नीट् प्रश्नपत्रचौर्यम्।
विषयविशेषज्ञाः मुख्यापराधिन इति सि बि ऐ।
नव दिल्ली> NTA संस्थया प्रश्नपत्रनिर्माणार्थं नियुक्ताः विषयिवशेषज्ञाः प्रश्नपत्रचौर्यस्य मुख्यापराधिन इति सि बि ऐ संस्थया अधिगतम्। पूर्वमेव अस्मिन् प्रकरणे निगृहीताः मनीषा गुरुनाथ मन्दारे, प्रह्लाद वित्तल् रावु कुलकर्णी, मनीषा सञ्जय हवल् दार् इत्येते राज्यान्तरस्तरीयां गूढालोचनां कृत्वा एव परिशीलनकेन्द्राणि प्रति सम्प्रेष्य लक्षशः रूप्यकाणां व्यवहारं कृतवन्तः इति सि बि ऐ संस्थया निगदितम्।