OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 2, 2026

 स्पेयिनं प्रति अभयार्थिप्रवाहः।

६७ अभयार्थिनः मृताः। 

अधिवासाय मोरोकोतीरे प्रतीक्षमाणाः जनाः। 

मड्रिड्> उत्तराफ्रिकासमीपं वर्तमानं स्पेयिनस्य सीमानगरं 'सेवूत्ता' नामकं प्रति मोरोको राष्ट्रात् अभयार्थिप्रवाहः। दिनेनैकेन षष्ट्सहस्रं जनाः समुद्रमार्गेण सेवूत्तानगरं प्राप्ताः। सेवूत्तानगरस्य जनसंख्या इदानीं ८३,५०० भवति। 

  समुद्रतरणेन अधिवासाय यतिताः ६७ अभयार्थिनः मृत्युमुपगताः। तीरस्थं वृतिम् अतिक्रान्ताः बहवः क्षताः जाताः। अभयार्थिप्रवाहे नियन्त्रणातीते जाते स्पेयिनसर्वकारेण नगरे आपत्कालीनता उद्घोषिता।