OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 25, 2017

गुणरहितानां औषधानां विज्ञापनं न करणीयमिति केन्द्रसर्वकारः।
नवदेहली > स्खलितान् वादान् उन्नीयमानानाम् औषधानां विज्ञापनं रोद्धुं केन्द्रसर्वकारः कर्शनसोपानानि स्वीकरोति। आयुर्वेद, सिद्ध, यूनानी, होमियो इत्यादीनां तथा केषाञ्चन लहरिपदार्थानां विज्ञापनं प्रति अस्ति सर्वकारस्य निर्देशः। विज्ञापनानि संप्रेषणं कृतवतः वार्तासंस्थाः केन्द्रसर्वकारेण आदिष्टाः।  उत्पन्नानां आवश्यकम् अनुज्ञापत्रं (License) अस्तीति संस्थाभिः निरीक्षणीयम्। नो चेत् शिक्षाविधयः भविष्यन्तीति वार्तावितरण-मन्त्रालयेन उक्तम्।

Monday, July 24, 2017

यच्चूरि: राज्यसभाम् प्रति न स्पर्धिष्येदिति  पी बी निर्णय:। 
   नवदिल्ली > सी पी एम् नेतृकार्यदर्शी सीतारामयच्चूरि: राज्यसभाम् प्रति न मत्सरेदिति पी बी निर्णय:। निर्णयं केन्द्रसमित्यां सोमवासरे आवेदयेत्। किन्तु यच्चूरि: स्पर्धिष्येदिति बङ्गालघटकं केन्द्रसमित्याम् आवश्यमुन्नयेत्। राज्यसभाम् प्रति एक: द्विवारमेव अङ्गत्वम् प्राप्नुयादिति दलस्य पारम्पर्यं यच्चूरे: कृते  नियमविपर्ययम् अङ्गीकुर्यात् इति पी बी मध्ये भूरिपक्षाभिप्राय:। यच्चूरि: च तेन सहमतिम् प्रदर्शयति। किन्तु, इदानीं तस्य जयार्थम् परिश्रम: न कृत: चेत् विंशत्युत्तरद्विसहस्रात् परं बङ्गालत: दलस्य राज्यसभाङ्गं न भवेदिति स्थितिविशेष: भविष्यति इति पक्षस्य निर्णय:।
वनिता भुवनचषकक्रिक्कट् - इङ्ग्लण्ट् राष्ट्राय किरीटः। 
लण्टन् > लोर्ड्स् क्रीडाङ्कणे सम्पन्नायाः लोकवनिताक्रिक्कट् स्पर्धायाः अन्तिमपादे भारतं विरुध्य आङ्गलराष्ट्राय विजयः। नवभिः धावनाङ्कैः एव इङ्ग्लण्टस्य विजयः।
     प्रथमं कन्दुकताडनं कृतवते इङ्ग्लण्ट् दलाय सप्तक्रीडकानां विनष्टेन २२८ धावनाड़्कानि प्राप्तानि। तदनन्तरं प्रतिक्रीडायै उद्युक्ते भारतेन केवलं २१९ धावनाङ्कानि प्राप्तानि।
चर्चां विना शासनविधिं विरुध्य राष्ट्रपतिः। 
नवदिल्ली >   राष्ट्रविधानसभायां शासनविधीनाम् (ordinance) आधिक्यमधिकृत्य राष्ट्रपतेः प्रणब् मुखर्जीवर्यस्य विमर्शः। चर्चाविमर्शादिकं कृत्वा आदेशनिर्माणव्यवस्था एव आशास्या। नियमनिर्माणकर्तव्यं निर्वोढुं विधानसभायाः पराजयः सामान्यजनानां विश्वासाभावाय हेतुः भविष्यतीति राष्ट्रपतिना उक्तम्।
     स्थाननिवृत्तिं पुरस्कृत्य ह्यः विधानसभामण्डपे संवृत्ते प्रस्थानकार्यक्रमे भाषमाणः आसीत् राष्ट्रपतिः। अद्य सः राष्ट्रम् अभिसम्बुध्यते।
गोवा विधान सभायां  स्वामीब्रह्मानन्दमहाविद्यालयस्य अभिनन्दनम्                                   
       पनजी > स्वामी ब्रह्मानन्द संस्कृत प्रबोधिनीद्वारा संचालितं गोवा विद्यापीठेन मान्यतया अलंकृतः स्वामी ब्रह्मानन्द महाविद्यालयः जुलै मासे २०१७-१८अस्मिन् शैक्षणिक वर्षे श्रीक्षेत्र तपोभूमि कुण्डई गोवा इत्यत्र प्रारभत।सर्वकारस्य प्रथम वार्षिक नियोजन दिवसे गोवा विधानसभायां विधायकः मान्यः राजेश पाटणेकर महोदयेन संस्कृत महाविद्यालयस्य अभिनन्दन विषयः प्रस्तुतम्। भाजपा,कोंग्रेस, मगो,गोवा फॉरवर्ड इति सर्वेषां पक्षाणां विधायकाः ,पू सद्गुरु ब्रह्मेशानंदाचार्य स्वामिनः योग, संस्कृत, धार्मिक, शैक्षणिक, सामाजिक इत्यादि दिव्य कार्यस्य उल्लेखं कृतवन्तः।  विशेषण ते उक्तवन्तः संस्कृत, संस्कृति सरक्षणार्थं स्वामिनः कार्य स्तुत्यार्हः अस्ति।संस्कृत महाविद्यालयस्य कृते सम्पूर्ण तया सर्वकार्यस्य सहयोगः भविष्यति।  ४०पाठशाला माध्यमेन पूर्वं प्राथमिक स्तरे गोवाप्रान्ते  संस्थायाः कार्यं आसीत्।  अस्मिन् वर्षे संस्कृत छात्राणां पदवी अध्ययनार्थं महाविद्यालय प्रारभ्यते इति गोवराज्यस्य कृते गौरवप्रदं विषयः , इति सर्वे विधायकाः, मंत्रिणः अवदन्। प्रामुख्यैः मुख्यमंत्री महोदयः अवदत्, सर्वकार्यस्य सम्पूर्णतया सहकार्य तथा च  एतदृशे विषये सर्वक़ारस्य आर्थिक योगदानं अपि प्राप्स्यति।

