आगामिनि आर्थिसंवत्सरे भारते पलास्तिकमुद्राः।
मुम्बई> राष्ट्रे पलास्तिकमुद्रापत्राणि विनिमयमानेतुं रिसर्वबैंकेन निर्णीतम्। १०, २० रूप्यकाणां 'पोलिमर्' मुद्रापत्राणि परीक्षणरूपेण आगामिनि आर्थिसंवत्सरे विपणीम् आयोक्ष्यन्ते इति रिसर्व बेंकस्य राज्यपालः सञ्जय मल्होत्रा निगदितवान्। एतदर्थं निविदादिकाः [Tender] प्रक्रमाः आरब्धाः।
वर्तमानीनाः कागदमुद्राः अपेक्ष्य पलास्तिकमुद्राः चिरस्थायिन्यः सन्ति। ३० वर्षेभ्यः बहुषु विदेशराष्ट्रेषु पोलिमर् मुद्राः विनियुज्यन्ते। किन्तु कागदमुद्राः अपि विनिमये भविष्यन्तीति राज्यपालेन निगदितम्।