OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 3, 2026

 राष्ट्रमण्डलक्रीडा समाप्ता।

चतुर्थस्थानं संरक्ष्य भारतम्। 

ग्लास्गौ> स्कोटलान्ड् राष्ट्रे सम्पन्ना २३तमा राष्ट्रमण्डलक्रीडा समाप्ता। मल्लयुद्धताराणां सुवर्णपदकसञ्चयनस्यापि साहाय्येन गतवारे लब्धं चतुर्थस्थानं संरक्ष्य एव  भारतस्य निवर्तनम्। १३ सुवर्णानि, १७ रजतानि, ९ कांस्यानि च भारतेनोपलब्धानि। आहत्य ३९ पदकानि। 

  प्रथमस्थाने आस्ट्रेलिया अस्ति। ७० सुवर्णानि, ४६ रजतानि, ५६ कांस्यानि च तेषां सम्पादने विद्यन्ते। आहत्य १७१ पदकानि। आहत्य ११० पदकैः इङ्गलण्टः द्वितीयस्थाने वर्तते। तृतीयस्थाने विद्यमानस्य कानडाराष्ट्रस्य ६२ पदकानि सन्ति। 

  आगामिराष्ट्रमण्डलक्रीडायै भारतम् आतिथेयत्वं वक्ष्यति। २०३० तमे सम्पत्स्यमानायाः क्रीडायाः मुख्यवेदी अहम्मदाबादस्थं नरेन्द्रमोदी क्रीडाङ्कणं भविष्यति।