यमनदेशस्य दक्षिणलोहितसमुद्रे स्थिते तन्त्रप्राधान्ययुक्ते ग्रेट्टर्- लोवर् -हनीष्-द्वीपसमूहाः हूती-विद्रोहिभिः गृहीताः।
![]() |
| कल्पितं चित्रम् |
सना> बाब् अल्-मन्देब्-जलान्तराल-समीपमागतान् हूती-विद्रोहिणः प्रतिरोद्धुं सौदी-समर्थित-सर्वकारसैन्यस्य पुनस्सङ्घटनप्रयासेषु प्रचलितेषु सत्सु एव एते द्वीपे हूती-विद्रोहिभिः स्वाधीनीकृते। तन्त्रप्राधान्ययुक्तस्य मोखा-नौकाश्रयनगरस्य, तथैव लोहितसमुद्रम् एदेन्-उपसमुद्रेण सह योजयन्तः मय्यून्-द्वीपस्य च स्वाधीनीकरणस्य सद्यः अनन्तरमेव हनीष्-द्वीपावपि हूती-दलस्य वशे अभवन्। एतेन हूती-विद्रोहिभ्यः अन्तर्राष्ट्रियसमुद्रयातातयातस्य उपरि तर्जने तु प्रभावं वा जनयिष्यन्ति इति सम्भाव्यते।
