OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 5, 2026

 केरले अतिवृष्टिदुष्प्रभावः अनुवर्तते। 

२६ मरणानि, तिरोभूताः चत्वारः।

समाश्वासशिबिरेषु उप १९,००० जनाः। 

दुरन्तबाधिताः अभयकेन्द्रं नीयन्ते। 

अनन्तपुरी> राज्ये तीव्रवृष्टिः अनुवर्तते। अतीतेषु चतुर्षु दिनेषु  अतिवृष्टिदुष्प्रभावेण मृतानां संख्या २६ अभवत्।  चत्वारः जनाः तिरोभूताः इति सूच्यते। आराज्यं ४१८ अभयकेन्द्रेषु १८,४३४ जनाः सन्तीति मन्त्रिणा ए पि अनिल् कुमारेण निगदितम्। बुधवासरे पत्तनंतिट्टा,आलप्पुष़ा, कोट्टयम्, इटुक्की, एरणाकुलं, कोष़िकोट्, वयनाट्, कण्णूर्, कासरगोड् जनपदेषु ओरञ्जजागरूकता घोषिता। 

  मुख्यमन्त्री वि डि सतीशः ह्यः पत्तनंतिट्टा जनपदस्थेषु रान्नी, आरन्मुला, तिरुवल्ला, कोष़ञ्चेरी प्रदेशेषु आरब्धेषु समाश्वासशिबिराणि सम्पश्य दुरन्ताधीनान् सामाश्वासितवान्। उद्योगस्थैः सह समाश्वासप्रवर्तनानि अवलोकितवान्। वृष्टिदुष्प्रभावे ये क्लेशनाशान् अनुभवन्ति तेषां कृते आर्थिकसाह्यम् अभिव्याप्य सर्वाणि सहाय्यानि यावच्छीघ्रं प्रदातुं प्रक्रमाः आरब्धाः इति सः वार्ताहरमेलने अवोचत्।