असमे ओडीषायां च प्रलयदुष्प्रभावः अनुवर्तते।
भुवनेश्वरं> कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या असम-ओडीषाराज्ययोः व्यापकतया बृहन्नाशः। असमे अद्यावधि आहत्य ८२ जनाः मृत्युवशं गताः। १. ९२ लक्षं जनाः प्रलयबाधिताः।
ओडीषायां १० जनपदेषु अतिवृष्टिः विनाशकारिणी अभवत्। २. ६९ लक्षं जनाः प्रलयदुष्प्रभावेण दुरितमनुभवन्ति। महानद्यां हिराकुड् जलबन्धस्य २२ जलस्थगनद्वाराणि उद्घाट्तानि। ओडीषा दुरन्तनिवारणसेनायाः केन्द्र दुरन्तनिवारणसेनायाः च नेतृत्वे रक्षाप्रवर्तनानि पुरोगम्यन्ते।