डिसंबरे स्वराष्ट्रं प्रतिनिवर्तिष्यतीति षेय्ख् हसीना।
नव दिल्ली> अस्मिन् वर्षे डिसम्बरमासे बङ्गलादेशं प्रतिगमिष्यतीति तत्रत्या भूतपूर्वा प्रधानमन्त्रिणी षेय्ख् हसीना प्रस्तुतवती। भारते राजनैतिकाभयं स्वीकृत्य वसन्ती सा भारतवासस्य वर्षद्वयपूर्तीकरणदिने बुधवासरे दिल्ल्यां Foreign Corresponds' Club of South Asia इत्यनेन समित्या आयोजिते वार्ताहरसम्मेलने भाषमाणा आसीत् हसीना। अज्ञातकेन्द्रे स्थित्वा शब्दमात्रसन्देशेन आसीत् तस्याः दृढमतं स्पष्टीकृतम्। वर्तमानीनप्रशासनेन कारागृहं वा मृत्युः वा विधास्येत अपि अहं मातृराष्ट्रं प्रति निवर्तिष्ये इति हसीना अब्रवीत्।
