OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 14, 2026

 'नवदिल्ली उद्घोषणम्' ऐककण्ठ्येन अनुमोद्य 

ब्रिक्स् शिखरमेलनस्य विजयपरिसमाप्तिः।

भारतमण्डपस्य अङ्कणे सदस्यराष्ट्रनेतारः नरेन्द्रमोदिना सह । 

नवदिल्ली> भौगोलिकशासनपरिष्कारः, प्रादेशिकसंघर्षः, पश्चिमेष्यासन्दिग्धता, व्यापारः, ऋतुविज्ञानीयनयम् इत्यादिविषयेषु सुव्यक्तं सुनिश्चितं च दृढमतं प्रकाश्य १८ तमं ब्रिक्स् सदस्यराष्ट्राणां शिखरसम्मेलनं विजयकरेण परिसमाप्तम्। प्रस्तुतविषयेषु रूपीकृतं १४० खण्डिकोपेतं 'नवदिल्ली प्रघोषणं'  सदस्योपसदस्यराष्ट्रैः ऐककण्ठ्येन अङ्गीकृतम्। पश्चिमेष्यायां शान्तिसंस्थापनं, भौगोलिक व्यापारश्रृङ्खलायाः अनुस्यूतप्रयाणम् इत्यादिविषयेषु सन्देहातीतमभिमतं प्रकाशितम्। 

  नरेन्द्रमोदिनः चीनराष्ट्रपतिः षी जिन् पिङ्, रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः इत्येतयोः सह उपवेशनं भारतस्य अन्ताराष्ट्रियमण्डले अनिषेध्यतां दृढीचकार। यू एन् रक्षासमित्यां भारतस्य ब्रसीलस्य च स्थिरसदस्यत्वाय चीन-रष्ययोः सहयोगम् आवर्तितम्।