OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 12, 2017

अमरनाथ तीर्थाटकान् सलीमः स्व मनस्थैर्येण रक्षितवान्।
श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति  भीकराक्रमणे जाते तीर्थाटकानां यानचालकस्य मनस्स्थैर्येण बृहद्दुरन्तं नापदितम्। सप्त यात्रिकाः भीकराक्रमणे हताः। क्षणे जाते आक्रमणे भीकराणां पुरतः वाहनं अतिशीघ्रम् धावयितुं चालकः सलीं गभूर भाईना कृता धीरता अन्येषां  ४९ यात्रिकाणां जीवरक्षा अकारयत्। घनान्धकारे भीकराणां दृष्टिपथात् तीर्थाटकान् व्यूढं यानं समीपस्थम् आतुरालयं प्रति सलीं अतिशीघ्रम् अचालयत्। भीकराणां गोलिकाक्रमणेन विंशति तीर्थाटकाः व्रणिताः। सलीमस्य समयोचितेन हस्तक्षेपेन वयमधुना जीवामः इति तीर्थाटकाः अवदन्। सलीमः सप्तजनान् रक्षितुं न प्रभवति, किन्तु अन्यान् सुरक्षिते स्थाने आनेतुं सः समर्थः अभवदिति अभिमानार्हः इति सहेदरः जावेदः अवदत्। भीकराक्रमणेन द्वौ तीर्थाटकौ संभवस्थाने एव मृतौ। क्षतबाधिताः चत्वारिआतुरालये च मृताः।
 पुत्री यानचालनं अकरोत्। माता आरक्षकैः बन्धिता।
हुस्टण् (यू एस्) > पञ्च विंशति वयस्का माता एकदशवयस्कायै पुत्र्यै: यान-चालनाय अनुज्ञा दत्ता इत्यनेन कारागारे बन्धिता अभवत्। गते शुक्रवासरे एव सन्दर्भः जातः। एकादश वयस्का बालिका दशवयस्केन सोदरेण सह आसीत् यानचालनम् इत्यतः प्रमादः द्विगुणीभूतः  जात:।
जवेन गम्यमाने  याने बलिका बालकयो: भिन्नः कोऽपि नास्ति इति दृष्ट्वा आरक्षकै: पश्चात् अनुगम्य निवारितौ।  गृहात् दूरतः सोदरं आनेतुं यानचलनाय अनुज्ञा मात्रा दत्ता।  आरक्षकैः माता अपराधिनी इति ज्ञात्वा बन्धिता च।  यानचालनार्थं अनुज्ञापत्र प्राप्त्यर्थं पर्याप्तः वयः बालिकायैः नासीत्। तादृश्यै बालिकायै चालनार्थं यानं अदात् इति गुरुतरः अपराधः एव कृतः इति आरक्षकैः उक्तम्।

Tuesday, July 11, 2017

पश्मिमबंगालस्य बशीरहाटस्थले दुरापादितं हिंसाचरणं विन्दनीयम् - अमर्त्यसेनः

कोलकत्ता >नोबेलपुरस्कारभाजः अमर्त्यसेनः बशीरहाटस्थाने साम्प्रदायिकहिंसां निन्दितवान। प्रख्यातार्थशास्त्रिणा अमर्त्यसेनेन प्रोक्तं यत् बंगालराज्यं साम्प्रदायिकसौहार्दस्य ऐतिह्यं सनधत्ते , तत्र साम्प्रदायिकहिंसा चिंताया: विषयः वर्तते , अस्माभि: एतस्या: घटनाया: मूलम्  अन्वेषणीयं घटनेयं दुर्विचार: प्रेरितावलोक्यते । पश्चिमबंगालराज्ये सदैव  हिन्दु-मुस्लिमानुयायिन: सौहार्देन निवसन्ति, अस्माभि: ध्यातव्यं यत्  यदेतादृशघटना: पुन: न भवेयु:।
ज्योतिषप्रतिभापुरस्कारेण डा. ईश्वरः सम्मानितः ।
     के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारेण डा ईश्वरः सम्मानितः। 5001 रू प्रशस्तिपत्रम् च  भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः ।
 
     महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्।  प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
       वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते।   ⁠⁠⁠सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।

