OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 10, 2026

 ट्रम्पस्य 'गासाSभियोजना' इस्रयेलेन निरस्ता।

ट्रम्पः नेतन्याहुः च 

जरुसलेमः> गासायां शाश्वतशान्तिं पुनःस्थापयितुं गतमासे ट्रम्पेन आविष्कृता १५ प्रकरणोपेता अभियोजना इस्रयेलेन निरस्ता। यावत् हमासः पूर्णतया निरायुधीकरिष्यति, तेभ्यः इस्रयेलीनागरिकाः निर्भीकाः भवेयुः तावत्पर्यन्तं गासातः इस्रयेलस्य अपसरणं न भवेदिति प्रधानमन्त्री बञ्चमिन नेतन्याहू उदघोषयत्। रविवासरे तस्य मन्त्रिमण्डलोपवेशने  आसीत् घोषणम्। 

  गासायां सायुधसंघानां निरायूधीकरणाय डोनाल्ड ट्रम्पेन आविष्कृता इयमभियोजना हमासेन अङ्गीकृता अपि इस्रयेलस्य सम्पूर्णं सैनिकनिवर्तनं प्रथमतया हमासेन अपेक्षितमासीत्। किन्तु नेतन्याहुः अस्मिन् सन्धौ स्वीयं विप्रतिपत्तिं प्रारम्भे एव स्पष्टीकृतवान् च।