OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 4, 2026

 रष्यायाः आक्रमणे युक्रैने ८० लक्षं पुस्तकानि दग्धानि। 

कीव्> उत्तरपूर्वीययुक्रैने रष्यायाः आक्रमणेन ग्रन्थसंभरणशालायां संरक्षिताः ८० लक्षं ग्रन्थाः दग्धाः। 'रानोक् पब्लिषिंग् हौस्' इत्यस्य खार्कीव् स्थाने वर्तमानां संभरणशालां प्रति आसीदाक्रमणम्। रष्यया विक्षिप्तं ड्रोण् मिसैल् शस्त्रं च संभरणशालां प्रपत्य आसीत् अग्निबाधा। 

  बालकानां कृते मुद्रिताः पाठपुस्तकानि अभिव्याप्य एव दग्धानि, अग्निं निर्वापयितुं सोमवासरे रात्रावपि न शशाक च प्रसाधकैः निगदितम्। एतदाक्रमणं युक्रैनस्य शैक्षिकव्यवस्थां संस्कृतिं च विरुध्य भवतीति प्रसाधकैः आरोपितम्। 

  २०२२ तमे वर्षे युद्धस्य आरम्भात् परं   संग्रहालयाः,  संरक्षितसंस्थाः, आराधनालयाः, सांस्कृतिकप्राधान्योपोतानि भवनानि इत्यादीनि युक्रैने  विद्यमानानि सर्वाणि रष्यया बहुवारम् आक्रान्तानि। एतदाभ्यन्तरे रविवासरे परस्परं विधत्तेषु आक्रमणेषु रष्यायां ११ बालकानभिव्याप्य २० जनाः, युक्रैने पञ्च जनाश्च मृताः।