OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 14, 2026

 बालवृत्तिः - कर्णाटके ८०० बालकाः आरक्षकैः विमोचिताः। 

बङ्गलुरु> बालवृत्तिं विरुध्य कर्णाटकप्रशासनस्य सक्षमप्रक्रमाः। राज्यस्य विभिन्नस्थानेषु कृते मार्गणे बालवृत्त्यधीनाः ८०० ऊनचतुर्दशवयस्काः बालकाः आरक्षकसंघैः विमोचिताः। एषु ५०३बालकाः बङ्गलुरुनगरादेव रक्षिताः। 

  मैसुरुतः १३, हुब्बल्लीतः १०, कलबुरगीतः २२, मंगलुरूतः ३, बङ्गलुरुप्रान्तीयजनपदात् ९ - इत्येवमस्ति रक्षितानां बालकानां संख्या। 

  मुख्यमन्त्रिणः डि के शिवकुमारस्य निर्देशानुसारं समग्रे राज्ये त्वरितपरिशोधना विधत्ता। व्यापारकेन्द्राणि, भोजनालयाः, अधिवासकेन्द्राणि, रेल्वे निस्थानानि, निर्माणस्थानानि इत्यादिषु ५८९७ स्थानेषु आरक्षकपरिशोधना सम्पन्ना। बङ्गलुरु नगरे एव १८ अपराधप्रकरानि वृत्तिस्वामिनः विरुध्य पञ्जीकृतानि।