Sunday, July 23, 2017

भारते त्रिंशत्कोटिः जंगमदूरवाण्युपयोक्तारः।
नवदेहली>भारते जंगमदूरवाण्युपयोक्तृ़णां संख्या द्विगुणितेति गणना।  इदानीं त्रिंशत्कोटिजनाः एव जंगमदूरवाणीम् उपयुञ्जन्ति।  द्वाविंशत्यधिकद्विसहस्रतमे वर्षे भारतीयानां चीनादेशीयानां च जंगमदूरवाण्युपयोगः सप्ततिप्रतिशतं यावत् प्राप्स्यतीति अमेरिकीयया फोरस्टर् संस्थया कृते अध्ययने संसूच्यते। 
द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे एष्या-पासफिक्राष्ट्रेषु जंगमदूरवाण्युपयोक्तृ़णां संख्या पञ्चाशदधिक-पञ्चशतकोटिः यावत् भविष्यति।  जनसंख्यावृद्ध्यापि जंगमदूरवाण्युपयोग: प्रभावितोस्ति।  द्वाविंशत्यधिक-द्विसहस्रतमे वर्षे आगोलं जंगमदूरवाण्युपयोक्तृ़णां संख्या अशीत्यधिकत्रिकोटिः भविष्यति। सप्तदशाधिक-द्विसहस्रतमे वर्षे उपयोक्तृ़णां संख्या षट्षष्टिप्रतिशतमवर्धत।
तदैव आगोलजंगमदूरवाणीविपणौ त्रिसप्ततिः प्रतिशतम् आन्ड्रोय्ड् दूरवाण्यः एव। अर्थात् अशीत्यधिकशतकोटिमिताः जनाः आन्ड्रोय्ड् दूरवाणीम् उपयुञ्जन्ति।  अवशिष्टाः एकविंशतिप्रतिशतं जनाः अाप्पिल् इति चतुर्-प्रतिशतं विन्डोस् इति च उपयुञ्जन्ति इति आवेदने सूच्यते।
मध्यप्रदेशे पलास्तिक कूपिकाः निरुद्धाः।
भोपाल्> मध्यप्रदेशे पलास्तिककूपिकाः  पूर्णतया निरुद्धाः।  गतदिने मिलितनियमसभामेलने एव राज्ये पलास्तिक  कूपीनां सम्पूर्ण -नियन्त्रणघोषणापत्रम् अंगीकृतम्।  प्रतिविधिद्वारा जूलैमासस्य प्रथमदिनाङ्के मुख्यमन्त्री शिवराज्सिङ्‌ चौहान् राज्ये पलास्लिकपोटलिकानां निरोधनं प्रख्यापितवान्।  पलास्तिकपोटलिकाः गुरुतरपरिस्थितिसमस्यानां कारणभूता इति परिगणय्य एव अयं निदेश:।  पलास्तिकपोटलिकानाम् उत्पादनं, स्वहस्ते रक्षणं, विक्रयः इत्यादीनामेव निरोध: कृतः।  भक्ष्यवस्तूनां धान्यानाञ्च संरक्षणायोपयुज्यमानानां पलास्तिकपोटलिकानामेव नियन्त्रणशैथिल्यं कृतं वर्तते।

