रक्तसमुद्रतीरे युद्धं तीव्रं;
यमनात् सहस्रशः पलायन्ते। 
यमनात् पलायमानाः जनाः।
दुबाय्> यमनदेशस्य रक्तसमुद्रतीरप्रदेशेषु इरानस्य साहाय्यं लभमानाः हूतिविभागाः सौदी अरेबियायाः आलम्बनेन वर्तमानाः यमनसेना च मिथः तीव्रयुद्धमनुवर्तते। रक्तसमुद्रस्य बाबुल् मन्दिप नामकः समुद्रसङ्कोचः हूतिसेनया निगृहीतः आसन्। तीरस्थानि यमननगराणि च हूतिविभागेन निगृहीतानि। तीव्रयुद्धहेतोः दशसहस्रशः जनाः यमनदेशात् पलायनं कुर्वन्ति। ५०,००० जनाः एतावत् पलायिताः इति सूच्यते।