OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 4, 2026

 त्रिषु राज्येषु विधानसभा उपनिर्वाचनम्।

बङ्किपुरं भा ज पादलात् विनष्टम्।

प्रशान्त किशोरः। 

नवदिल्ली> बिहारं, मध्यप्रदेशः,गुजरात् इत्येतेषु राज्येषु सम्पन्नस्य विधानसभायाः उपनिर्वाचनस्य परिणामः उद्घोषितः। बिहारस्थे बङ्किपुरं मण्डले भाजपा दलस्य वर्तमानीनस्थानं विनष्टम्। दलस्य राष्ट्रियाध्यक्षत्वेन निर्वाचितः इत्यतः  नितिन नबीनस्य स्थानत्यागात् आसीत् तत्र उपनिर्वाचनं सम्पन्नम्। भाजपा दलस्य नीरज कुमारं १९,३२४ मतदानैः पराजित्य जनसुराज पार्टी इत्यस्य अध्यक्षः प्रशान्त किशोरः प्रतिलोमितविजयं सम्प्राप्तवान्। १९९५ तमवर्षादारभ्य भाजपायाः दृढीकृतस्थानमासीत् बङ्किपुरम्। 

  गुजरातस्य मञ्जलपुरं विधानसभामण्डले भाजपास्थानाशी सतेन्द्रबाय् पटेलः विजितवान्। मध्यप्रदेशे दतिया मण्डले कोण्ग्रस् स्थानाशी घनश्याम सिंहः विजितवान्।