OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 7, 2026

 केरलम्। 

प्रलयप्रतिरोधाय समग्राभियोजना आविष्करिष्यति - मुख्यमन्त्री।


अनन्तपुरी> राज्ये प्रलयदुष्प्रभावस्य शाश्वतपरिहाराय राष्ट्रादर्शभाव्यां समग्रदुरन्तनिवारणाभियोजनाम् आविष्करिष्यतीति मुख्यमन्त्री वि डि सतीशः प्रस्तुतवान्।  

  राज्यस्थानां जलबन्धानां प्रवर्तनानि इतोSपि शास्त्रीयं कर्तुं ए ऐ अधिष्ठितं जलबन्ध निदेशकत्वसंविधानं [Dam management] आयोजयिष्यति। जलबन्धं प्रति जलप्रवाहः, वृष्टिप्रदेशेषु वृष्टिपरिमाणं, वृष्टिसाध्यता, नदीतीरेषु जलप्रतलम् इत्यादीनाम् अनुशीलनेन भवेत् संविधानम्। एतदर्थं प्राथमिकप्रवर्तनानि आरब्धानीति मुख्यमन्त्री वार्ताहरसम्मेलने अवोचत्। 

  जलबन्धेभ्यः प्रक्षिप्तानि सिकत-पङ्कादीनि निर्मार्जयिष्यन्ति। नदीभ्यः मालिन्यानि, मृत्पङ्कादीनि मार्जयितुम् अभियोजनारूपीकरणाय राजस्व [रवन्यू] जलसेचनविभागाभ्यां कार्यभारः दत्तः। वर्षाकालस्य समाप्तौ एतानि प्रवर्तनानि आरप्स्यन्ते। प्रलयस्य मूलकारणम् अभिज्ञातुं सर्वासु नदीषु समग्रं भूमि परिशोधनं - 'Land Auditing' - आयोक्ष्यते।