलनसमित्याः निराहारान्दोलनाय विजयपरिसमाप्तिः।









.jpg)







.webp)

.jpg)