Monday, July 10, 2017

भारताय चरित्रविजयः। 
भुवनेश्वर् > कलिङ्गयुद्धभूमौ भारताय अन्यः चरित्रविजयः।  एष्यायाः कायिकप्रतिभासङ्गमे [एष्यन् अत्लटिक् मीट्] इदंप्रथमतया भारताय प्रथमं स्थानम्।  प्रथमदिनादारभ्य अनुवर्तितम् अग्रगामित्वम् अन्तिमदिनं यावत् परिपाल्य भारतं द्वादश सुवर्णानि , पञ्च रजतानि, द्वादश कांस्यानि च लब्ध्वा एव प्रथमस्थानं प्राप्तवत्।  अन्तिमदिने भारतेन ५ सुवर्णानि, एकं रजतं, ३ कांस्यानि च प्राप्तानि।
     अष्ट, सप्त, पञ्च इति क्रमेण सुवर्ण रजत कांस्यपतकानि प्राप्य चीना द्वितीयस्थानं प्राप्रवती।  गतेषु १७ वारेष्वपि प्रथमस्थानं प्राप्तस्य चीनाराष्ट्रस्य सर्वाधिपत्यमेव अधुना भारतेन भञ्जितम्।  आगामी कायिकप्रतिभासङ्गमः २०१९तमे संवत्सरे दोहायां प्रचलिष्यति।
आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति पठनम्।।
        नवदिल्ली>लोके एव अतिबृहती आर्थिकशक्ति: स्यात् भारतमिति पठनम्।  हार्वार्ड् सर्वकलाशालया कृते पठने एव आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति सूचयति।  पञ्चविंशत्युत्तरद्विसहस्रतमे अतिवेगेन विकासं प्राप्यमाणासु आर्थिकशक्तिषु  भारतम् प्रथमस्थानम् प्राप्नुयादिति पठने सूच्यते।  राष्ट्रस्य मध्य स्थायीवार्षिकविकास: सप्त दशांशं सप्त प्रतिशतं च स्यादिति पठने व्यक्तीक्रियते।
 टोक्लामे स्थितिं दृढीकृत्य भारतीयसेना।
     
 नवदेहली> सीमाप्रदेशात् टोक्लामात् समीपभविष्ये सेनां न प्रत्याह्वयतीति भारतीयसेना। सेनायाः कृते अवश्यवस्तूनि झटित्येव प्रेषयतीति अपि सूचनाअस्ति। सेनायाः दीर्घकालं उषितुं योग्यानि पटगृहाणि निर्मितुमपि पद्धतिः अस्ति।
         संघर्षं प्रचलति चेत् सेनामार्गं अन्वेषणीयमिति गतदिने चैना भीषां दत्तमासीत्। किन्तु एतत् पुरातनं भारतं नास्तीति भारतेन उक्तम्। सीमायां  सेनायाः शक्तं स्वाधीनं एतेन भारतं व्यक्तीकरोति।
         भारतं भूट्टानः चैना च सीमां विभज्य शासनं कृते टोक्लामक्षेत्रे चैनायाः भारतस्य च सेनाः अभिमुखं तिष्ठन्ति। सीमाप्रदेशे वीथीं निर्मीय तीर्थाटकान् अवरुध्य च चैना प्रकोपनं सृजति। तेन समस्या सङ्कीर्णा जाता। तेषां आक्रमणेन भारतेन सेनाविन्यासं शक्तं कृतम्
वन्दे मातरगीते जीवितसमस्यायां संजातायां युवकः न्यायालयम् उपगतः।
     
 चेन्नै>बंकिंचन्द्रचाट्टर्जिना वन्दे मातरगीतम् विरचय्य शतकद्वयं पूर्णमभवत्। किन्तु रचितं कस्यां भाषायामिति स्पष्टीकर्तुं मद्रासोच्चन्यायालयम् उपगतवान् के. वीरमणि इति नामधेयः शिक्षाशास्त्रिच्छात्रः। युवकेन पृष्टे संशये साधूत्तरं ज्ञातुं न्यायालयेन राज्यस्तरीयमहान्यायवादी नियुक्तः।
       चिरकालप्रतीक्षमाणः सर्वकारीयोद्योगः अनेन प्रश्नेनैव नष्टः सञ्जातः। परीक्षायोग्यतायै नवत्यंकेषु आवश्यकेषु सत्सु वन्दे मातरगीतभाषा केति  प्रश्नस्य बंगाली इतिअसाधूत्तरलेखनेन नवाशीत्यंकाः एव लब्धाः आसन्। परन्तु तेन पठितेषु पुस्तकेषु बंगाली इत्युत्तरे सति मूल्यनिर्णयदोषत्वात् तस्य उद्योगावसरः नष्टः अभवदिति न्यायालयं गतवान्। बंगालीसंस्कृतभाषाभ्याम् एव गीतमिदं विरचितमिति वादिनः न्यायवादिनः वादे सति आदौ संस्कृतेन विरचितं पश्तात् बंगालीभाषायाम् अनूदितमिति सर्वकारपक्षन्यायवादी न्यायालयम् व्यज्ञापयत्।  अन्ते साधूत्तरं ज्ञातुं न्यायालयः राज्यस्तरीयमहान्यायवादिनं नियोजयति स्म। 
साधूत्तरं जूलैमासस्य एकादशदिनांकात् पूर्वं ज्ञापयितुं निरदिशत्।  द्वाभ्यां भाषायां रचितमिति प्रायेण सर्वेषु पुस्तकेषु दृश्यते। आनन्दमठमिति आख्यायिकायाः भागः एवेयं कविता संस्कृतभाषया बंगालीलिप्यां लिखितेति सामान्येन उच्यते।

