उन्मादकानि जीवनं नाशयति - प्रधानमन्त्री।
नशामुक्त युवप्रचारणस्य प्रारम्भः।
नवदिल्ली> उन्मादकवस्तूनाम् उपयोगं विरुध्य युवकैः प्रतिज्ञा करणीया इति प्रधानमन्त्री नरेन्द्र मोदी इन्स्टग्राम माध्यमद्वारा युवकान् अभ्यर्थयत्। उन्मादकानि अल्पकालिकोत्तेजनं दास्यन्ति अपि क्रमेण सम्पूर्णं व्यक्तिजीवनं जीवनवृत्तिं [career] च अधः प्रापयिष्यन्तीति प्रधानमन्त्रिणा प्रोक्तम्। उन्मादकवस्तूनां दुरुपयोगं विरुध्य राष्ट्रव्यापकप्रचरणस्य 'नशामुक्त युवा फोर् विकसित भारत सङ्कल्प अभियान्' इत्यस्य प्रचारणम् आलक्ष्य आसीत् तस्य वीडियोसन्देशः।
१०० साप्ताहिकैः अनुवर्तमाने अस्मिन् प्रचरणाभियाने शैक्षिकसंस्थाः, युवजनसंघटनानि, सामाजिकसमूहः, १२५ संख्याधिकानि आत्मीयसंघटनानि इत्यादीनि सहयोगं करिष्यन्ति।
