केरले छात्रस्यूतानां भारलघूकरणाय प्रक्रमः आरब्धः।
केन्द्रमानदण्डं विधातुं सर्वकारः।
अनन्तपुरी> आगामि अध्ययनवर्षादारभ्य केरलराज्ये विद्यालययीयछात्राणां स्यूतभारं लघूकरिष्यति। छात्रस्य शरीरभारस्य दश प्रतिशतात् अधिकं स्यूतभारं न भवेदिति केन्द्रप्रशासनस्य मार्गनिर्देशः। आगामिवर्षे राज्यस्य चितेषु विद्यालयेषु परीक्षणरूपेण प्रक्रमोSयं विधास्यते। चतुर्वर्षाभ्यन्तरे आकेरलं सर्वेषु एल् पि, यू पि विद्यालयेषु स्यूतभारलघूकरणं पूर्णतया विधातुं शिक्षामन्त्रिणः एन् षंसुदीनस्य सान्निध्ये आयोजिते शैक्षिककुशलानां मेलने निर्णयमभवत्। प्रायोकनिर्देशान् समर्पयितुं काचन समितिरपि रूपीकृता।