OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 2, 2026

 राष्ट्रमण्डलक्रीडा

मल्लयुद्धे भारतस्य सुवर्णशोभा - ४ सुवर्णानि।

अङ्कावल्यां  पञ्चमस्थाने। 

भारतस्य मल्लयुद्धप्रवीराः।

ग्लास्गौ> जूडोस्पर्धायाः अनन्तरं मल्लयुद्धवेदिकायां सुवर्णशोभया भारतक्रीडिकाः। महिलाविभागे मुष्टियुद्धस्पर्धासु प्रीती पवार् [५४ किलो विभागः], जास्मिन् लम्बोरिया [५७ किलो], साक्षी चौधरी [५१], प्रिया गांग्हास् [६०] च सुवर्णपदकं प्राप्तवत्यः। 

  पुरुषविभागे जादुमणि सिंहाय [५५] रजतमलभत। गतदिने कुन्तक्षेपणे भारतस्य ओलिम्पिक्स् वीरः नीरज चोप्रा रजतपदकं प्राप्तवान्। 

  कायिकक्रीडासु उत्कूर्दनत्रितये (tripple jump) प्रवीण् चित्रवेलः रजतं, सेल्व प्रभुः कांस्यं,  'पारा अत्लटिक्स्' मध्ये गोलक्षेपस्पर्धायां सोमन् राणा सुवर्णं, शुभां जूयलः रजतं च सम्पाद्य भारतस्य यशः अङ्कावल्यां स्थानं च समुद्धृतवन्तः। 

  १० सुवर्णानि, १५ रजतानि, ७ कांस्यानीति क्रमेण आहत्य ३२ पदकैः भारतं पञ्चमस्थाने विराजते।