Sunday, July 9, 2017

संयुक्तराष्ट्रपरिषदि परमाणु-अस्त्रेषु प्रतिबन्धप्रस्ताव: पारितः।
भारतेन उपवेशनं बहिष्कृतम् 

परमाणु- अस्त्रेषु प्रतिबन्धसबद्धप्रथमसन्धौ साहमत्यै संयुक्तराष्ट्रपरिषदि विंशत्यधिकदेशै: स्वीयमताधिकारः प्रयुक्तः, यद्यपि भारत-अमेरिका-चीन-पाकिस्तानसदृश परमाणुक्षमतासम्पन्नराष्ट्रै: परमाणु अस्त्रेषु प्रतिबंधस्थाने विध्यनुसारं बाध्यकारिव्यवस्थायै विहितवार्ता: बहिष्कृता:। परमाण्वस्त्रप्रतिबंधसंधेः निराकरणाय विध्यनुसारं बाध्यकारि एषा प्रथमा बहुपक्षीया व्यवस्थाSस्ति,  यस्यै विंशतिवर्षेभ्य: वार्ता: प्रचलन्ती आसीत्। एतदर्थं मतदानं शुक्रवासरे अभवत्, द्वविंशत्यधिकैकशतराष्ट्रै: पक्षे मतदानं कृतम् । नीदरलैंड्-देशेन विरोधमतं प्रकटितम् ,सिंगापुरदेशेन अस्मात्  दूरीकृता। भारत-अमेरिका-चीन-पाकिस्तान-रूस-उत्त्तरकोरिया-इस्राएल-सदृशैः परमाणुक्षमतासम्पन्नराष्ट्रै: सन्धेः बहिष्कारः कृतः।
.
परमाणु- अस्त्रेषुप्रतिबन्धस्थापनाय   विध्यनुसारं बाध्यकारि व्यवस्थायै अस्य वर्षस्य मार्चमासे एकं विशेषसत्रमायोजितम् आसीत्। सम्मेलस्य आयोजनाय गतवर्षे अक्टूबरमासे एकविंशत्यधिकैकोत्तरशत-राष्ट्रै: संयुक्तराष्ट्रमहासभायां मतदानं कृतमासीत्। भारतं अस्मात् दूरी आसीत् । भारतेन आत्मानं मतदानात् पृथक्कुर्वता स्पष्टीकृतं यत्  तस्य एतदर्थं सहमति: नास्ति, प्रस्तावितसम्मेलनं परमाणुनिरस्त्रीकरणाय समग्रव्यवस्थानिर्माणाय अंतराष्टीयसमुदायस्य अपेक्षां निर्वहेत् । 
भारतेन एतदपि प्रोक्तं यत् जिनेवायां समायोजितं निरस्त्रीकरण-सम्मेलनं निरस्त्रीकरणाय एकमात्र-बहुपक्षीयमंच: वर्तते | अपि चासौ परमाणु-अस्त्र सम्मेलनमधिकृत्य सी.डी इत्यत्र वार्तासम्पादनाय समर्थनं करोति।
मलालायाः विद्यालयीयशिक्षा समाप्ता। 
लण्टन् > बालिकानां शिक्षायै प्रयतिता इत्यतः गोलिकाप्रहारेण पीडितायाः पाकिस्थानबालिकायाः मलाला यूसफ् सायी नामिकायाः विद्यालयीयशिक्षाकालः समाप्तः।
   लण्टने बर्मिङ्हाम् प्रविश्यातः विद्यालयीयशिक्षां पूर्तीकृता मलाला ट्विटर् मध्ये एवं लिखितवती - "अद्य विद्यालये मम अन्तिमं दिनं, ट्विटर्मध्ये प्रथमं दिनं च।मम विद्यालयीयशैक्षिकदिनीनि मधुरकषाय सम्मिश्रितानि आसन्। लोके लक्षशः बालिकाः विद्यालयसैभाग्यम् अलभमानाः  वर्तमानाः सन्ति। तेषां कृते मम आन्दोलनम् अनुवर्तिष्यते।"
   पाकिस्थानस्य स्तात् अधित्यकायां बालिकानां शिक्षायै प्रवर्तिता इत्यतः तालिबान् भीकरैः मलाला भुषुण्डिप्रयोगविधेया अभवत्।