OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 7, 2026

 उत्तरभारते व्यापकवृष्टिः। 

असमे ९० मरणानि। 

उत्तराखण्डतः प्रलयदृश्यम्।

नव दिल्ली> उत्तरभारते प्रायेण सर्वत्र कतिपयदिनैः तीव्रवृष्टिः अनुवर्तते। उत्तरपूर्वीयराज्येषु वृष्टिदुष्प्रभावः तीव्रतरः अभवत्। कतिपयदिनान्यपि वृष्टिः अनुवर्तिष्यते इति केन्द्र ऋतु विज्ञानीयविभागेन निगदितम्। 

  असमे अद्यावधि ९० जनाः वृष्टिदुष्प्रभावेन मृताः। ओडीशायां चत्वारः जनपदाः पूर्णतया जलाप्लाविताः वर्तन्ते। हिमाचलप्रदेशः, उत्तरप्रदेशः, उत्तराखण्डः, पञ्चाबः, हरियानम् इत्येतेषु राज्येषु अतिवृष्टिः अस्ति। 

  हिमाचलप्रदेशः, उत्तराखण्डः इत्यादिषु पर्वतोपान्तराज्येषु वृष्टिकारणेन भूस्खलनादीनां साध्यता वर्तते इत्यतः विनोदयात्रिकाः जागरूकाः भवेयुः।