भारतीयक्रिकट्क्रीडासंघः श्रीलङ्कां प्राप्तः।
'पेसर्' जस्प्रीत बुम्रा नास्ति।
कोलम्बो> निकषक्रिकट्क्रीडापरम्परायै भारतस्य क्रीडासंघः श्रीलङ्कां प्राप। शुभमान गिलस्य नेतृत्वे श्रीलङ्कां विरुध्य स्पर्धाद्वयात्मिका परम्परा अस्ति।
प्रथमा परम्परा आगस्ट् १५ तमे दिनाङ्के आरप्स्यते। द्वितीयस्पर्धा २३ तमे च। 'पेसर्' नामककन्दुकक्षेपणे कुशलः जस्प्रीत बुम्रा क्रीडासंघे नास्तीति भारतस्य कन्दुकक्षेपणे तीक्ष्णताहानिः भविष्यतीति आशङ्का वर्तते। क्षत एव बुम्रावर्यस्य अभावस्य कारणम्। बुम्रवर्यस्य स्थाने काश्मीरतः अक्विब् नबी इत्येषः गणे अन्तर्भूतः।