भाजपा शासनराज्येषु समान नागरिकसंहिता विधास्यते - अमित शाहः।
मुम्बई> २०२९ तमवर्षस्य लोकसभानिर्वाचनात् पूर्वं भाजपा दलेन नियन्त्रितेन एन् डि ए सख्येन शासमानेषु २१ राज्येषु समान नागरिक विधिसंहिता [Uniform Civil Code] विधास्यतीति गृहमन्त्री अमित शाहः प्रोक्तवान्।
उत्तराखण्डः, गुजरातः, असमः इत्येषु राज्येषु एतदाभ्यन्तरे समाननागरिकसंहिता विधत्ता। मध्यप्रदेशे संग्रहनिर्माणाय समितिः रूपीकृता। मुम्बय्यां सेवा सङ्कल्प अभियानस्य कार्यक्रमान् विशदीकृत्य भाषमाण आसीत् अमितशाहवर्यः।