Saturday, July 22, 2017

आकाशयात्रामध्ये यन्त्रदोषा:, विमानम् सम्मर्दपूर्णे राजमार्गे अवातारयत्।
   अमरीका> अमरीकायाम् अप्रतीक्षितयन्त्रदोषेण लघुविमानम् राजमार्गे अवातारयत्। न्यूयोर्के ( लोङ् ऐलन्ड्) दीर्घद्वीपराजमार्गे एव नाटकीयसम्भवोयम् प्रवृत्त:। समीपविमानपत्तनात् उड्डायितम् विमानम्, आकाशयात्रामध्ये यन्त्रदोषान् अभिमुखीकरोति स्म। मार्गस्य गतागतम् जी पी एस् माध्यमेन निरीक्ष्य निर्णयं कृत्वा एव वैमानिक: मार्गे अवतारयितुं निर्णयं स्वीकृतवान्  भाग्यवशात् सुरक्षितरीत्या एव विमानम् अवातारयितुं शक्यमभवत्। अन्यापघाताश्च न जाता:।
वनिता भुवनचषकक्रिक्कट् स्पर्धा - भारतम् अन्तिमचक्रे। 
डेर्बी (इङ्गन्ट्) >  हर्मन् प्रीत् कौर् नामिकायाः कन्दुकताडनप्रतिभाविलासेन इदानींतनवरिष्ठदलम् आस्ट्रेलियां ३६ धावनाङ्कैः पराजित्य भारतेन वनितानां भुवनचषकक्रिक्कट् स्पर्धायाः अन्तिमचक्रं प्रविष्टम्। रविवासरे आतिथेयकम् इङ्लण्ट् राष्ट्रं प्रति अन्तिमस्पर्धा भविष्यति।
     वृष्टिकारणेन ४२ ओवर् परिमितकृतायां स्पर्धायां ११५ कन्दुकानि अभिमुखीकृत्य वज्रनिर्घोषसमानैः कन्दुकताडनैः १७१ धावनाङ्कानि प्राप्तवत्याः पञ्चाबीयाः हर्मन् प्रीत् 'गौर्याः' क्रीडावीर्येण भारतं २८१ धावनाङ्कानि प्राप्तवत्। दलनेत्री मिताली राजः (३६), दीप्ती शर्मा ‍(२५) च कन्दुकताडने अभिमानार्हं सहयोगं कृतवत्यौ।   ओसीस् दलस्य प्रतिताडनवेलायां विजयलक्ष्यात् ३६ धावनाङ्कानां विदूरे तेषां क्रीडा समाप्ता।
विद्यालयछात्राणां कृते वार्तावतारण शिल्पशाला
पालक्काट् > प्रसरति संस्कृतं नवीनमाध्यमेषु अपि इति कारणेन संस्कृतभाषाप्रसारणमण्डले नवीनं जागरणं सञ्जातम्।  सम्प्रतिवार्तायाः दृश्यवार्तावतारणे भागं कर्तुं छात्राः बहवः अभिलषन्ति। अध्यापकानां छात्राणां च आवेदनानुसारं केरलसर्वकारस्य शैक्षिकस्तरेषु छात्राणां कृते वार्तावतारण-कौशलप्राप्तये सन्दर्भाः आयोजिताः वर्तन्ते।  अद्य पालक्काट् जनपदे तत्रत्यानां छात्राणां कृते एकदिनात्मकी शिल्पशाला प्रचाल्यते।  कोल्लङ्कोट् इति नाम शैक्षिकोपजिल्लायाम् अस्य शैक्षिक-संवत्सरस्य प्रथमा परिशीलन कक्ष्या प्रचाल्यते। शिल्पशालायां वार्तावतारणय सिद्धतां प्राप्तवतां सम्प्रतिवार्तायाः वार्तावतारकान् भवितुं सन्दर्भः लप्स्यते। सम्प्रतिवार्तायाः दृश्यवार्ताप्रसारणं समारभ्य संवत्सरमेकम् अतीतम् अधुना।  केरल सर्वकारस्य  शिक्षामन्त्रिणा सि रवीन्द्रनाथवर्येण कार्यक्रमेषु भागः स्वीकृतः आसीत्।