१०, २० मूल्यकानां व्याजरूप्यकाणि व्याप्रियन्ते।
मुम्बई> राष्ट्रे लघुमूल्ययुक्तेषु रूप्यकेषु कपटमुद्राणां सान्निध्यं वर्धते इति सुरक्षासंस्थाभिः सूच्यते। पूर्वं २००, ५०० रूप्यकाणां कपटमुद्राः एव अन्तर्भूयन्ते स्म। किन्तु इदानीं १०, २०, ५० रूप्यकाणां व्याजमुद्राः अधिकतया दृश्यन्ते। रिसर्व बैंकेन १०,२० रूप्यकाणां पलास्तिकमुद्राः आविष्कर्तुं मुख्यहेतुः एतच्च इति सूच्यते।
