OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, November 1, 2025

 केरलपुरस्काराः 

 पञ्चानां केरलश्रीः।

अनन्तपुरी> केरलप्रसूतिदिनम् आलक्ष्य उद्घोषितेषु केरलपुरस्कारेषु भिन्नभिन्नमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः पञ्च कुशलाः केरलश्रीपुरस्कारेण समाद्रियन्ते। 'Asian School of Journalism'  इत्यस्यस्थापकः शशिकुमारः , टि के एम् इति शैक्षिकस्थापनस्य अध्यक्षः षहाल् हसन् मुसलियार्, Manhole Robot इति यन्त्रमनुष्यं साक्षात्कृतवान् एम् के विमल गोविन्दः, कटवातनौकया भूप्रदक्षिणं कृतवान् नौसेनायाः निवृत्तः लफ्टनन्ट् कमान्डर् अभिलाष् टोमी, हस्तद्वयरहिता अपि वाहनं चालयित्वा चालनप्रमाणपत्रं [Driving License] सम्पादितवती तोटुपुष़ा निवासिनी जिलुमोल् मारियट् इत्येते केरलश्रीपुरस्कारान् लब्धवन्तः।

 केरलपुरस्काराः प्रख्यापिताः।

डो एम् आर् राघववार्यरस्य केरलज्योतिः। 

अम् आर् राघववार्यरि। 

द्वयोः केरलप्रभा। 

अनन्तपुरी> प्रमुखः चरित्रपण्डितः अध्यापकश्च डो एम् आर् राघववार्यर् महोदयः केरलसर्वकारस्य 'केरलज्योति'पुरस्कारेण समाद्रियते। शैक्षिकमण्डलाय दत्तं समग्रयोगदानमधिकृत्य अस्ति पुरस्कारः। कोष़कोट् प्रदेशीयः राघववार्यरः कोष़क्कोट् विश्वविद्यालये चरित्रविभागे प्रोफेसर पदीयः अध्यापकः अध्यक्षश्चासीत्। 

  कार्षिकक्षेत्रे कृताय योगदानाय पि बी अनीषः , कलाक्षेत्रे योगदानाय राजश्री वार्यरः च केरलप्रभापुरस्काराय चितौ। कण्णूरजनपदीयः अनीषः राज्यसर्वकारस्य कर्षकोत्तमपुरस्कारलब्धः युवकृषकः अस्ति। शास्त्रीयनृत्तमण्डले विख्याता राजश्री वार्यरः कैरल्याः पूर्वकालीया दूरदर्शनावतारिका च अस्ति।

 मुहम्मद असरुदीनः तेलङ्कानस्य मन्त्री। 

हैदराबादः> भारतस्य भूतपूर्वः क्रिकट्गणनायकः कोण्ग्रसनेता च मुहम्मद असरुदीनः तेलङ्कानस्य रेवन्त रेड्डी मन्त्रिमण्डले केबिनट् मन्त्रिरूपेण शपथवाचनं कृतवान्। जूमिलि हिल्स् मण्डले नवम्बर् ११ तमे दिनाङ्के उपनिर्वाचने सम्पद्यमाने   अयं प्रक्रमः आदर्शव्यवहारनियमस्य विरुद्ध इत्यारोप्य भा ज पा दलेन मुख्यनिर्वाचनाधिकारिणं प्रति निवेदनं समर्पितम्।